भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 927-946

927

[प्स्-ज्र्त् 120]
तदास्तिके कुम्भकारे गते तस्मात् पुराद् द्रुतम् ।
नागेन्द्रो जलपूरेण सर्वम् अव्रोडयत् पुरम् ॥ ज्र्त्_ब्.1213 ॥
यावत् पौराḫ पुराच् चेलुस् ते सर्वे हरिणा इव ।
तावद् एवाग्रम् आक्रामद् दावाग्निर् इव तज्जलम् ॥ ज्र्त्_ब्.1214 ॥
फणाशतोल्लसद्वारिधाराशब्दभयङ्करः ।
नागराजो ऽथ नगरीं वैरीवावेष्टयज् जलैः

928

मन्त्रान् पठत्सु विप्रेषु 10जनेषु प्रणमत्स्व् अथ ।
रुदत्स्व् अपि च बालेषु नास्याभूद् यमवद् दया

929

भयाद् बालेषु पुत्रेषु कण्ठलग्नेषु योषितः ।
वाष्पमुक्ताफलैश् चक्रुḫ पूजां फणिपतेर् इव

930

पादाद् अङ्कं ततẖ कण्ठं ततस् स्कन्धं ततश् शिरः ।
प्राणा इव सुता जग्मुर् मातॄणां भयविह्वलाः

931

सर्वाण्य् अङ्गानि नारीणां शृङ्गारीवानुरागवान् ।
कम्पमानानि लोलस् स जलपूरस् समस्पृशत्

932

ह्रस्वं दीर्घं च सूक्ष्मं च स्थूलं चाणु महत् तथा ।
अन्धकार इवाच्छाद्य जलपूरो व्यजृम्भत

933

अगाधे सलिले तस्मिन् खलस्पर्शासहस् ततः ।
फणिराजस् स्थितिं चक्रे विपिने सज्जनो यथा

934

कालियस् स हि नागेन्द्रḫ पदाक्रान्तो मुरद्विषा ।
शिरस्य् उत्पन्नपद्मत्वान् महापद्माभिधां गतः

935

नष्टान् योजयितुं भूयẖ कश्मीरान् इच्छतो हरेः ।
अवतारस् त्वम् एतत् ते सिध्यत्य् एव चिकीर्षितम्"

936

राजा श्रुत्वेति स स्वप्ने क्षणम् एवम् अचिन्तयत् ।
"एवंविधानि कार्याणि सिध्येयुẖ कथम् अन्यथा

937

प्रजाचारविपर्यासान् नाक्षमिष्ट पुरं फणी ।
नानिष्टं सहते ऽल्पो ऽपि तादृशस् तु महान् कथम्

938

नागराजोचितं छत्त्रसगोत्रम् अहम् अत्र तु ।
स्थलमात्रं यशोरत्नघटिकारभ्यम् आरभे

939

उल्लोलसरसो मध्ये वर्तमाने महास्थले ।
पवित्रे विजने चात्र सिद्धिं यास्यन्ति साधकाः"

940

चिन्तयित्वेति भूपालश् शिलाप्रवहणैर् दृढैः ।
उल्लोलसरसो मध्यम् अप्य् अगाधम् अपूरयत्

941

सरसस् तु ततस् तस्य स्थलीभूते ऽथ भूपतिः ।
मध्यदेशे महाराजो जैनलङ्कां विनिर्ममे

942

अन्ते तस्यैव सरसो राक्षसेन्द्रप्रसादतः ।
जयापीडमहीपालस् स्थलभावम् अदापयत्

943

हेमन्ते बिसशृङ्गाटकवुकोद्धरणादिना ।
श्रीजयापीडकोट्टस्य ज्ञायते ऽगाधवर्तिता

944

उल्लोलस्यान्तभागेषु सुय्याकुण्डलकादयः ।
दृश्यन्ते बहवो ग्रामा विशालसदनाङ्किताः

945

गिरयो ऽपि निमज्जन्ति यत्र तत्र तु स व्यधात् ।
जैनलङ्कां महाटङ्कां तं निधायाधिकारिणम्

946

रुय्यभाण्डपतिं शिल्पकौशलाभ्युल्लसन्मतिम् ।
राजधानीमहाद्वारं नष्टं यो ऽयोजयत् पुनः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc