राजतरङ्गिनी · श्लोक 81-100
[प्स्-ज्र्त् 3]
लवन्यवन्यकरिणां दर्पनिर्दलनं व्यधात् ।
नरसिंहो महातेजा वनानाम् इव पावकः ॥ ज्र्त्_ब्.84 ॥
मल्लैर् बलाढ्यचन्द्रस्य बलिनो लहरेशितुः ।
हरतश् श्रीनगर्यर्धस्वाम्यं न प्राभवत् तु सः
पुण्यं राशीभवन् मूर्तम् इवाथ स्वाभिधाङ्कितम् ।
बलाढ्यचन्द्रस् सान्द्रौजा नगरान्तर् मठं व्यधात्
"को ऽयं खशो मृदुẖ कश्चिद् अस्माभिर् अभिषिच्यते" ।
अमन्त्रयन्न् इदं भट्टा राज्ञावगणिताश् चिरात्
"न भट्टो ऽहं न भट्टो ऽहं न भट्टो ऽहम्" इदं वचः ।
अश्रूयतापि भट्टेभ्यो निर्दिष्टे भट्टलुण्ठने
तदैव विमलाचार्यश् शाके खेषुनवाङ्किते ।
षडद्रिनन्दमासस्य मलभ्रमम् अवारयत्
निर्ममे निर्ममो राजपुरीं राजोलकं तथा ।
राजदेवस् स राजेन्दुर् आजन्मार्जितमङ्गलः
अहानि सप्तविंशानि त्रयोविंशांश् च वत्सरान् ।
मासत्रयीं च राजा स क्ष्मां रक्षित्वा क्षयं ययौ
8) सङ्ग्रामदेव (ल्स् 4312-4328)
सङ्ग्रामदेवस् तत्पुत्रो गोत्रासुत्रामतां भजन् ।
त्रासम् आसूत्रयद् राजसिंहश् शात्रवदन्तिनाम्
विस्रम्भात् सूर्यम् अनुजं चक्रे प्रतिनिधिं स्वयम् ।
कुचक्रिकस् स भोगेभ्यो लुभ्यन् द्रोहम् अचिन्तयत्
श्रुतद्रोहो महीभर्त्रा भीतस् स लहरेशितुः ।
चन्द्रस्य मण्डलं सूर्यḫ प्राविक्षद् उदयेच्छया
दारुणे रणकाले स सूर्यं चन्द्रान्वितं तदा ।
स्वर्भानुर् इव भूभानुश् चित्रं समम् अमीमिलत्
शमालाधिपतिस् तुङ्गस् सूर्यं पार्श्वं नयन् मदात् ।
कृतयात्रेण राज्ञाथ नीचभावम् अनीयत
मार्गैर् निरिन्दुरविभिश् चौरवद् रजनौ भ्रमन् ।
विटत्यक्तस् ततस् सूर्यो बद्ध्वा राज्ञा व्यपाद्यत
स्वलक्ष्मीं रक्षितुं साक्षात् तस्मिन्न् आत्तक्षणे प्रभौ ।
अकारयन्न् अहिभयं स्तेनाẖ कल्हणनन्दनाः
गोत्रजेषु बलिष्ठेषु नष्टाशस् सो ऽथ भूपतिः ।
शिष्टम् इष्टं च शरणम् अगाद् राजपुरीपतिम्
तस्मिन् दण्डधरे दूरं याते डामरफेरवः ।
अन्त्राण्य् अपि विशाम् आशुर् निश्शेषं रक्तपायिनः
राज्ञा सुमनसा त्यक्तं द्विजैश् च स्पर्शदूषितम् ।
भोज्यं डामरडोम्बानां तद् राज्यान्नम् अभूच् चिरम्
स्वमण्डले विशीर्णे ऽथ परमण्डलम् आविशन् ।
न कैर् अनुमतो राजा प्रत्यासन्ननवोदयः
प्रत्यक्षतो राजपुर्यास् स रिपून् समरे जयन् ।
ब्राह्मण्यात् काल्हणीन् रक्षन् राज्यं पुण्यं च लब्धवान्
एकविंशतिशालं स श्रीविशालं विशाम्पतिः ।
गोद्विजानां निवासाय चकार विजयेश्वरे
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0