रामायण (दक्षिणी पाठ) · अध्याय 2.108
रामायण, अयोध्याकाण्ड, 108
प्रतिप्रयाते भरते वसन् रामस् तपोवने ।
लक्षयामास सोद्वेगम् अथौत्सुक्यं तपस्विनाम्
ये तत्र चित्रकूटस्य पुरस्तात् तापसाश्रमे ।
रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान्
नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः ।
अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः
तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः ।
कृताञ्जलिर् उवाचेदम् ऋषिं कुलपतिं ततः
न कच्चिद् भगवन् किंचित् पूर्ववृत्तम् इदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः
प्रमादाच् चरितं कच्चित् किंचिन् नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः
कच्चिच् छुश्रूषमाणा वः शुश्रूषणपरा मयि ।
प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते
अथर्षिर् जरया वृद्धस् तपसा च जरां गतः ।
वेपमान इवोवाच रामं भूतदयापरम्
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा ।
चलनं तात वैदेह्यास् तपस्विषु विशेषतः
त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते ।
रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः
रावणावरजः कश्चित् खरो नामेह राक्षसः ।
उत्पाट्य तापसान् सर्वाञ् जनस्थाननिकेतनान्
धृष्टश् च जितकाशी च नृशंसः पुरुषादकः ।
अवलिप्तश् च पापश् च त्वां च तात न मृष्यते
त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे ।
तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्
दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि ।
नाना रूपैर् विरूपैश् च रूपैर् असुखदर्शनैः
अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान् ।
प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थिताः
तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च ।
रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः
अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा ।
कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते
तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः ।
गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम्
तत् पुरा राम शारीराम् उपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम्
बहुमूलफलं चित्रम् अविदूराद् इतो वनम् ।
पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः
खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते ।
सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते
सकलत्रस्य संदेहो नित्यं यत् तस्य राघव ।
समर्थस्यापि हि सतो वासो दुःखम् इहाद्य ते
इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम् ।
न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम्
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह
रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद् देशात् तस्मात् कुलपतिम् अभिवाद्यर्षिम् ।
सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयम् उपसंपेदे
आश्रमं त्व् ऋषिविरहितं प्रभुः क्षणम् अपि न जहौ स राघवः ।
राघवं हि सततम् अनुगतास् तापसाश् चार्षचरितधृतगुणाः
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0