भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.100

2.100.1

रामायण, अयोध्याकाण्ड, 100
आश्वासयन्तं भरतं जाबालिर् ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतम् इदं वचः

2.100.2

साधु राघव मा भूत् ते बुद्धिर् एवं निरर्थका ।
प्राकृतस्य नरस्येव आर्यबुद्धेस् तपस्विनः

2.100.3

कः कस्य पुरुषो बन्धुः किम् आप्यं कस्य केनचित् ।
यद् एको जायते जन्तुर् एक एव विनश्यति

2.100.4

तस्मान् माता पिता चेति राम सज्जेत यो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्यचित्

2.100.5

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद् वसेत् ।
उत्सृज्य च तम् आवासं प्रतिष्ठेतापरे ऽहनि

2.100.6

एवम् एव मनुष्याणां पिता माता गृहं वसु ।
आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः

2.100.7

पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्

2.100.8

समृद्धायाम् अयोध्यायाम् आत्मानम् अभिषेचय ।
एकवेणीधरा हि त्वां नगरी सम्प्रतीक्षते

2.100.9

राजभोगान् अनुभवन् महार्हान् पार्थिवात्मज ।
विहर त्वम् अयोध्यायां यथा शक्रस् त्रिविष्टपे

2.100.10

न ते कश्चिद् दशरतस् त्वं च तस्य न कश्चन ।
अन्यो राजा त्वम् अन्यश् च तस्मात् कुरु यद् उच्यते

2.100.11

गतः स नृपतिस् तत्र गन्तव्यं यत्र तेन वै ।
प्रवृत्तिर् एषा मर्त्यानां त्वं तु मिथ्या विहन्यसे

2.100.12

अर्थधर्मपरा ये ये तांस् ताञ् शोचामि नेतरान् ।
ते हि दुःखम् इह प्राप्य विनाशं प्रेत्य भेजिरे

2.100.13

अष्टकापितृदैवत्यम् इत्य् अयं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किम् अशिष्यति

2.100.14

यदि भुक्तम् इहान्येन देहम् अन्यस्य गच्छति ।
दद्यात् प्रवसतः श्राद्धं न तत् पथ्य् अशनं भवेत्

2.100.15

दानसंवनना ह्य् एते ग्रन्था मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस् तप्यस्व संत्यज

2.100.16

स नास्ति परम् इत्य् एव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत् तद् आतिष्ठ परोक्षं पृष्ठतः कुरु

2.100.17

सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc