भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.110

2.110.1

रामायण, अयोध्याकाण्ड, 110
सा त्व् एवम् उक्ता वैदेही अनसूयानसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुम् उपचक्रमे

2.110.2

नैतद् आश्चर्यम् आर्याया यन् मां त्वम् अनुभाषसे ।
विदितं तु ममाप्य् एतद् यथा नार्याः पतिर् गुरुः

2.110.3

यद्य् अप्य् एष भवेद् भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधम् उपचर्तव्यस् तथाप्य् एष मया भवेत्

2.110.4

किं पुनर् यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवर्ती पितृप्रियः

2.110.5

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।
ताम् एव नृपनारीणाम् अन्यासाम् अपि वर्तते

2.110.6

सकृद् दृष्टास्व् अपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद् वर्तते वीरो मानम् उत्सृज्य धर्मवित्

2.110.7

आगच्छन्त्याश् च विजनं वनम् एवं भयावहम् ।
समाहितं हि मे श्वश्र्वा हृदये यत् स्थितं मम

2.110.8

पाणिप्रदानकाले च यत् पुरा त्व् अग्निसंनिधौ ।
अनुशिष्टा जनन्यास्मि वाक्यं तद् अपि मे धृतम्

2.110.9

नवीकृतं तु तत् सर्वं वाक्यैस् ते धर्मचारिणि ।
पतिशुश्रूषणान् नार्यास् तपो नान्यद् विधीयते

2.110.10

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथा वृत्तिश् च याता त्वं पतिशुश्रूषया दिवम्

2.110.11

वरिष्ठा सर्वनारीणाम् एषा च दिवि देवता ।
रोहिणी च विना चन्द्रं मुहूर्तम् अपि दृश्यते

2.110.12

एवंविधाश् च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा

2.110.13

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्य् आघ्राय चोवाच मैथिलीं हर्षयन्त्य् उत

2.110.14

नियमैर् विविधैर् आप्तं तपो हि महद् अस्ति मे ।
तत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते

2.110.16

उपपन्नं च युक्तं च वचनं तव मैथिलि ।
प्रीता चास्म्य् उचितं किं ते करवाणि ब्रवीहि मे ।
कृतम् इत्य् अब्रवीत् सीता तपोबलसमन्विताम् ॥ रम्स्_2,110.15* ॥
सा त्व् एवम् उक्ता धर्मज्ञा तया प्रीततराभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्य् अहम्

2.110.17

इदं दिव्यं वरं माल्यं वस्त्रम् आभरणानि च ।
अङ्गरागं च वैदेहि महार्हम् अनुलेपनम्

2.110.18

मया दत्तम् इदं सीते तव गात्राणि शोभयेत् ।
अनुरूपम् असंक्लिष्टं नित्यम् एव भविष्यति

2.110.19

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यामि भर्तारं यथा श्रीर् विष्णुम् अव्ययम्

2.110.20

सा वस्त्रम् अङ्गरागं च भूषणानि स्रजस् तथा ।
मैथिली प्रतिजग्राह प्रीतिदानम् अनुत्तमम्

2.110.21

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्

2.110.22

तथा सीताम् उपासीनाम् अनसूया दृढव्रता ।
वचनं प्रष्टुम् आरेभे कथां कांचिद् अनुप्रियाम्

2.110.23

स्वयंवरे किल प्राप्ता त्वम् अनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिम् उपागता

2.110.24

तां कथां श्रोतुम् इच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन् मे त्वं वक्तुम् अर्हसि

2.110.25

एवम् उक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयताम् इति चोक्त्वा वै कथयामास तां कथाम्

2.110.26

मिथिलाधिपतिर् वीरो जनको नाम धर्मवित् ।
क्षत्रधर्मण्य् अभिरतो न्यायतः शास्ति मेदिनीम्

2.110.27

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता

2.110.28

स मां दृष्ट्वा नरपतिर् मुष्टिविक्षेपतत्परः ।
पांशुगुण्ठितसर्वाङ्गीं विस्मितो जनको ऽभवत्

2.110.29

अनपत्येन च स्नेहाद् अङ्कम् आरोप्य च स्वयम् ।
ममेयं तनयेत्य् उक्त्वा स्नेहो मयि निपातितः

2.110.30

अन्तरिक्षे च वाग् उक्ताप्रतिमामानुषी किल ।
एवम् एतन् नरपते धर्मेण तनया तव

2.110.31

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।
अवाप्तो विपुलाम् ऋद्धिं माम् अवाप्य नराधिपः

2.110.32

दत्ता चास्मीष्टवद् देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया संभाविता चास्मि स्निग्धया मातृसौहृदात्

2.110.33

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्ताम् अभ्यगमद् दीनो वित्तनाशाद् इवाधनः

2.110.34

सदृशाच् चापकृष्टाच् च लोके कन्यापिता जनात् ।
प्रधर्षणाम् अवाप्नोति शक्रेणापि समो भुवि

2.110.35

तां धर्षणाम् अदूरस्थां संदृश्यात्मनि पार्थिवः ।
चिन्तार्णवगतः पारं नाससादाप्लवो यथा

2.110.36

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम

2.110.37

तस्य बुद्धिर् इयं जाता चिन्तयानस्य संततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः

2.110.38

महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ

2.110.39

असंचाल्यं मनुष्यैश् च यत्नेनापि च गौरवात् ।
तन् न शक्ता नमयितुं स्वप्नेष्व् अपि नराधिपाः

2.110.40

तद् धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वम् आमन्त्र्य पार्थिवान्

2.110.41

इदं च धनुर् उद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः

2.110.42

तच् च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसंनिभम् ।
अभिवाद्य नृपा जग्मुर् अशक्तास् तस्य तोलने

2.110.43

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः

2.110.44

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ।
विश्वामित्रस् तु धर्मात्मा मम पित्रा सुपूजितः

2.110.46

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।
सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ।
इत्य् उक्तस् तेन विप्रेण तद् धनुः समुपानयत् ॥ रम्स्_2,110.45* ॥
निमेषान्तरमात्रेण तद् आनम्य स वीर्यवान् ।
ज्यां समारोप्य झटिति पूरयामास वीर्यवान्

2.110.47

तेन पूरयता वेगान् मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दो ऽभवद् भीमः पतितस्याशनेर् इव

2.110.48

ततो ऽहं तत्र रामाय पित्रा सत्याभिसंधिना ।
उद्यता दातुम् उद्यम्य जलभाजनम् उत्तमम्

2.110.49

दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश् छन्दम् अयोध्याधिपतेः प्रभोः

2.110.50

ततः श्वशुरम् आमन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा अहं दत्ता रामाय विदितात्मने

2.110.51

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्

2.110.52

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयंवरे ।
अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc