भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.104

2.104.1

रामायण, अयोध्याकाण्ड, 104
तम् अप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः

2.104.2

अन्तर्हितास् त्व् ऋषिगणाः सिद्धाश् च परमर्षयः ।
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे

2.104.3

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि सम्भाषाम् उभयोः स्पृहयामहे

2.104.4

ततस् त्व् ऋषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलम् इत्य् ऊचुः संगता वचः

2.104.5

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्य् अवेक्षसे

2.104.6

सदानृणम् इमं रामं वयम् इच्छामहे पितुः ।
अनृणत्वाच् च कैकेय्याः स्वर्गं दशरथो गतः

2.104.7

एतावद् उक्त्वा वचनं गन्धर्वाः समहर्षयः ।
राजर्षयश् चैव तथा सर्वे स्वां स्वां गतिं गताः

2.104.8

ह्लादितस् तेन वाक्येन शुभेन शुभदर्शनः ।
रामः संहृष्टवदनस् तान् ऋषीन् अभ्यपूजयत्

2.104.9

स्रस्तगात्रस् तु भरतः स वाचा सज्जमानया ।
कृताञ्जलिर् इदं वाक्यं राघवं पुनर् अब्रवीत्

2.104.10

राजधर्मम् अनुप्रेक्ष्य कुलधर्मानुसंततिम् ।
कर्तुम् अर्हसि काकुत्स्थ मम मातुश् च याचनाम्

2.104.11

रक्षितुं सुमहद् राज्यम् अहम् एकस् तु नोत्सहे ।
पौरजानपदांश् चापि रक्तान् रञ्जयितुं तथा

2.104.12

ज्ञातयश् च हि योधाश् च मित्राणि सुहृदश् च नः ।
त्वाम् एव प्रतिकाङ्क्षन्ते पर्जन्यम् इव कर्षकाः

2.104.13

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमान् असि काकुत्स्थ लोकस्य परिपालने

2.104.14

इत्य् उक्त्वा न्यपतद् भ्रातुः पादयोर् भरतस् तदा ।
भृशं सम्प्रार्थयामास रामम् एवं प्रियंवदः

2.104.15

तम् अङ्के भ्रातरं कृत्वा रामो वचनम् अब्रवीत् ।
श्यामं नलिनपत्त्राक्षं मत्तहंसस्वरं स्वयम्

2.104.16

आगता त्वाम् इयं बुद्धिः स्वजा वैनयिकी च या ।
भृशम् उत्सहसे तात रक्षितुं पृथिवीम् अपि

2.104.17

अमात्यैश् च सुहृद्भिश् च बुद्धिमद्भिश् च मन्त्रिभिः ।
सर्वकार्याणि संमन्त्र्य सुमहान्त्य् अपि कारय

2.104.18

लक्ष्मीश् चन्द्राद् अपेयाद् वा हिमवान् वा हिमं त्यजेत् ।
अतीयात् सागरो वेलां न प्रतिज्ञाम् अहं पितुः

2.104.19

कामाद् वा तात लोभाद् वा मात्रा तुभ्यम् इदं कृतम् ।
न तन् मनसि कर्तव्यं वर्तितव्यं च मातृवत्

2.104.20

एवं ब्रुवाणं भरतः कौसल्यासुतम् अब्रवीत् ।
तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम्

2.104.21

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः

2.104.22

सो ऽधिरुह्य नरव्याघ्रः पादुके ह्य् अवरुह्य च ।
प्रायच्छत् सुमहातेजा भरताय महात्मने

2.104.23

स पादुके ते भरतः प्रतापवान् स्वलंकृते सम्परिगृह्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि

2.104.24

अथानुपूर्व्यात् प्रतिपूज्य तं जनं गुरूंश् च मन्त्रिप्रकृतीस् तथानुजौ ।
व्यसर्जयद् राघववंशवर्धनः स्थितः स्वधर्मे हिमवान् इवाचलः

2.104.25

तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ।
स त्व् एव मात्ःन् अभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc