भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 886-905

886

"सरित्सुवर्णात् षष्ठांशो ग्राह्यो भाविभिर् ईश्वरैः" ।
ताम्रपट्टे ऽलिखद् याच्ञावाक्यम् एवं नरेश्वरः

887

नगराधिकृतẖ काचडामरो दुस्तरे पथि ।
क्रोशमात्रं व्यधात् सेतुं नगरान्तश् शिलामयम्

888

नात्मैव सेतुदानेन तेन पङ्कात् समुद्धृतः ।
सकलो ऽपि जनो मध्येनगरं पुण्यशालिना

889

विषये विषये चक्रे शिर्यभट्टो मठान् पृथून् ।
अन्ये ऽपि सचिवा राज्ञो धर्मशाला बहूर् व्यधुः

890

पद्माकरस्य मथनाय गजाधिराजाव् अभ्युद्यतौ सततम् एव तदम्बुदृप्तौ ।
तावत् कराकरि रसाद् इह चातिमत्तौ कृत्वा क्षणाद् अगमतां स्वयम् एव नाशम्

891

मसोदशूरौ धात्रेयौ भूपतेर् एकगोत्रजौ ।
द्वौ रन्ध्रान्वेषिणाव् आस्ताम् अन्योऽन्यविभवासहौ

892

राज्ञा तौ वारितक्रोधौ स्नेहदाक्षिण्यशालिना ।
हत्वान्यतरम् उत्पिञ्जसज्जाव् अभवतां चिरम्

893

कदाचिद् भूपतेर् अग्रे स्पृष्टश् शूरेण वाक्छरैः ।
मसोदठक्कुरश् शस्त्रसन्न्यासं समकारयत्

894

न्यस्तशस्त्रस् स रजनौ गच्छन् मितपरिच्छदः ।
रन्ध्रं लब्ध्वाथ शूरेण मसोदष् ठक्कुरो हतः

895

विन्नाद्यैष् ठक्कुरैस् तस्य भ्रातृभिẖ ख्यातपौरुषैः ।
हन्तुम् अभ्यर्थितश् शूरो भूपतेḫ प्रेमशालिनः

896

शूरे सानुचरे विन्नठक्कुरेण हते सति ।
प्रसादम् अगमत् कीर्तिष् ठक्कुराणां च धीस् तदा

897

तथा स योगिनां मानम् अदाद् भूलोकवासवः ।
तेषाम् अग्रे यथा मद्रराजाद्यैर् लडितं श्ववत्

898

स ददद् योगिनां भोगं यागं तेभ्यो ऽग्रहीन् नृपः ।
भयं ददद् अरातिभ्यो दधाव् अभयम् अप्य् अहो

899

मुद्राकर्परकन्थादि वारयन् योगिनां नृपः ।
कुण्डलं हेमपात्राणि दुकूलम् अपि दत्तवान्

900

छित्त्वा पर्वतपक्षतीर् अपि नवाḫ फेणेन हत्वाप्य् अहिं कृत्वा यज्ञशतं त्रिलोकविजयी कीर्त्या न तृप्तिं गतः ।
इन्द्रḫ पीतसितासितारुणहरिद्वर्णं विधत्ते धनुर्ज्योतिर् धूमसमीरनीरघटनामात्रे ऽप्य् असारे घने

901

भूतानां भाविनां वापि यद् अशक्यं महीभुजाम् ।
तद् इष्टसाहसो राजा कीर्तये कर्तुम् इष्टवान्

902

कर्तव्यं साहसं यद् यद् उचितं यद् अयं नृपः ।
कालस्यानवधित्वाच् च विपुलत्वेन च क्षितेः

903

तत् तत् सम्भाव्य साध्यं स भाविभिर् मेदिनीश्वरैः ।
दूराद् अब्धिम् इवायातो रत्नेष्व् अधिकदीप्तिषु

904

साहसेष्व् एकम् आदातुम् अपि प्राप न निश्चयम् ।
उपचारैर् दरिद्राणां संभवोदारमानसः

905

न तोषितश् श्रुतै राज्ञाम् अतीतानां च साहसे ।
अगम्येष्व् अपि भूपालश् शैलेषु च सरस्सु च

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc