राजतरङ्गिनी · श्लोक 967-976
प्रत्यब्दं प्रतिहार्याद्यैर् यो व्यधात् प्रीतिम् अर्थिनाम् ।
सत्यव्रतो दिवम् अगान् महिमश्रीस् स ठक्कुरः
तद्गोत्रजेभ्यस् स किलागूढं तस्य वधं व्यधात् ।
यो दूत्यच्छलतो राज्ञा स्वदेशान् निरवास्यत
राज्ञस् सैन्धवशुल्कादिस्थाने सोन्ध्याभिधे पुरे ।
प्रत्यागतस् स तीर्थाध्वखिन्नो विन्नो दिवं ययौ
राज्ञो धर्माधिकारेषु प्रत्यवेक्षापरस् सदा ।
महाश्रीशिर्यभट्टो ऽपि तस्मिन् काले दिवं ययौ
गतेष्व् अप्य् एषु धर्मो ऽस्य राज्ञो नैवाल्पतां गतः ।
क्ष्मां दधानस्य शेषस्य दिग्गजा हि परिच्छदः
एकाह एव दीन्नारकोटिर् एका महीभुजा ।
बालेभ्य एव दत्तासीज् जय्यभट्टमुखेन यत्
अद्भूतानां पदार्थानां तद्राज्ये सङ्ग्रहो ऽभवत् ।
नारायणावतारो ऽयं ज्ञायेत कथम् अन्यथा
येषां हिमांशुपीयूषप्रवाहा नित्यभिक्षवः ।
इक्षवस् तेन मार्ताण्डदेशभूमिषु रोपिताः
त्यजता योगमाहात्म्याद् वलीपलितविक्रियाम् ।
श्रीजैनोल्लाभदेनेन विबुधत्वं प्रकाशितम्
उदीपे सस्यसम्पत्तेर् उपप्लवकरीं व्यधात् ।
तूलमूलाद् अपाकृष्य सिन्धुं भारोसगामिनीम्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0