भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 906-926

906

शब्देष्व् अर्थेष्व् इव कविस् ततस् समचरन् नृपः ।
वणिजाम् इव वाक्यानि व्यवहारसमुत्सुकः

907

राजा नीलपुराणादीन् पण्डितेभ्यस् ततो ऽशृणोत् ।
चिन्तान्तराणि सन्त्यज्य साहसैकसमुत्सुकः

908

कदाचिद् धरणीपालश् चिरम् एवम् अचिन्तयत् ।
"देहस्येव त्रिलोकस्य मुखवत् क्षितिमण्डलम्

909

प्रधानं तत्र कश्मीरमण्डलं नयनं यथा ।
शैलराजशिखाḫ पक्ष्मतुलां यत्र वहन्ति ताः

911

तारामण्डलवत् तत्र महापद्मसरोवरः । 910अब् ।
[प्स्-ज्र्त् 119]
शश्वद् उद्भ्रमितो यत्र मैनाकान्वेषणोद्यतः ॥ ज्र्त्_ब्.1194च्द् ॥
प्रतिबिम्बफलाद् भाति जाने हिमगिरीश्वरः ।
समुद्रसदृशे यत्र प्रतिबिम्बच्छलाद् रवेः ॥ ज्र्त्_ब्.1195 ॥
अन्तẖ कृतास्पदो दीप्तो लक्ष्यते वडवानलः । ज्र्त्_ब्.1196अब् ।
महापद्मास्पदं तत्र ज्योतिर्मण्डलसोदरम् ॥ 910च्द् ॥
तद् आपूर्य कथञ्चिच् चेत् कियन्मात्रम् अपि क्रमात् ।
निर्माणं शक्यते कर्तुं तदा राज्यफलोदयः

912

अगाधसलिलच्छन्नक्रोशाष्टाविंशतिप्रमः ।
सरोराजस् स हि महान् आशयो महताम् अपि"

913

विचिन्त्येति स विस्रष्टुं तत्रोपायं सरोवरे ।
नावास्य गतवान् मध्यं योगीवात्मानम् आत्मना

914

सदैवोद्धतकल्लोलं महापद्मसरो महत् ।
नागाहन्त नृपाḫ पूर्वे तरणीभङ्गशङ्किनः

915

तपḫप्रभावाद् धैर्याद् वा कार्यगौरवतो ऽपि वा ।
स्थलवत् सलिले तत्र स राजान्वसरत् सुखम्

916

यच् चेतसा चिरतरं परिचिन्त्यमानं चिन्तामणिẖ किल ददाति तद् एव नान्यत् ।
चित्तस्य चापि यद् अगोचरताम् उपैति तत् तु प्रयच्छतितरां वत बुद्धिरत्नम्

917

तस्य हि क्षितिपालस्य निरालम्बमतेस् सतः ।
सरसस् स्थलतां कर्तुम् उपायḫ प्रत्यभाद् अयम्

918

"शिलापूर्णप्रवहणैर् उपर्य् उपरि पातितैः ।
शैलशृङ्गैर् इवाम्भोधिम् एतद् आपूरयाम्य् अहम्

919

कृताभिर् लोहनद्धाभिḫ पट्टीभिर् देवदारुणः ।
न क्लिद्यन्ते ततस् तोये शिलाप्रवहणादिभिः"

920

ततḫ प्रत्यागतो राजा वृद्धान् आबद्धकौतुकः ।
अभ्यगाच् छरणं तत्र ते चैनं नृपम् अभ्यधुः

921

"द्वारिकेव शुभा तस्य पुरी सन्धिमती किल ।
सुदर्शनेन चक्रेण मनुजानां समाश्रिता

922

नगर्या देवता तस्य महापद्मḫ फणीश्वरः ।
त्वम् इवैतांश् चतुर्वर्णान् पुत्रवत् पर्यपालयत्

923

कलिकालबलात् तत्र दुराचारनिषेविणः ।
जनास् तद्देशवास्तव्याḫ प्रापुर् वृद्धिं दिनाद् दिनम्

924

अथ कर्मानुसारेण विपर्यासानुबन्धतः ।
क्रोधं नागपतिर् यातो दूषणाद् इव सज्जनः

925

अनुज्झितनिजाचारं कुम्भकारं स कञ्चन ।
स्वप्ने ऽवदद् "दुराचारान् पौरान् मज्जयितास्म्य् अहम्"

926

"नागḫ प्रजादुराचारात् प्रजा व्रोडयती" ति तम् ।
प्रातर् वदन्तम् अहसन् पौराḫ पशुम् इवाखिलाः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc