रामायण (दक्षिणी पाठ) · अध्याय 2.105
रामायण, अयोध्याकाण्ड, 105
ततः शिरसि कृत्वा तु पादुके भरतस् तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः
वसिष्ठो वामदेवश् च जाबालिश् च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास् ते ययुस् तदा ।
प्रदक्षिणं च कुर्वाणाश् चित्रकूटं महागिरिम्
पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस् तदा
अदूराच् चित्रकूटस्य ददर्श भरतस् तदा ।
आश्रमं यत्र स मुनिर् भरद्वाजः कृतालयः
स तम् आश्रमम् आगम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे कुलनन्दनः
ततो हृष्टो भरद्वाजो भरतं वाक्यम् अब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम्
एवम् उक्तस् तु भरतो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः
स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यम् अब्रवीत्
पितुः प्रतिज्ञां ताम् एव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर् मम
एवम् उक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव
एवम् उक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके हेमविकृते मम राज्याय ते ददौ
निवृत्तो ऽहम् अनुज्ञातो रामेण सुमहात्मना ।
अयोध्याम् एव गच्छामि गृहीत्वा पादुके शुभे
एतच् छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर् वाक्यम् उदाहरत्
नैतच् चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यद् आर्यं त्वयि तिष्ठेत् तु निम्ने वृष्टिम् इवोदकम्
अमृतः स महाबाहुः पिता दशरथस् तव ।
यस्य त्वम् ईदृशः पुत्रो धर्मात्मा धर्मवत्सलः
तम् ऋषिं तु महात्मानम् उक्तवाक्यं कृताञ्जलिः ।
आमन्त्रयितुम् आरेभे चरणाव् उपगृह्य च
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः ।
भरतस् तु ययौ श्रीमान् अयोध्यां सह मन्त्रिभिः
यानैश् च शकटैश् चैव हयैर् नागैश् च सा चमूः ।
पुनर् निवृत्ता विस्तीर्णा भरतस्यानुयायिनी
ततस् ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस् तां पुनः सर्वे गङ्गां शिवजलां नदीम्
तां रम्यजलसम्पूर्णां संतीर्य सहबान्धवः ।
शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः
शृङ्गवेरपुराद् भूय अयोध्यां संददर्श ह ।
भरतो दुःखसंतप्तः सारथिं चेदम् अब्रवीत्
सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वना
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0