भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 826-845

826

कर्पूरभट्टो यश् श्रीमान् प्राणिरक्षो महीभुजः ।
गुणिनां शरणं चक्रे स्वगुणैस् सुरभिं सभाम्

827

पूर्वाब्दग्रहसञ्चाराद् उत्तराब्दग्रहस्थितिम् ।
रुय्यभट्टो विदन्न् आसीद् विनैव गणितश्रमम्

828

श्रीरामानन्दपादानां भाष्यव्याख्याक्षणेक्षणे ।
वीक्षते शारदा क्षोणीम् एव सम्भ्रान्तमानसा

829

गान्धारसिन्धुमद्रादिभूभुजस् तस्य भूभुजः ।
ग्राम्या इवाभवन्न् आज्ञाकारिणो जितवैरिणः

830

युद्धे जितं ततो बद्धं खुẖखुरेन्द्रेण भूपतिः ।
मालदेवं मद्रराजम् आज्ञया निरमोचयत्

831

राजा राजपुरीराजं नयज्ञस् स्वपदातिभिः ।
क्षणाद् भ्रूभङ्गमात्रेण रणसूहम् अलोठयत्

832

उदभाण्डपुराधीशं सिन्धुराजोपबृंहितम् ।
स कन्दुकम् इवोत्थाप्य मुहुर् मुहुर् अपातयत्

833

भोट्टभूमौ महीन्द्रेण गोग्गदेशे कदाचन ।
बाणा गौरखरास्रेण गुणैर् लोकाश् च रञ्जिताः

834

समिज्जिते शयादेशे क्रूरादेशो महीपतिः ।
सुवर्णबुद्धप्रतिमां यवनेभ्यो ररक्ष सः

835

कषाकरं कषंस् तस्य निकषो भौट्टतेजसाम् ।
अप्रकाशां प्रतापो ऽथ मलूतनगरीं व्यधात्

836

केवलं हृदयं शून्यं भौट्टानां नाभवत् तदा ।
भूमिपालभयावेशात् कोशो ऽपि चिरसञ्चितः

837

प्रकृतीनां ददद् राजा शेषोप्यायौ यथोचितम् ।
प्रत्यवेक्षाम् अकार्षीत् स शालिनाम् इव कार्षकः

838

नासहिष्टेव तच्चापं तुलां शार्ङ्गपिनाकयोः ।
दूरकार्यार्थसाधिन्या धनुष्मत्ता भ्रुवḫ पुनः

839

अस्तं यस् तमसां कुलानि बलतो नेतुं सदा वाञ्छति क्षीणं तं वसुनाभिपूर्य शशिनं संवर्धयत्य् अञ्जसा ।
काश्यप्याम् अवकाशमात्रघटनां शाखामुखै रुन्धतो वृक्षान् वृष्टिभरैश् च यो ऽस्य कतमो भानोस् तुलाम् अर्हति

840

लद्दराजसुतं राजा नोस्रतं यम् अवर्धयत् ।
अहृतद्रविणं तं "स द्रोही"ति निरवासयत्

841

मक्कदेशागतो जातु पुस्तकाडम्बरं वहन् ।
सदौलनामा यवनो राजेन्द्रं तम् उपागमत्

842

गुणान् विकत्थमानं तं गुणिरागी नरेश्वरः ।
उपागच्छत् प्रतिदिनं दर्शनायेतरो यथा

843

स तस्य पटहस्येव राजापश्यत् क्रमाद् असौ ।
अन्तस्सारविहीनत्वं परीक्षायां विचक्षणः

844

म्लेच्छमस्करिणि क्षोणिप्राणेशो निर्गुणे ऽपि सः ।
प्रेमाणं नामुचत् पुत्रे पितेव करुणार्णवः

845

प्रदोषस्येव तमसां दुर्घनस्येव विद्युताम् ।
दोषाणां बहुता तस्य प्रजास् समुदवेजयत्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc