भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.101

2.101.1

रामायण, अयोध्याकाण्ड, 101
जाबालेस् तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।
उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया

2.101.2

भवान् मे प्रियकामार्थं वचनं यद् इहोक्तवान् ।
अकार्यं कार्यसंकाशम् अपथ्यं पथ्यसंमितम्

2.101.3

निर्मर्यादस् तु पुरुषः पापाचारसमन्वितः ।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः

2.101.4

कुलीनम् अकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रम् एव व्याख्याति शुचिं वा यदि वाशुचिम्

2.101.5

अनार्यस् त्व् आर्यसंकाशः शौचाद्धीनस् तथा शुचिः ।
लक्षण्यवद् अलक्षण्यो दुःशीलः शीलवान् इव

2.101.6

अधर्मं धर्मवेषेण यदीमं लोकसंकरम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्

2.101.7

कश् चेतयानः पुरुषः कार्याकार्यविचक्षणः ।
बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम्

2.101.8

कस्य यास्याम्य् अहं वृत्तं केन वा स्वर्गम् आप्नुयाम् ।
अनया वर्तमानो ऽहं वृत्त्या हीनप्रतिज्ञया

2.101.9

कामवृत्तस् त्व् अयं लोकः कृत्स्नः समुपवर्तते ।
यद्वृत्ताः सन्ति राजानस् तद्वृत्ताः सन्ति हि प्रजाः

2.101.10

सत्यम् एवानृशंस्यं च राजवृत्तं सनातनम् ।
तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः

2.101.11

ऋषयश् चैव देवाश् च सत्यम् एव हि मेनिरे ।
सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम्

2.101.12

उद्विजन्ते यथा सर्पान् नराद् अनृतवादिनः ।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते

2.101.13

सत्यम् एवेश्वरो लोके सत्यं पद्मा समाश्रिता ।
सत्यमूलानि सर्वाणि सत्यान् नास्ति परं पदम्

2.101.14

दत्तम् इष्टं हुतं चैव तप्तानि च तपांसि च ।
वेदाः सत्यप्रतिष्ठानास् तस्मात् सत्यपरो भवेत्

2.101.15

एकः पालयते लोकम् एकः पालयते कुलम् ।
मज्जत्य् एको हि निरय एकः स्वर्गे महीयते

2.101.16

सो ऽहं पितुर् निदेशं तु किमर्थं नानुपालये ।
सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः

2.101.17

नैव लोभान् न मोहाद् वा न चाज्ञानात् तमोऽन्वितः ।
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः

2.101.18

असत्यसंधस्य सतश् चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्

2.101.19

प्रत्यगात्मम् इमं धर्मं सत्यं पश्याम्य् अहं स्वयम् ।
भारः सत्पुरुषाचीर्णस् तदर्थम् अभिनन्द्यते

2.101.20

क्षात्रं धर्मम् अहं त्यक्ष्ये ह्य् अधर्मं धर्मसंहितम् ।
क्षुद्रैर् नृशंसैर् लुब्धैश् च सेवितं पापकर्मभिः

2.101.21

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्

2.101.22

भूमिः कीर्तिर् यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।
स्वर्गस्थं चानुबध्नन्ति सत्यम् एव भजेत तत्

2.101.23

श्रेष्ठं ह्य् अनार्यम् एव स्याद् यद् भवान् अवधार्य माम् ।
आह युक्तिकरैर् वाक्यैर् इदं भद्रं कुरुष्व ह

2.101.24

कथं ह्य् अहं प्रतिज्ञाय वनवासम् इमं गुरोः ।
भरतस्य करिष्यामि वचो हित्वा गुरोर् वचः

2.101.25

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ ।
प्रहृष्टमानसा देवी कैकेयी चाभवत् तदा

2.101.26

वनवासं वसन्न् एवं शुचिर् नियतभोजनः ।
मूलैः पुष्पैः फलैः पुण्यैः पित्ःन् देवांश् च तर्पयन्

2.101.27

संतुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्तये ।
अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः

2.101.28

कर्मभूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् ।
अग्निर् वायुश् च सोमश् च कर्मणां फलभागिनः

2.101.29

शतं क्रतूनाम् आहृत्य देवराट् त्रिदिवं गतः ।
तपांस्य् उग्राणि चास्थाय दिवं याता महर्षयः

2.101.30

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च ।
द्विजातिदेवातिथिपूजनं च पन्थानम् आहुस् त्रिदिवस्य सन्तः

2.101.31

धर्मे रताः सत्पुरुषैः समेतास् तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश् च लोके भवन्ति पूज्या मुनयः प्रधानाः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc