भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 806-825

806

प्रत्यर्थिभिर् अथानीतं भूर्जं राजाज्ञया नृपः ।
युक्तिज्ञस् सलिलस्यान्तर् वाचयित्वाक्षिपत् ततः

807

नष्टेषु नववर्णेषु पुराणेषु स्थिरेष्व् अथ ।
भूप्रस्थम् एकं विक्रीतम् इति सभ्यान् अवाचयत्

808

राजा कीर्तिम् अहं भूमिं कूटकृद् दण्डम् अद्भुतम् ।
प्रजास् सुखं खला भीतिं प्राप्तवन्तस् समं ततः

809

इन्दो राहुभयं कदापि कुरुते कालẖ कलाḫ पूरयन् सिञ्चन् सञ्चिनुते तडिन्निपतनक्षोभं तरोर् वारिदः ।
वेधास् सत्पुरुषस्य सर्वजगताम् आह्लादनायोद्यमं कुर्वन्न् आमयदर्शनेन कुरुते भीतिप्रकर्षं क्षणम्

810

अबाधिष्टतरां कष्टो विषस्फोटẖ कदाचन ।
प्रकोष्ठं भूमिपालस्य प्रजानां हृदयं च सः

811

माघमासीव पुष्पाणां म्लेच्छप्रालेयबाधया ।
न लाभो विषवैद्याणां देशे ऽस्मिन्न् अभवत् तदा

812

यज्वा गारुडशास्त्रज्ञश् शिवभट्टो नृपानुगैः ।
अत्रान्विष्यद्भिर् आप्तो ऽथ कूपो ऽध्वन्यैर् मराव् इव

813

चिकित्सायां विदग्धस् स म्लेच्छभीत्या व्यलम्बत ।
स्फुलिङ्गदग्धḫ पुरुषस् स्पृशत्य् अपि मणिं चिरात्

814

स्वयं दत्ताभयो राज्ञा प्राप्तस् तम् उदमूलयत् ।
शिवभट्टो विषस्फोटं करीव विषपादपम्

815

तस्य कीर्तिस् सुखं राज्ञḫ प्रजानां हर्षसन्ततिः ।
प्रारोहंस् त्रीणि विस्फोटे तत्रैकस्मिन् विपाटिते

816

तुष्टेन भूभुजा दत्तां यथेष्टम् अपि सम्पदम् ।
नैक्षिष्ट शिवभट्तस् स यतात्मेव वराङ्गनाम्

817

[प्स्-ज्र्त् 113]
उद्दाहपातकवशाद् इव निर्घृणस् सन् दग्ध्वा तृणं तृणकृशानुर् उपैति शान्तिम् ।
जाताम्बुवाहकरुणाप्रणयात् तृणस्य कान्तिḫ पुनश् शतगुणा मसृणाभिरामा ॥ ज्र्त्_ब्.1046 ॥
क्ष्मां सन्तापयता गाढम् आषाढेनेव वारिदाः ।
सूहभट्टेन संशुष्य पराभूता ययुर् दिशः ॥ ज्र्त्_ब्.1047 ॥
वर्षा मरुद् इव क्ष्मापस् तद्विद्याप्रत्ययोत्सुकः ।
आनाययत् स तान् सर्वान् पण्डितान् निजमण्डलम् ॥ ज्र्त्_ब्.1048 ॥
मुक्ताहारोपमे देशे विद्वद्रत्नानि नायकः ।
कान्त्या वा सुधिया तत्र यथायोगं न्यवीविशत् ॥ ज्र्त्_ब्.1049 ॥
राजा संरोपितान् अर्घवृत्तिदानेन पण्डितान् ।
आप्याययज् जलेनेव मालाकारो महीरुहान् ॥ ज्र्त्_ब्.1050 ॥
नाशितं सूहभट्टेन यद् यत् कश्मीरमण्डले ।
योजितं शिर्यभट्टेन राजप्रार्थनयाथ तत् ॥ ज्र्त्_ब्.1051 ॥
प्रवर्त्य यागयात्रादि नागानां भट्टशिर्यकः ।
तुरुष्कापहृतां भूमिं विदग्धेभ्यो न्यदापयत् ॥ ज्र्त्_ब्.1052 ॥
उदये दापिते तेन हिन्दुकानाम् अखण्डिते ।
शिर्यभट्टाय चुकुपुस् सर्वे यवनदानवाः ॥ ज्र्त्_ब्.1053 ॥
महापद्मफणीन्द्राम्भस्संभेदे कुम्भकेन सः ।
बद्धो ऽपि दृतिवत् स्थित्वा यवनेन्द्रान् व्यलक्षयत् ॥ ज्र्त्_ब्.1054 ॥
तापो यस्याह्नि शैलाञ् ज्वलयति स रविस् सायम् अक्ष्णापि गम्यः स्वग्राव्णश् शुष्यतो ऽह्नि द्रवयति न शशी पूरकस् सायम् अब्धेः ।
कारुण्याद् एव लोके निजमतिसकलं स्वेच्छया दर्शयित्वा तं तद्भाग्यावसानात् प्रथमम् अथ महांस् तूर्णम् अन्तर्दधाति ॥ ज्र्त्_ब्.1055 ॥
कलौ पातकिनां पुंसां स्पर्शदर्शनविह्वला ।
अवश्यं शारदा देवी तदान्तर्धानम् आश्रयत् ॥ ज्र्त्_ब्.1056 ॥
मुखे स्वेदो भुजे कम्पḫ पादस्पर्शे विदाहिता ।
जातु जात्व् अभवद् देव्या नो तदा हि तथा क्वचित् ॥ ज्र्त्_ब्.1057 ॥
द्रोहार्जिताद् धनाद् भागं प्रसादेन नियुञ्जति ।
कश्मीरलोके सा देवी नानुग्रहपरा ह्य् अभूत् ॥ ज्र्त्_ब्.1058 ॥
दूर्वामात्रेण तुष्यन्ति विशुद्धेन हि देवताः ।
प्राणैर् अपि न मालिन्यदूषितैर् जातुचित् पुनः ॥ ज्र्त्_ब्.1059 ॥
कलिकाले तु देव्यास् स प्रभावो ऽपि शमं गतः ।
जात्व् इत्य् अगान् नृपो देवीं द्रष्टुं तद्यात्रिकैस् सह ॥ ज्र्त्_ब्.1060 ॥
नदीं मधुमतीं स्नानपानाभ्यां फलयन्न् अयम् ।
शारदाक्षेत्रम् आसीदत् सीदत्परिषदाकुलम् ॥ ज्र्त्_ब्.1061 ॥
देवीभक्ताभयोद्युक्तो व्यङ्क्तुं तच्छक्तिम् उद्यतः ।
युक्तायुक्तविवेक्ता स तत्र राजा न्यविक्षत ॥ ज्र्त्_ब्.1062 ॥
तत्रापि तेषां दौरात्म्यदर्शनाद् विस्मितो नृपः ।
भक्तिह्रासम् अगाद् देव्यां यात्रिकेषु च कोपिताम् ॥ ज्र्त्_ब्.1063 ॥
"साक्षात् त्वद्दर्शनं देवि देवानाम् अपि दुर्लभम् ।
अस्माभिर् नार्थनीयं तत् कलिकालकलङ्कितैः ॥ ज्र्त्_ब्.1064 ॥
अशक्तानां भवद्रूपं निष्कलं ध्यातुम् अर्चितुम् ।
भक्तिभाजाम् अनुक्रोशाद् यत् तु रूपं त्वम् अग्रहीः ॥ ज्र्त्_ब्.1065 ॥
तवास्यां प्रतिमायां चेद् व्यपेतो नैव सन्निधिः ।
पवित्रयतराम् अद्य स्वप्ने तद् दर्शनेन माम् ॥ ज्र्त्_ब्.1066 ॥
अस्माभिश् च ततस् सा त्वं यथाशक्ति निषेव्यसे ।
मिथ्याभक्तदुरात्मत्वात् त्वं चेद् दूरम् इतो गता ॥ ज्र्त्_ब्.1067 ॥
किमर्थं प्रतिमा तर्हि गर्हिता हिन्दुवैरिभिः" ।
विज्ञप्येति स सप्तम्यां भाद्रे राजा जितेन्द्रियः ॥ ज्र्त्_ब्.1068 ॥
अशेत शारदाक्षेत्रप्रासादस्थण्डिलोपरि ।
दर्शितं न यदा स्वप्ने किञ्चित् सन्निधिसूचकम् ॥ ज्र्त्_ब्.1069 ॥
राज्ञाष्टानवतौ वर्षे स्वां मूर्तिं देव्य् अचूर्णयत् ।
नास्यादाद् दर्शनं देवी म्लेच्छसंसर्गतो ध्रुवम् ।
स्वामी भृत्यापराधेन गर्हणीय इति स्थितिः ॥ ज्र्त्_ब्.1070 ॥
देवीदर्शनविच्छेदि तस्य नासीद् धि किञ्चन ।
दया सत्यं विवेकश् च तम् एवाश्रयते तदा ॥ ज्र्त्_ब्.1071 ॥
व्यावृत्य यवनानां स वनानाम् इव वारिदः ।
हर्षोत्कर्षवशो ऽकार्षीन् महत् कनकवर्षणम् ॥ ज्र्त्_ब्.1072 ॥
यत्र दण्ड्या न दण्ड्यन्ते दुर्बलास् तस्करं विना ।
भूपतेḫ प्राड्विवाकत्वं स प्रापद् भट्टशिर्यकः ॥ ज्र्त्_ब्.1073 ॥
प्रतिजानंस् तदा कोशधनसंभवने ऽसति ।
स्वगलच्छेदनं भट्टो मिथ्यावक्तुश् च विप्लवम् ॥ ज्र्त्_ब्.1074 ॥
शाखाभङ्गसमुद्भूतशब्दव्याप्तचतुर्दिशाम् ।
समुदीरयतां नूनम् अब्राह्मण्यं पदे पदे ॥ ज्र्त्_ब्.1075 ॥
द्रुमाणां फलनम्राणां जनानां नमतां गुणैः ।
छेदाद् रक्षाम् अकार्षीत् स जिष्णुर् इन्धनहेतुना ॥ ज्र्त्_ब्.1076 ॥
– – – – – – – – त्रयदण्डं निवार्य सः ।
द्विजानां जातिरक्षार्थं रौप्यमाषम् अकल्पयत्

818

[प्स्-ज्र्त् 115]
मांसादिलोभान् निघ्नत्सु मण्डलेषु विषेण गाः ।
गोमांसकुण्डीर् ग्राह्यादिवारणात् स न्यवारयत् ॥ ज्र्त्_ब्.1079 ॥
पत्यौ मृते ऽन्यं गच्छन्त्या विहितं भर्तृगोत्रजैः ।
स महामतिमाञ् शूद्र्या विप्लवं विन्यवारयत् ॥ ज्र्त्_ब्.1080 ॥
न्यवारयत् स पुत्रीणाम् और्ध्वदैहिकविप्लवम् ।
अपुत्रस्य विपन्नस्य लुब्धैस् तद्गोत्रजैẖ कृतम् ॥ ज्र्त्_ब्.1081 ॥
शिशूनां शास्त्रपाठादि सूहभट्टेन नाशितम् ।
वृत्तिदानेन विदुषां विद्यावान् आनयत् पुनः ॥ ज्र्त्_ब्.1082 ॥
विधित्सुस् स्वम् अभिज्ञानं द्विजदेहे महीपतिः ।
व्यधत्त तिलकव्याजाद् विभागं सत्यधर्मयोः ॥ ज्र्त्_ब्.1083 ॥
ग्रामाणां प्रथमे वर्षे सङ्क्रान्तं कारकातुरैः ।
पत्तलाघोषदेशेषु लोत्रदण्डं न्यवारयत् ॥ ज्र्त्_ब्.1084 ॥
निवार्य शाकटतुलामानकूटं चिरस्थितम् ।
अर्घव्यवस्था वस्तूनां प्रतिमास् समकारयत् ॥ ज्र्त्_ब्.1085 ॥
बहिर्देशागतार्थानां देशकालाद्यपेक्षया ।
व्यवस्थाप्यार्घम् उत्पिञ्जम् अच्छिनद् दिनमोषणम् ॥ ज्र्त्_ब्.1086 ॥
विदग्धश् शिर्यभट्टो ऽपि नोत्कोचफलम् आदित ।
अविनाशि पुनर् धर्मफलं वर्षोपकारतः ॥ ज्र्त्_ब्.1087 ॥
देहस्थैवार्थिनां ज्ञानरसविज्ञानकाङ्क्षिणाम् ।
तदेच्छासिद्धिर् अभवद् राज्ञḫ पुण्यफलाद् द्रुतम् ॥ ज्र्त्_ब्.1088 ॥
महाश्रीशिर्यभट्टस्य मुखाद् राजा न्यवारयत् ।
धर्मप्रकाशनामानं राजकाङ्गटिकं प्रभुः ॥ ज्र्त्_ब्.1089 ॥
दूरं निवारयाम् आस निर्धारणपदाङ्कितम् ।
भाविनां भूमिपालानां दुर्व्यवस्थापथार्गलम् ॥ ज्र्त्_ब्.1090 ॥
अस्थापयत् स धर्मस्थस् सद्वृत्तं प्रतिपत्तनम् । ज्र्त्_ब्.1091अब् ।
स्थापितो ग्रामसीमायां ग्रामेभ्यḫ प्रापितो धनम् ।
अरण्ये ऽरण्यनाथेभ्यḫ पान्थस् तेन महीभुजा

819

हासाश् श्मशानदेवीनां सूहभट्टं प्रतीव तम् ।
प्रतिस्थानं विमानानि प्रेतानाम् अद्युतंस् तदा

820

म्लेच्छैर् उपद्रुतां क्षोणीम् अक्षीणकरुणो नृपः ।
उदहार्षीत् क्रमाद् एवं दानवैर् इव केशवः

821

उच्छृङ्गान् स नयन् भङ्गं निम्नान् आपूरयन् नृपः ।
स्वकीर्तिबीजवापार्थम् अनुद्घातां महीं व्यधात्

822

भूपतेḫ परदारेषु निष्कौतुकमयं व्रतम् ।
अभज्यत परं तस्य परश्रीपरिरम्भणे

823

सम्यग्दशबलेनाथ सर्वज्ञेन महीभुजा ।
सौगतस् तिलकाचार्यो महत्तमपदे कृतः

824

सशिवभट्टस् तिलकस् स सिंहगणनापतिः ।
सोपनान्य् अभवंस् ते च पदारोहे द्विजन्मनाम्

825

मेदिन्याखण्डलस्यासीत् पिकस्येव रसश्रिया ।
अखण्डं रसपाण्डित्यं ब्रह्मकुण्डलसेवया

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc