राजतरङ्गिनी · श्लोक 866-885
गिरिमार्गेण गङ्गाया मानसं प्रापिते जले ।
किं पूतं मानसेनेदम् अमुना किम् उ मानसम्
व्यडम्बयत् स्वमूर्तिं या मानसप्रतिबिम्बिताम् ।
विधाय तत्तटे तेन नगरी सफलायिता
[प्स्-ज्र्त् 118]
श्रीस्वयस्य यम् आनेतुं प्रज्ञा न स्फुटम् अस्फुरत् ।
श्रीसेकन्दरशाहो ऽपि कुण्ठोत्कण्ठो ऽभवत्तराम् ॥ ज्र्त्_ब्.1149 ॥
श्रीजैनोल्लाभदेनस् तम् आनीय पहरं नदम् ।
प्रासिञ्चद् विंशतिक्रोशाञ् छ्रीमान् स्वयपुरे मरुम् ॥ ज्र्त्_ब्.1150 ॥
दुर्भिक्षव्याप्तचित्तानां विश्रान्तिजननान् नृणाम् ।
विश्रान्तिसञ्ज्ञया कुल्या प्रसिद्धाभूत् पदे पदे ॥ ज्र्त्_ब्.1151 ॥
श्रीमान् सुय्यपुरात् पारेवितस्तं धरणेर् नृपः ।
संयोज्य पहरं तापव्यापदं स न्यवारयत्
आ प्रद्युम्नगिरिप्रान्ताद् अमरेशपुरावधि ।
मठाग्रहारहट्टाढ्यां स जैननगरीं व्यधात्
स्वर्गं जेतुम् इवोदस्थाद् उन्नतैर् अश्मवेश्मभिः ।
सङ्क्रान्ता जैनगङ्गायां फणिलोकस्य यागमत्
जैनगङ्गां रणस्वामिप्रासादं प्रापितां कृती ।
व्यसिस्मरत् स्मेरयशा हरिपादकुतूहलम्
पारेसुय्यपुरं जैनगिरिसञ्ज्ञां पुरीं व्यधात् ।
कैलासाचलतुल्येव प्रासादैर् अभिभूषिता
सिद्धक्षेत्रे सुरेश्वर्यां प्रसिद्धो विलसद्यशाः ।
राजधानीं निषिद्धारिर् व्यधात् सिद्धिपुरीम् असौ
प्रासादशिखरे राजा मार्तण्डामरनाथयोः ।
राजधान्यौ व्यधात् सौधधौतदूरनभस्तले
सुभिक्षं सुय्यराजेन पूर्वम् अङ्कुरितं किल ।
ततḫ प्रभृत्य् अतीतेषु बहुष्व् अपि च राजसु
प्रजानाम् अल्पपुण्यत्वान् नावर्धत मनाग् अपि ।
तपोबलात् पल्लवितं पुष्पितं फलितं तथा
श्रीजैनोल्लाभदीनेन युगपत् तद् व्यधीयत ।
तपसाम् अतिशुद्धत्वात् किम् इव ज्ञापकं परम्
पूर्वपुण्यक्षये राज्यात् पतन्त्य् अन्ये महीक्षितः ।
तस्य जन्मान्तरे राज्यप्राप्त्यै राज्यम् अभूत् प्रभोः
स नदीमातृकाẖ कृत्वा धरणीर् देवमातृकाः ।
अग्रहारान् अनु क्ष्मापो द्विजेभ्यो यद् अदात् सदा
वराहक्षेत्रनगरविजयेशानकादिषु ।
यवनेभ्यो ऽग्रहारान् स सविहारान् स्वयं ददौ
विजयक्षेत्रवाराहक्षेत्रशूरपुरादिषु ।
सत्त्रदानेन स त्रासम् अपि गोत्रभिदो व्यधात्
भूमिविक्रयभूर्जादि कृतचिह्नं महीभुजा ।
निह्नवप्रागभावाय धर्माधिकरणं कृतम्
यो जयापीडदेवेन प्राप्तो नागप्रसादतः ।
स दण्डम् इव तस्यादात् ताम्रं ताम्राकरो गिरिः
मणीन् खनिभ्यश् चालभ्यांस् तद्राज्ये भूर् अजीजनत् ।
ये जैनमणयẖ ख्याताḫ पद्मरागमदच्छिदः
सरितां सैकते नीतसिकताभ्रमदं तदा ।
काञ्चनं काञ्चन च्छायां बिभ्रल् लोकैर् अचीयत
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0