भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 101-120

101

काल्हणप्रणिधीनां स द्विषां लुण्ठनकाङ्क्षिणाम् ।
चौराणाम् इव दीपो ऽभूद् द्वेषणीयो महीपतिः

102

शाखाक्रान्तदिगन्तस् स सदुराशैर् दुराशयैः ।
कविकल्पद्रुमो राजा विच्छिन्नẖ कल्हणात्मजैः

103

नायकीकृत्य तं भूपं कविḫ पण्डितयःशकः ।
स्वोक्तिहारलतां विद्वत्कण्ठभूषात्वम् आनयत्

104

षोडशाब्दान् दशाहानि स भुक्त्वा क्ष्मां व्यपद्यत ।
जगद्भद्रो ऽथ पञ्चम्यां भाद्रे ऽष्टाविंशवत्सरे

105

9) रामदेव (ल्स् 4328-4349)
रामदेवो ऽथ तत्पुत्रो हत्वा स्वपितृघातकान् ।
पृथ्वीराजे प्रजाभारं सर्वम् एव समर्पिपत्

106

लेदर्या दक्षिणे भागे सल्लरे स महीपतिः ।
स्वनामाङ्कं व्यधात् कोट्टं यशोराशिम् इवापरम्

107

प्रमादाद् भङ्गम् आनीतश् शमालाविजयोद्यमे ।
तेनोत्पलपुरे विष्णोḫ प्रासादो नूतनीकृतः

108

[प्स्-ज्र्त् 4]
वैशाखे मासि पक्षे शशधरविषदे त्रिंशदब्दे सभक्त्या
द्वादश्यां रामराजे क्षितिम् अवति निजप्रेयसीं सोमवारे ।
पृथ्वीराजश् शमालाविजयनसमये दस्युभग्नं मुरारिं
सम्पूर्णाङ्गं विधायोत्पलपुरनगरे स्वप्रतिष्ठां चकार ॥ ज्र्त्_ब्.112 ॥
पुष्पं चन्दनवृक्षस्य फलं चण्पकभूरुहः ।
अपत्यं तस्य भूपस्य हन्त नाकारि वेधसा

109

भिषायकपुरस्थस्य कस्यचिद् ब्राह्मणस्य सः ।
पुत्रं लक्ष्मणनामानं पुत्रीयाम् आस भूपतिः

110

अकृत्रिमपितापुत्रप्रीतिं प्रीतिḫ प्रथीयसी ।
वस्त्व् इवोचितम् आलेख्यं तयोर् अतुलयत्तराम्

111

श्रीसमुद्राभिधा देवी विमुद्रितसमुद्रजा ।
वितस्तायां स्वनामाङ्कं नगरान्तर् मठं व्यधात्

112

त्रयोदशदिनं मासं वत्सरांश् चैकविंशतिम् ।
क्ष्मां भुक्त्वैकोनपञ्चाशे वर्षे ऽसौ द्याम् अगात् स्वयम्

113

10) लक्ष्मदेव (ल्स् 4349-4362)
कथञ्चिल् लक्ष्मदेवो ऽथ पाट्यमानाङ्गविह्वलः ।
ताम् आकण्टकिनीं वल्लीम् इव क्षोणीं बभार सः

114

क्षत्रीकृतो ऽपि नामुञ्चत् स्वधर्मं द्विजभूपतिः ।
न माणिक्यश्रियं धत्ते रञ्जितो ऽश्मापि जातुचित्

115

वितस्तायास् तटे श्वश्रूमठोपान्ते मठं नवम् ।
निष्पङ्का निजनामाङ्कम् अहलामहिषी व्यधात्

116

कज्जलेन तुरुष्केण बहिर् एत्याथ मण्डले ।
मलिनेन प्रजादृष्टिर् उत्पाट्यास्रवता हता

117

त्रयोदशाब्दान् मासांस् त्रीन् द्वादशाहं च भूपतिः ।
भुक्त्वा द्वाषष्टवर्षे ऽथ पौषान्ते स व्यपद्यत

118

11) सिंहदेव (ल्स् 4362-4377)
कज्जलोपद्रवात् तस्माल् लेदरीमात्रनायकः ।
सिंहदेवो ऽथ सङ्ग्रामचन्द्रेणाक्षोभि भूपतिः

119

नगरान्तर् मठं कृत्वा लहरेन्द्रे मृते सति ।
सिंहदेवो नृसिंहो ऽथ क्ष्मां ररक्ष क्षयाकुलाम्

120

सिंहदेवो नृसिंहस्य सिंहेन गुरुणान्वितः ।
प्रतिष्ठां सिंहलग्ने ऽथ ध्यानोड्डारे ऽकरोत् कृती

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc