राजतरङ्गिनी · श्लोक 947-966
हिमाचलशिखादर्पच्छेदप्रासादमेदुरम् ।
क्रमराज्ये स्फुरद्राज्यस् सुरत्राणपुरं व्यधात्
जैनकोट्टं घट्टितारिर् अट्टशालि समन्ततः ।
नृत्यत्पट्टपताकान्तकान्तं राजा विनिर्ममे
जीर्णोद्धारेषु सर्वेषु निर्माणेषु नवेषु च ।
आज्ञा राज्ञो बभौ हेतू रुय्यभाण्डपतेश् च धीः
महापद्मसरस्तीरे जैनोपपदशालिनः ।
पुरमण्डपिकाघोषांस् तथा श्रीजैनकुण्डलम् ।
स जैनपत्तनं चापि विदधे धरणीपतिः
[प्स्-ज्र्त् 121]
कारुण्यात् कीर्तिलोभाच् च स्वयम् एवाथ भूपतिः ।
वामपर्श्वे गिरौ वारि विस्रष्टुं चिरम् अभ्रमत् ॥ ज्र्त्_ब्.1232 ॥
दृष्ट्वा निस्सलिलं शैलं लेदर्यानयनोत्सुकः ।
अश्रौषीच् छास्त्रवृद्धेभ्यस् तन्मूलम् अमरेश्वरम् ॥ ज्र्त्_ब्.1233 ॥
निर्विघ्नं कार्यसिद्ध्यर्थं प्रसादयितुम् ईश्वरम् ।
आरुरोहामरेशाद्रिम् अभिमानम् इवाथ सः ॥ ज्र्त्_ब्.1234 ॥
ते लताभ्य इव म्लेच्छा नागेभ्यश् शङ्कयाकुलाः ।
नान्योऽयम् इव संलापं तत्र स्वक इव व्यधुः ॥ ज्र्त्_ब्.1235 ॥
त्वग्रोगिनाम् इव स्वस्थास् तुरुष्काणां वनस्थिताः ।
नागा दर्शनम् अप्य् अन्तर् नासहन्त कदाचन ॥ ज्र्त्_ब्.1236 ॥
धैर्येणोपद्रुतो राजा शुश्रुवान् नासहिष्ट तान् ।
बालो ऽग्निकणविप्लुष्टḫ पद्मरागम् इवामलम् ॥ ज्र्त्_ब्.1237 ॥
कपीनाम् इव बद्धानां भीतानाम् अपि च ध्रुवम् ।
म्लेच्छानां च दुराचारचापल्यं विन्यवर्तत ॥ ज्र्त्_ब्.1238 ॥
यद् उद्गर्जद्भिर् उद्यद्भिस् सविद्युद्भिर् घनैर् घनैः ।
कोपेनेवाभवत् तेषु ततẖ कालमुखं नभः ॥ ज्र्त्_ब्.1239 ॥
कातरेष्व् इव सङ्ग्रामाद् गिरेस् तूर्णपलायिषु ।
म्लेच्छेषु करकावर्षैर् नष्टधैर्येषु तत्क्षणम् ॥ ज्र्त्_ब्.1240 ॥
मानाद् इव कुलीनो ऽथ भक्त्या धैर्याद् अविच्युतः ।
अवरूढो न शैलेन्द्रात् कश्मीरेन्द्रẖ कथञ्चन ॥ ज्र्त्_ब्.1241 ॥
मान्त्रिकेष्व् इव मेघेषु गर्जत्सु यवनोरगैः ।
त्यक्तो निधिर् इव क्ष्मापो देवो नागैर् अशंस्यत ॥ ज्र्त्_ब्.1242 ॥
"निवृत्यताम् इतो देव कार्यसिद्धिर् भविष्यति ।
पूजोपकरणं शम्भोḫ प्राप्तम् एव विसृज्यताम्" ॥ ज्र्त्_ब्.1243 ॥
स्वप्ने दिव्याकृतेḫ पुंसश् श्रुत्वेति क्षितिनायकः ।
सिद्धकार्यस् ततḫ प्रातẖ कश्मीरान्तरम् आविशत् ॥ ज्र्त्_ब्.1244 ॥
"लेदरीं गिरिमार्गेणापय मार्ताण्डपत्तनम्" ।
इति राजा समादिक्षद् धार्मिकं शिर्यभट्टकम् ॥ ज्र्त्_ब्.1245 ॥
दयालुत्वात् प्रशस्तत्वान् निर्लोभत्वान् महीभुजा ।
नियुक्तस् स नदीकृष्टाव् अलगद् भट्टशिर्यकः ॥ ज्र्त्_ब्.1246 ॥
सो ऽव्याहताज्ञस् सर्वत्र लोकालीपतिभिस् ततः ।
लोकम् आनाय्य शैलेन्द्रं सरितḫ पदवीं व्यधात् ॥ ज्र्त्_ब्.1247 ॥
अवटेषु शिलाबन्धं निम्नेषु ग्रावपूरणम् ।
खनीषु कुटिलं मार्गं तस्यास् स सरितो व्यधात् ॥ ज्र्त्_ब्.1248 ॥
तटस्थान् पोषयन्त्य् उच्चैḫ पुरस्ताच्छाखिनस् सरित् ।
सा तु राजसभेवाथ रभसाद् उदपूरयत् ॥ ज्र्त्_ब्.1249 ॥
प्रज्ञेव विदुषस् स्थित्वा चिरं प्रतिपदं सरित् ।
लोलीकृततरङ्गभ्रूḫ प्रातिष्ठत शनैश् शनैः ॥ ज्र्त्_ब्.1250 ॥
राज्ञस् तपḫप्रभावेण भट्टशिर्यनयेन च ।
प्रजानाम् अपि भाग्येन नास्या विघ्नो ऽभवत् क्वचित् ॥ ज्र्त्_ब्.1251 ॥
सा भजन्ती गिरिं क्वापि त्यजन्ती दूरतẖ क्वचित् ।
वप्रात् पररतेवाभूत् सशब्दकलहा सरित् ॥ ज्र्त्_ब्.1252 ॥
नवस्य भूमिपालस्य चित्तवृत्तिर् इवाम्भसा ।
अवटो दक्षिणे नद्या वामे ऽद्रिर् विकटोपलः ।
पुरस् तुङ्गा च दीर्घा च शिलेति क्वाप्य् अदृश्यत ॥ ज्र्त्_ब्.1253 ॥
स्थूलेन गण्डशैलेन पुरतो रुद्धपद्धतिः ।
न तस्थौ न ययौ कुल्या कामिनीव विमानिता ॥ ज्र्त्_ब्.1254 ॥
राज्ञा स्वयम् अथाप्य् अत्र गण्डशैले विदारिते ।
सरित् तीर्णप्रतिज्ञेन गच्छन्ती क्रमते स्म सा ॥ ज्र्त्_ब्.1255 ॥
नद्या व्याक्रष्टुम् इष्टायाश् शिलया मार्गरोधने ।
मिहिराख्यो नृपẖ क्रोधात् स्त्रीलक्षाणि जघान सः ॥ ज्र्त्_ब्.1256 ॥
श्रीजैनोल्लाभदीनस् तु सरितो मार्गरोधिनीम् ।
दारयित्वा शिलां शस्त्रैर् जनतास् समजीवयत् ॥ ज्र्त्_ब्.1257 ॥
गिरीशमुकुटभ्रष्टां गङ्गाम् इव भगीरथः ।
लेदरीम् अब्धिविस्तीर्णां मार्ताण्डक्ष्माम् अवापयत् ॥ ज्र्त्_ब्.1258 ॥
मेखलेव गिरेस् तस्य राज्ञẖ कीर्तिर् इवामला ।
भूमेर् मुक्तालतेवासौ सरित् परम् अशोभत ॥ ज्र्त्_ब्.1259 ॥
"समीपस्थो ऽपि मार्ताण्डो न मां शोषयितुं क्षमः" ।
इतीव तरलोद्दामा निनादम् अकरोत् सरित् ॥ ज्र्त्_ब्.1260 ॥
एकश् श्रीजयनोल्लाभदीनो धर्मपरो नृपः ।
सरित्प्रवाहकपटाद् इति रेखां विधिर् व्यधात् ॥ ज्र्त्_ब्.1261 ॥
ब्रह्मचर्योपतप्तानां स्त्रीसङ्गाद् इव भूरुहाम् ।
सेकात् सरित्कृतात् तत्र किम् अप्य् उदभवत् सुखम् ॥ ज्र्त्_ब्.1262 ॥
दर्शिता वर्तनाभिस् सा गच्छन्ती सुभगं शनैः ।
सरित् सफेनहसिता मार्ताण्डम् अहसत्तराम् ॥ ज्र्त्_ब्.1263 ॥
सूर्यो हारिप्रवाहायां सरिति प्रतिबिम्बितः ।
मूर्तस् सन्निहितो ज्ञातẖ कलाव् अपि चिरं जनैः ॥ ज्र्त्_ब्.1264 ॥
ननु दीनान् पालयन्ती नदान् अभिमुखी सती ।
सरित् प्रसिद्धिम् अगमज् जैनधर्मनदीति सा ॥ ज्र्त्_ब्.1265 ॥
सान्द्रं प्रदोषजनितं तिमिरं निवार्य विश्वप्रकाशनपरस्य दिवाकरस्य ।
आयाति मण्डलतलं स्वयम् एव तेजः श्रेष्ठौषधीश ऋणम् आस्ततरां चिरं यत् ॥ ज्र्त्_ब्.1266 ॥
त्रिपञ्चाङ्गमिते वर्षवृन्दे याते कलेẖ किल ।
अथर्वकौशलाद् द्रोणो रणं कुरुबलैर् व्यधात् ॥ ज्र्त्_ब्.1267 ॥
कुरुभिर् निहते द्रोणे तदाथर्वा निराश्रयः ।
शरणीकृतवान् वेदẖ कर्णाटान् पटुचेतनान् ॥ ज्र्त्_ब्.1268 ॥
शास्त्रेष्व् अथर्ववेदस्य माहात्म्यं परिपश्यताम् ।
काश्मीरिकाणां तत्प्राप्त्यै चिरम् आसीन् मनोरथः ॥ ज्र्त्_ब्.1269 ॥
काले ऽथ विपुले याते सूहभट्टभयाकुलः ।
युद्धभट्टाभिधो मानी देशान्तरम् अगाद् गुणी ॥ ज्र्त्_ब्.1270 ॥
यजुषḫ पठनात् प्रीतैẖ कर्णाटैस् सो ऽथ पाठितः ।
सरहस्यम् अथर्वाणं निजां प्रत्यागतो भुवम् ॥ ज्र्त्_ब्.1271 ॥
श्रीजैनोल्लाभदीनस्य गुणिनो गुणरागिणः ।
उपदीकृत्य तं वेदं परां तुष्टिम् अजीजनत् ॥ ज्र्त्_ब्.1272 ॥
दत्तस्वकीयवस्त्रान्नश् शिर्यभट्टो ऽथ धर्मवित् ।
तेनैवाथर्ववेदं तं द्विजपुत्रान् अपाठयत् ॥ ज्र्त्_ब्.1273 ॥
सा धर्मिष्ठा शालास्य शिर्यभट्टस्य धीमतः ।
कर्णाटाणाम् अपि परम् अगमत् स्पृहणीयताम् ॥ ज्र्त्_ब्.1274 ॥
स्निग्धा विद्युच् छ्रवणमधुरं गर्जितं वृष्टिर् इष्टा छाया भास्वत्क्लमभरहरी मारुतो मन्दमन्दः ।
वर्षाकालं विधिर् अनुदिनं वर्धयन् स्वैर् गुणौघैर् ग्रीष्मार्तासु प्रथयति दयादक्षिणत्वं प्रजासु ॥ ज्र्त्_ब्.1275 ॥
दशाविधुरभावेन विपक्षस्य बलेन वा ।
दानसंस्कारमानादाव् अनुरूपे पराङ्मुखः ॥ ज्र्त्_ब्.1276 ॥
यस्मिन्न् आधमखानाख्ये ज्येष्ठे पुत्रे ऽपि भूपतिः ।
अप्रसन्नो विदग्धत्वहीनैस् सम्भावितश् चिरम् ॥ ज्र्त्_ब्.1277 ॥
हाज्यखानादिपुत्रेभ्यो विशेषाद् विहितादरः ।
विभासितस् स राज्ञापि तिलको मधुना यथा ॥ ज्र्त्_ब्.1278 ॥
आदौ पादतले सन्तं करालम्बं ततẖ कृतम् ।
यं दर्शनान्तरे च द्राग् उत्तमाङ्गोपरि स्थितम् ॥ ज्र्त्_ब्.1279 ॥
अवर्धयत् क्रमाद् एव कलानां निधिम् ईश्वरः ।
मल्लादर्यावखानस् स सर्वत्राधिकृतẖ कृतः ॥ ज्र्त्_ब्.1280 ॥
समो वैश्रवणस्यासीद् भट्टवैश्रवणो गुणैः ।
ईश्वरस्य प्रसादेन राजभिर् यद् अवर्त्स्यत ॥ ज्र्त्_ब्.1281 ॥
भूपतेẖ कोमलकरा मनोज्ञाचरणाञ्चिता ।
अभिराममहोदन्ता करुणा वल्लभाभवत्
अनिघ्नन् करुणानिघ्नो नरेन्द्रो डोम्बतस्करान् ।
बन्धयन् निगडैर् गाढं मृत्कर्माकारयत् सदा
निर्दिशन् यशसा शुभ्रा दिशो नृपतिर् आदिशत् ।
अवधं खगमत्स्यानाम् अनेकेषु सरस्सु सः
अथ जातु हृतां चौरैर् गां परिज्ञाय कञ्चन ।
क्रन्दन्तं भूमिपḫ पृच्छंस् चौरांश् चाथाप्य् अढौकयत्
वयोलक्षणसंवादं विना गोर् भुग्नशृङ्गताम् ।
सभाक्षोभेण हेतुं स सत्यवाग् ब्राह्मणो ऽब्रवीत्
"तिलकादिवद् एवास्यास् सहजा भुग्नशृङ्गता" ।
राज्ञा पृष्टे वदत्य् एवं चौरे मूका सभाभवत्
परीक्षार्थं तिमिस्वेदे राज्ञा गोशृङ्गयोẖ कृते ।
कुटिलत्वं व्यपैति स्म प्राक् चौरस्याथ शृङ्गयोः
एवं बुद्धिप्रकर्षेण व्यवहारविमर्शतः ।
अमात्यपर्षदो हर्षचित्तोत्कर्षम् अजीजनत्
प्राड्विवाकẖ क्षमाबुद्धिर् युक्तदण्डत्वरञ्जकः ।
राज्ञो ऽवहत् प्रजाभारं गणनापतिगौरकः
यैर् दत्तम् उपकारित्वाद् उत्कोचद्रविणं स्वयम् ।
कालान्तरे कृतघ्नेषु तेष्व् एवास्थानमण्डपे
प्रकाशयत्सु तद्दानं कुपितेन महीभुजा ।
मौलानो मल्ल एसाकस् तेभ्यस् तत् प्रतिदापितः
आदौ पादतले तिष्ठन् करालम्बीकृतस् ततः ।
अथ चक्षुष्यतां गच्छन्न् उत्तमाङ्गोर्ध्ववर्तिताम्
क्रीतो दर्यावखानो ऽथ कृतज्ञेनेश्वरेण सः ।
कलानिधिर् हिमरुचिẖ कौमुदीं हि ततो वहन्
दिनपतिर् न रसातलगं तमश् शमयितुं यतते यद् अवेक्ष्य सः ।
अतिवलद्रुचि कालघनावृतेर् हरति तत्प्रतिबिम्बम् अहो जगत्
राजा भूभारखिन्नो ऽपि खड्गधाराध्वगो ऽपि सन् ।
स्वदत्तं विभवं यस्य दृष्ट्वा विश्रामम् आप्तवान्
अस्तं मह्मदखानस् स कलानिधिर् अथागमत् ।
अत्यन्तरमणीयानां सुचिरस्थायिता कुतः
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0