भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.107

2.107.1

रामायण, अयोध्याकाण्ड, 107
ततो निक्षिप्य मात्ःन् स अयोध्यायां दृढव्रतः ।
भरतः शोकसंतप्तो गुरून् इदम् अथाब्रवीत्

2.107.2

नन्दिग्रामं गमिष्यामि सर्वान् आमन्त्रये ऽद्य वः ।
तत्र दुःखम् इदं सर्वं सहिष्ये राघवं विना

2.107.3

गतश् च हि दिवं राजा वनस्थश् च गुरुर् मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः

2.107.4

एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश् च पुरोहितः

2.107.5

सदृशं श्लाघनीयं च यद् उक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्याद् अनुरूपं तवैव तत्

2.107.6

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्

2.107.7

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत् सारथिं वाक्यं रथो मे युज्यताम् इति

2.107.8

प्रहृष्टवदनः सर्वा मात्ःन् समभिवाद्य सः ।
आरुरोह रथं श्रीमाञ् शत्रुघ्नेन समन्वितः

2.107.9

आरुह्य तु रथं शीघ्रं शत्रुघ्नभरताव् उभौ ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः

2.107.10

अग्रतो गुरवस् तत्र वसिष्ठप्रमुखा द्विजाः ।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत्

2.107.11

बलं च तद् अनाहूतं गजाश्वरथसंकुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिनः

2.107.12

रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्य् आधाय पादुके

2.107.13

ततस् तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।
अवतीर्य रथात् तूर्णं गुरून् इदम् उवाच ह

2.107.15

एतद् राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ।
तम् इमं पालयिष्यामि राघवागमनं प्रति ॥ रम्स्_2,107.14* ॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ

2.107.16

ततो निक्षिप्तभारो ऽहं राघवेण समागतः ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्

2.107.17

राघवाय च संन्यासं दत्त्वेमे वरपादुके ।
राज्यं चेदम् अयोध्यां च धूतपापो भवामि च

2.107.18

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर् मम यशश् चैव भवेद् राज्याच् चतुर्गुणम्

2.107.19

एवं तु विलपन् दीनो भरतः स महायशाः ।
नन्दिग्रामे ऽकरोद् राज्यं दुःखितो मन्त्रिभिः सह

2.107.20

स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।
नन्दिग्रामे ऽवसद् वीरः ससैन्यो भरतस् तदा

2.107.21

रामागमनम् आकाङ्क्षन् भरतो भ्रातृवत्सलः ।
भ्रातुर् वचनकारी च प्रतिज्ञापारगस् तदा

2.107.22

पादुके त्व् अभिषिच्याथ नन्दिग्रामे ऽवसत् तदा ।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc