भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.61

2.61.1

व्यतीतायां तु शर्वर्याम् आदित्यस्योदये ततः
समेत्य राजकर्तारः सभाम् ईयुर् द्विजातयः ॥

2.61.2

मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश् च काश्यपः
कात्यायनो गौतमश् च जाबालिश् च महायशाः ॥

2.61.3

एते द्विजाः सहामात्यैः पृथग् वाचम् उदीरयन्
वसिष्ठम् एवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥

2.61.4

अतीता शर्वरी दुःखं या नो वर्षशतोपमा
अस्मिन् पञ्चत्वम् आपन्ने पुत्रशोकेन पार्थिवे ॥

2.61.5

स्वर्गतश् च महाराजो रामश् चारण्यम् आश्रितः
लक्ष्मणश् चापि तेजस्वी रामेणैव गतः सह ॥

2.61.6

उभौ भरतशत्रुघ्नौ केकयेषु परंतपौ
पुरे राजगृहे रम्ये मातामहनिवेशने ॥

2.61.7

इक्ष्वाकूणाम् इहाद्यैव कश्चिद् राजा विधीयताम्
अराजकं हि नो राष्ट्रं न विनाशम् अवाप्नुयात् ॥

2.61.8

नाराजके जनपदे विद्युन्माली महास्वनः
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥

2.61.9

नाराजके जनपदे बीजमुष्टिः प्रकीर्यते
नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥

2.61.10

अराजके धनं नास्ति नास्ति भार्याप्य् अराजके
इदम् अत्याहितं चान्यत् कुतः सत्यम् अराजके ॥

2.61.11

नाराजके जनपदे कारयन्ति सभां नराः
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥

2.61.12

नाराजके जनपदे यज्ञशीला द्विजातयः
सत्त्राण्य् अन्वासते दान्ता ब्राह्मणाः संशितव्रताः ॥

2.61.13

नाराजके जनपदे प्रभूतनटनर्तकाः
उत्सवाश् च समाजाश् च वर्धन्ते राष्ट्रवर्धनाः ॥

2.61.14

नाराजके जनपदे सिद्धार्था व्यवहारिणः
कथाभिर् अनुरज्यन्ते कथाशीलाः कथाप्रियैः ॥

2.61.15

नाराजके जनपदे वाहनैः शीघ्रगामिभिः
नरा निर्यान्त्य् अरण्यानि नारीभिः सह कामिनः ॥

2.61.16

नाराजके जनपदे धनवन्तः सुरक्षिताः
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥

2.61.17

नाराजके जनपदे वणिजो दूरगामिनः
गच्छन्ति क्षेमम् अध्वानं बहुपुण्यसमाचिताः ॥

2.61.18

नाराजके जनपदे चरत्य् एकचरो वशी
भावयन्न् आत्मनात्मानं यत्र सायंगृहो मुनिः ॥

2.61.19

नाराजके जनपदे योगक्षेमं प्रवर्तते
न चाप्य् अराजके सेना शत्रून् विषहते युधि ॥

2.61.20

यथा ह्य् अनुदका नद्यो यथा वाप्य् अतृणं वनम्
अगोपाला यथा गावस् तथा राष्ट्रम् अराजकम् ॥

2.61.21

नाराजके जनपदे स्वकं भवति कस्यचित्
मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम् ॥

2.61.22

ये हि संभिन्नमर्यादा नास्तिकाश् छिन्नसंशयाः
ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः ॥

2.61.23

अहो तम इवेदं स्यान् न प्रज्ञायेत किंचन
राजा चेन् न भवेल् लोके विभजन् साध्वसाधुनी ॥

2.61.24

जीवत्य् अपि महाराजे तवैव वचनं वयम्
नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥

2.61.25

स नः समीक्ष्य द्विजवर्यवृत्तं नृपं विना राज्यम् अरण्यभूतम्
कुमारम् इक्ष्वाकुसुतं वदान्यं त्वम् एव राजानम् इहाभिषिञ्च ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc