रामायण (दक्षिणी पाठ) · अध्याय 2.11
रामायण, अयोध्याकाण्ड, 11
अतदर्हं महाराजं शयानम् अतथोचितम् ।
ययातिम् इव पुण्यान्ते देवलोकात् परिच्युतम्
अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी ।
पुनर् आकारयामास तम् एव वरम् अङ्गना
त्वं कत्थसे महाराज सत्यवादी दृढव्रतः ।
मम चेमं वरं कस्माद् विधारयितुम् इच्छसि
एवम् उक्तस् तु कैकेय्या राजा दशरथस् तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्न् इव
मृते मयि गते रामे वनं मनुजपुंगवे ।
हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम्
यदि सत्यं ब्रवीम्य् एतत् तद् असत्यं भविष्यति ।
अकीर्तिर् अतुला लोके ध्रुवं परिभवश् च मे
तथा विलपतस् तस्य परिभ्रमितचेतसः ।
अस्तम् अभ्यगमत् सूर्यो रजनी चाभ्यवर्तत
स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता ।
राज्ञो विलपमानस्य न व्यभासत शर्वरी
तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः ।
विललापार्तवद् दुःखं गगनासक्तलोचनः
न प्रभातं त्वयेच्छामि मयायं रचितो ऽञ्जलिः ।
अथ वा गम्यतां शीघ्रं नाहम् इच्छामि निर्घृणाम् ।
नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् ॥ रम्स्_2,11.10* ॥
एवम् उक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ।
प्रसादयामास पुनः कैकेयीं चेदम् अब्रवीत्
साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ।
प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः
शून्येन खलु सुश्रोणि मयेदं समुदाहृतम् ।
कुरु साधु प्रसादं मे बाले सहृदया ह्य् असि
विशुद्धभावस्य हि दुष्टभावा ताम्रेक्षणस्याश्रुकलस्य राज्ञः ।
श्रुत्वा विचित्रं करुणं विलापं भर्तुर् नृशंसा न चकार वाक्यम्
ततः स राजा पुनर् एव मूर्छितः प्रियाम् अतुष्टां प्रतिकूलभाषिणीम् ।
समीक्ष्य पुत्रस्य विवासनं प्रति क्षितौ विसंज्ञो निपपात दुःखितः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0