भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.111

2.111.1

रामायण, अयोध्याकाण्ड, 111
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्य् आघ्राय मैथिलीम्

2.111.2

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयंवरं वृत्तं तत् सर्वं हि श्रुतं मया

2.111.3

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।
रविर् अस्तं गतः श्रीमान् उपोह्य रजनीं शिवाम्

2.111.4

दिवसं प्रतिकीर्णानाम् आहारार्थं पतत्रिणाम् ।
संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः

2.111.5

एते चाप्य् अभिषेकार्द्रा मुनयः फलशोधनाः ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः

2.111.6

ऋषीणाम् अग्निहोत्रेषु हुतेषु विधिपुर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः

2.111.7

अल्पपर्णा हि तरवो घनीभूताः समन्ततः ।
विप्रकृष्टे ऽपि ये देशे न प्रकाशन्ति वै दिशः

2.111.8

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्य् एते वेदितीर्थेषु शेरते

2.111.9

सम्प्रवृत्ता निशा सीते नक्षत्रसमलंकृता ।
ज्योत्स्नाप्रावरणश् चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे

2.111.10

गम्यताम् अनुजानामि रामस्यानुचरी भव ।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता

2.111.11

अलंकुरु च तावत् त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी

2.111.12

सा तदा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्व् अभिमुखी ययौ

2.111.13

तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च

2.111.14

न्यवेदयत् ततः सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम्

2.111.15

प्रहृष्टस् त्व् अभवद् रामो लक्ष्मणश् च महारथः ।
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्

2.111.16

ततस् तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस् तापसैः सिद्धैर् उवास रघुनन्दनः

2.111.17

तस्यां रात्र्यां व्यतीतायाम् अभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान्

2.111.18

ताव् ऊचुस् ते वनचरास् तापसा धर्मचारिणः ।
वनस्य तस्य संचारं राक्षसैः समभिप्लुतम्

2.111.19

एष पन्था महर्षीणां फलान्य् आहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्

2.111.20

इतीव तैः प्राञ्जलिभिस् तपस्विभिर् द्विजैः कृतस्वस्त्ययनः परंतपः ।
वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc