भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 846-865

846

तस्मिन्न् अवसरे कश्चिद् योगिराजो जितेन्द्रियः ।
न्यविक्षतोन्नते स्तम्भे योगाभ्यासस्य सिद्धये

847

स्तम्भोपरि नवाहानि निराहारम् अपश्यतः ।
तस्याशिषैव महिषी राज्ञḫ पुत्रम् अजीजनत्

848

तपस्यतस् तथा तस्य तत्र तन् नवमं दिनम् ।
राज्ञस् त्व् अनवमं पुत्रजन्मकालमहोत्सवः

849

[प्स्-ज्र्त् 116]
हेमन्तान्ते पतति तुहिनं फाल्गुणे वल्गु वल्गद् दीपस्यापि स्फुरति सुतरां शान्तिकाले ऽतिदाहः ।
शैत्योद्रेको वहति वहति ग्रीष्मकाले तुषारं वस्तु प्रायḫ प्रथयति निजं धर्मम् आयाति नाशे ॥ ज्र्त्_ब्.1122 ॥
तपẖकवचम् अस्पृष्ट्वा तम् अधो मार्गणैर् गतम् ।
प्रहर्तुर् इव निर्देष्टुं भविष्यन्तीं तथा गतिम् ॥ ज्र्त्_ब्.1123 ॥
राजमान्यं तम् आलोक्य कुप्यन्तं शान्तमानसः ।
निर्णयाद् अचलद् वर्णी नयान् न तु भयोदयात् ॥ ज्र्त्_ब्.1124 ॥
स स्तम्भान् न महाधैर्याद् अवारोहन् महामनाः ।
नैवारोहज् जगद्दृष्टिं सद्यो द्याम् अपि योगवित् ॥ ज्र्त्_ब्.1125 ॥
"अतिथिं योगपथिकं मा वधीर् माम्" इति ब्रुवन् ।
म्लेच्छमस्करिणा वर्णी खड्गघातैर् अचूर्ण्यत ॥ ज्र्त्_ब्.1126 ॥
अत्यर्थदर्शनद्वेषान् मदिरामदमोहितः ।
स म्लेच्छसहितो योगिराजं तम् अवधीच् छरैः

850

सन्तप्तैर् मलिनैस् स्थूलैर् जनानां तद्विलोकनात् ।
भूतले पतितं वाष्पैर् अपवादैश् च राजनि

851

पृथ्वीनाथो ऽथ तच् छ्रुत्वा शुद्ध्यर्थम् इव मग्नवान् ।
भीह्रीशोकक्रुधाश्चर्यकृत्यचिन्तार्णवेषु सः

852

प्रथमोद्भूतपुत्रे ऽपि तस्मिन्न् अह्नि महीभुजा ।
नास्नायि नाभ्यवाहारि व्यवाहारि न नाकथि

853

अन्येद्युर् भूपतिḫ पृष्टस्मृतिज्ञगुरुकोविदः ।
हन्तुर् दण्डं वधं शृण्वन् करुणायन्त्रितो ऽभवत्

854

प्रतीपं खरम् आरोप्य प्रतिहट्टं परिभ्रमम् ।
नरमूत्राभिषिक्तस्य कूर्चस्य परिकर्तनम्

855

ष्ठीवनं सर्वलोकानां प्रेतान्त्रैर् बाहुबन्धनम् ।
जीवन्मरणम् आदिक्षद् दण्डं तस्य कृशायतेः

856

राजनि म्लानिहीनानि दिक्सौगन्ध्यवहानि च ।
अपतन् नाकपुष्पाणि पौराशीर्वचनानि च

857

मद्रराजदुहित्रोस् स चतुरस् तनयान् नृपः ।
यथा दशरथो राजा जनकान् तान् अजीजनत्

858

ज्यायान् आधमखानस् स हाज्यखानस् तथा परः ।
खानो जस्सरथẖ खानो बहरामश् च सञ्ज्ञितः

859

[प्स्-ज्र्त् 117]
हिन्दवस् सूहभट्टेन बलाद् ये पीडिता भृशम् ।
परदेशं गतास् ते तु बिभ्रतो वेषकल्पनाम् ॥ ज्र्त्_ब्.1137 ॥
निजाचारे रता नित्यं तदाचारद्विषो हृदा ।
स्वम् आचारम् अनुष्ठातुं प्रेरिताश् च द्विजैर् बलात् ॥ ज्र्त्_ब्.1138 ॥
दारितास् स्वत्राणभयाद् उत्कोचार्पणतत्पराः ।
रक्षिता भूमिपालेन तदुपद्रववारणात् ॥ ज्र्त्_ब्.1139 ॥
क्षीरार्णवस्य मथनात् परतस् सुधादिरत्नानि तान्य् अनुपभोगनिरर्थकानि ।
यो नीतवान् सफलतां किल पात्रदानात् स्तुत्यस् स मन्दरगिरिर् गिरिराजवर्गे

860

नदीर् अवटपातेन भुवश् चाम्बु विनाफलाः ।
संयोगात् सफलीकृत्य यशश् चित्रम् अजीजनत्

861

राज्ञोत्पलपुरक्षोणौ कुल्यां प्रापय्य वप्रिणीम् ।
तयोर् निरर्थकत्वेन दूषणाविनिवारिता

862

नन्दशैलमरौ कुल्याम् अवतार्य महीपतिः ।
अस्मारयच् चक्रधरं सागरान्तर् निवासिनम्

863

करालम्बस् सतां बिभ्रद् अकरालं सितं यशः ।
कुल्ययाकारयद् देशं करालाख्यं स्तुतेḫ पदम्

864

साग्रहारा द्विजा यत्र साग्रहाराश् च योषितः ।
साथ जैनपुरी राज्ञा कराले निरमीयत

865

अवन्तिपुरभूमौ च कान्तोदन्तेन भूभुजा ।
कुल्यावतारितातुल्या शालिसम्पत्तिशालिनी

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc