रामायण (दक्षिणी पाठ) · अध्याय 2.103
रामायण, अयोध्याकाण्ड, 103
वसिष्ठस् तु तदा रामम् उक्त्वा राजपुरोहितः ।
अब्रवीद् धर्मसंयुक्तं पुनर् एवापरं वचः
पुरुषस्येह जातस्य भवन्ति गुरवस् त्रयः ।
आचार्यश् चैव काकुत्स्थ पिता माता च राघव
पिता ह्य् एनं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस् तस्मात् स गुरुर् उच्यते
स ते ऽहं पितुर् आचार्यस् तव चैव परंतप ।
मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम्
इमा हि ते परिषदः श्रेणयश् च समागताः ।
एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम्
वृद्धाया धर्मशीलाया मातुर् नार्हस्य् अवर्तितुम् ।
अस्यास् तु वचनं कुर्वन् नातिवर्तेः सतां गतिम्
भरतस्य वचः कुर्वन् याचमानस्य राघव ।
आत्मानं नातिवर्तेस् त्वं सत्यधर्मपराक्रम
एवं मधुरम् उक्तस् तु गुरुणा राघवः स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः
यन् मातापितरौ वृत्तं तनये कुरुतः सदा ।
न सुप्रतिकरं तत् तु मात्रा पित्रा च यत् कृतम्
यथाशक्ति प्रदानेन स्नापनाच् छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्धनेन च
स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन् मया तस्य न तन् मिथ्या भविष्यति
एवम् उक्तस् तु रामेण भरतः प्रत्यनन्तरम् ।
उवाच परमोदारः सूतं परमदुर्मनाः
इह मे स्थण्डिले शीघ्रं कुशान् आस्तर सारथे ।
आर्यं प्रत्युपवेक्ष्यामि यावन् मे न प्रसीदति
अनाहारो निरालोको धनहीनो यथा द्विजः ।
शेष्ये पुरस्ताच् छालाया यावन् न प्रतियास्यति
स तु रामम् अवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।
कुशोत्तरम् उपस्थाप्य भूमाव् एवास्तरत् स्वयम्
तम् उवाच महातेजा रामो राजर्षिसत्तमाः ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि
ब्राह्मणो ह्य् एकपार्श्वेन नरान् रोद्धुम् इहार्हति ।
न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने
उत्तिष्ठ नरशार्दूल हित्वैतद् दारुणं व्रतम् ।
पुरवर्याम् इतः क्षिप्रम् अयोध्यां याहि राघव
आसीनस् त्व् एव भरतः पौरजानपदं जनम् ।
उवाच सर्वतः प्रेक्ष्य किम् आर्यं नानुशासथ
ते तम् ऊचुर् महात्मानं पौरजानपदा जनाः ।
काकुत्स्थम् अभिजानीमः सम्यग् वदति राघवः
एषो ऽपि हि महाभागः पितुर् वचसि तिष्ठति ।
अत एव न शक्ताः स्मो व्यावर्तयितुम् अञ्जसा
तेषाम् आज्ञाय वचनं रामो वचनम् अब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्
एतच् चैवोभयं श्रुत्वा सम्यक् संपश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम्
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यम् अब्रवीत् ।
शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस् तथा
न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञम् अभिजानामि राघवम्
यदि त्व् अवश्यं वस्तव्यं कर्तव्यं च पितुर् वचः ।
अहम् एव निवत्स्यामि चतुर्दश वने समाः
धर्मात्मा तस्य तथ्येन भ्रातुर् वाक्येन विस्मितः ।
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम्
विक्रीतम् आहितं क्रीतं यत् पित्रा जीवता मम ।
न तल् लोपयितुं शक्यं मया वा भरतेन वा
उपधिर् न मया कार्यो वनवासे जुगुप्सितः ।
युक्तम् उक्तं च कैकेय्या पित्रा मे सुकृतं कृतम्
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।
सर्वम् एवात्र कल्याणं सत्यसंधे महात्मनि
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिर् उत्तमः
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।
अनृतान् मोचयानेन पितरं तं महीपतिम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0