भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 2.62

2.62.1

तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह
मित्रामात्यगणान् सर्वान् ब्राह्मणांस् तान् इदं वचः ॥

2.62.2

यद् असौ मातुलकुले पुरे राजगृहे सुखी
भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥

2.62.3

तच् छीघ्रं जवना दूता गच्छन्तु त्वरितैर् हयैः
आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम् ॥

2.62.4

गच्छन्त्व् इति ततः सर्वे वसिष्ठं वाक्यम् अब्रुवन्
तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥

2.62.5

एहि सिद्धार्थ विजय जयन्ताशोकनन्दन
श्रूयताम् इतिकर्तव्यं सर्वान् एव ब्रवीमि वः ॥

2.62.6

पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर् हयैः
त्यक्तशोकैर् इदं वाच्यः शासनाद् भरतो मम ॥

2.62.7

पुरोहितस् त्वां कुशलं प्राह सर्वे च मन्त्रिणः
त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया ॥

2.62.8

मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्
भवन्तः शंसिषुर् गत्वा राघवाणाम् इमं क्षयम् ॥

2.62.9

कौशेयानि च वस्त्राणि भूषणानि वराणि च
क्षिप्रम् आदाय राज्ञश् च भरतस्य च गच्छत
वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः ॥

2.62.10

ते हस्तिनपुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः
पाञ्चालदेशम् आसाद्य मध्येन कुरुजाङ्गलम् ॥

2.62.11

ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्
उपातिजग्मुर् वेगेन शरदण्डां जनाकुलाम् ॥

2.62.12

निकूलवृक्षम् आसाद्य दिव्यं सत्योपयाचनम्
अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम् ॥

2.62.13

अभिकालं ततः प्राप्य तेजोऽभिभवनाच् च्युताः
ययुर् मध्येन वाह्लीकान् सुदामानं च पर्वतम्
विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम् ॥

2.62.14

ते श्रान्तवाहना दूता विकृष्टेन सता पथा
गिरिव्रजं पुरवरं शीघ्रम् आसेदुर् अञ्जसा ॥

2.62.15

भर्तुः प्रियार्थं कुलरक्षणार्थं भर्तुश् च वंशस्य परिग्रहार्थम्
अहेडमानास् त्वरया स्म दूता रात्र्यां तु ते तत् पुरम् एव याताः ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc