रामायण (संशोधित पाठ) · अध्याय 2.60
तम् अग्निम् इव संशान्तम् अम्बुहीनम् इवार्णवम्
हतप्रभम् इवादित्यं स्वर्गस्थं प्रेक्ष्य भूमिपम् ॥
कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥
सकामा भव कैकेयि भुङ्क्ष्व राज्यम् अकण्टकम्
त्यक्त्वा राजानम् एकाग्रा नृशंसे दुष्टचारिणि ॥
विहाय मां गतो रामो भर्ता च स्वर्गतो मम
विपथे सार्थहीनेव नाहं जीवितुम् उत्सहे ॥
भर्तारं तं परित्यज्य का स्त्री दैवतम् आत्मनः
इच्छेज् जीवितुम् अन्यत्र कैकेय्यास् त्यक्तधर्मणः ॥
न लुब्धो बुध्यते दोषान् किं पाकम् इव भक्षयन्
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥
अनियोगे नियुक्तेन राज्ञा रामं विवासितम्
सभार्यं जनकः श्रुत्वा परितप्स्यत्य् अहं यथा ॥
रामः कमलपत्त्राक्षो जीवनाशम् इतो गतः
विदेहराजस्य सुता तथा सीता तपस्विनी
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥
नदतां भीमघोषाणां निशासु मृगपक्षिणाम्
निशम्य नूनं संत्रस्ता राघवं संश्रयिष्यति ॥
वृद्धश् चैवाल्पपुत्रश् च वैदेहीम् अनुचिन्तयन्
सो ऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥
तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम्
व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥
तैलद्रोण्याम् अथामात्याः संवेश्य जगतीपतिम्
राज्ञः सर्वाण्य् अथादिष्टाश् चक्रुः कर्माण्य् अनन्तरम् ॥
न तु संकालनं राज्ञो विना पुत्रेण मन्त्रिणः
सर्वज्ञाः कर्तुम् ईषुस् ते ततो रक्षन्ति भूमिपम् ॥
तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्
हा मृतो ऽयम् इति ज्ञात्वा स्त्रियस् ताः पर्यदेवयन् ॥
बाहून् उद्यम्य कृपणा नेत्रप्रस्रवणैर् मुखैः
रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन् ॥
निशा नक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥
गतप्रभा द्यौर् इव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी
पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्गचत्वरा ॥
नराश् च नार्यश् च समेत्य संघशो विगर्हमाणा भरतस्य मातरम्
तदा नगर्यां नरदेवसंक्षये बभूवुर् आर्ता न च शर्म लेभिरे ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0