भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.102

2.102.3

रामायण, अयोध्याकाण्ड, 102
क्रुद्धम् आज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह ।
जाबालिर् अपि जानीते लोकस्यास्य गतागतिम् ।
निवर्तयितुकामस् तु त्वाम् एतद् वाक्यम् अब्रवीत् ॥ रम्स्_2,102.1* ॥
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।
सर्वं सलिलम् एवासीत् पृथिवी यत्र निर्मिता ।
ततः समभवद् ब्रह्मा स्वयम्भूर् दैवतैः सह ॥ रम्स्_2,102.2* ॥
स वराहस् ततो भूत्वा प्रोज्जहार वसुंधराम् ।
असृजच् च जगत् सर्वं सह पुत्रैः कृतात्मभिः

2.102.4

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः

2.102.5

विवस्वान् कश्यपाज् जज्ञे मनुर् वैवस्वतः स्मृतः ।
स तु प्रजापतिः पूर्वम् इक्ष्वाकुस् तु मनोः सुतः

2.102.6

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तम् इक्ष्वाकुम् अयोध्यायां राजानं विद्धि पूर्वकम्

2.102.7

इक्ष्वाकोस् तु सुतः श्रीमान् कुक्षिर् एवेति विश्रुतः ।
कुक्षेर् अथात्मजो वीरो विकुक्षिर् उदपद्यत

2.102.8

विकुक्षेस् तु महातेजा बाणः पुत्रः प्रतापवान् ।
बाणस्य तु महाबाहुर् अनरण्यो महायशाः

2.102.9

नानावृष्टिर् बभूवास्मिन् न दुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो वापि कश्चन

2.102.11

अनरण्यान् महाबाहुः पृथू राजा बभूव ह ।
तस्मात् पृथोर् महाराजस् त्रिशङ्कुर् उदपद्यत ।
स सत्यवचनाद् वीरः सशरीरो दिवं गतः ॥ रम्स्_2,102.10* ॥
त्रिशङ्कोर् अभवत् सूनुर् धुन्धुमारो महायशाः ।
धुन्धुमारान् महातेजा युवनाश्वो व्यजायत

2.102.12

युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत ।
मान्धातुस् तु महातेजाः सुसंधिर् उदपद्यत

2.102.13

सुसंधेर् अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ।
यशस्वी ध्रुवसंधेस् तु भरतो रिपुसूदनः

2.102.16

भरतात् तु महाबाहोर् असितो नाम जायत ।
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास् तालजङ्घाश् च शूराश् च शशबिन्दवः ॥ रम्स्_2,102.14* ॥
तांस् तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुर् इति श्रुतिः ॥ रम्स्_2,102.15* ॥
भार्गवश् च्यवनो नाम हिमवन्तम् उपाश्रितः ।
तम् ऋषिं समुपागम्य कालिन्दी त्व् अभ्यवादयत्

2.102.17

स ताम् अभ्यवदद् विप्रो वरेप्सुं पुत्रजन्मनि ।
ततः सा गृहम् आगम्य देवी पुत्रं व्यजायत

2.102.18

सपत्न्या तु गरस् तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जातः स सगरो ऽभवत्

2.102.19

स राजा सगरो नाम यः समुद्रम् अखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन्तम् इमाः प्रजाः

2.102.20

असमञ्जस् तु पुत्रो ऽभूत् सगरस्येति नः श्रुतम् ।
जीवन्न् एव स पित्रा तु निरस्तः पापकर्मकृत्

2.102.21

अंशुमान् इति पुत्रो ऽभूद् असमञ्जस्य वीर्यवान् ।
दिलीपो ऽंशुमतः पुत्रो दिलीपस्य भगीरथः

2.102.22

भगीरथात् ककुत्स्थस् तु काकुत्स्था येन तु स्मृताः ।
ककुत्स्थस्य तु पुत्रो ऽभूद् रघुर् येन तु राघवः

2.102.23

रघोस् तु पुत्रस् तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपादः सौदास इत्य् एवं प्रथितो भुवि

2.102.24

कल्माषपादपुत्रो ऽभूच् छङ्खणस् त्व् इति विश्रुतः ।
यस् तु तद् वीर्यम् आसाद्य सहसेनो व्यनीनशत्

2.102.25

शङ्खणस्य तु पुत्रो ऽभूच् छूरः श्रीमान् सुदर्शनः ।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः

2.102.26

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः ।
प्रशुश्रुकस्य पुत्रो ऽभूद् अम्बरीषो महाद्युतिः

2.102.27

अम्बरीषस्य पुत्रो ऽभून् नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः

2.102.28

अजश् च सुव्रतश् चैव नाभागस्य सुताव् उभौ ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः

2.102.29

तस्य ज्येष्ठो ऽसि दायादो राम इत्य् अभिविश्रुतः ।
तद् गृहाण स्वकं राज्यम् अवेक्षस्व जगन् नृप

2.102.30

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजेनावरः पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते

2.102.31

स राघवाणां कुलधर्मम् आत्मनः सनातनं नाद्य विहातुम् अर्हसि ।
प्रभूतरत्नाम् अनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन् महायशाः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc