भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 61-80

61

[प्स्-ज्र्त् 2]
तत्र हेतुर् लवन्येन्द्रभयं नानौचिती पुनः । ज्र्त्_ब्.63एf ।
यान्त्य् अङ्गसङ्गमम् अनङ्कुशम् अङ्कयन्ति रागं प्रदर्श्य हृदि कम्पम् उदञ्चयन्ति ।
व्यापादयन्ति विषवेदनया विशेषाद् विश्वास्य दुष्टपिटिका युवतीश् च हा धिक्

62

वार्द्धकक्षीणशक्तित्वाद् विरक्ता स्ववधूर् अपि ।
हत्वा क्षुक्षं विषेणाशु भीमं भोगम् अकारयत्

63

सा देवरस्य सङ्गेन श्वित्रसञ्चित्रिता सती ।
दानेन माधवादीनां स्वपापं पर्यणीनमत्

64

सो ऽष्टादशाब्दान् क्ष्मां भुक्त्वा सत्रयोदशवासरान् ।
युगागाङ्काब्दमाघान्त्यदशम्यां प्रलयं ययौ

65

6) जगदेव (ल्स् 4274-4289)
ततश् श्रीजगदेवस् तत्तनयो विनयोर्जितः ।
ततान जनताहर्षं मधुमास इवाधिकम्

66

परस्परविरुद्धानां भृत्यानां तुल्यवृत्तिता ।
तत्राभूद् उत्पलाब्जानाम् इव सन्ध्यागमक्षणे

67

उज्जहार महीनाथḫ पृथुविज्ञानकौशलः ।
भूतले दुर्व्यवस्थानं शल्यं शल्यहरो यथा

68

मनश्शल्यायमानस् स निस्सामान्यगुणो नृपः ।
कुचक्रिकाबलाद् देशान् मन्त्रिभिर् निरवास्यत

69

निग्रहानुग्रहाधायिमन्त्रज्ञं गुणराहुलम् ।
स प्रापत् सचिवं मित्रं कपीन्द्रम् इव राघवः

70

उदयप्राप्तिलोभेन सूरद्विजपती समम् ।
अगाताम् अथ कश्मीरदेशं तौ विस्मयावहौ

71

चिरं भुक्तां श्रियं त्यक्तुम् अनीशास् समरोद्यताः ।
तन्मन्त्रौजोहुताशान्तḫ प्रापुश् शलभतां द्विषः

72

जित्वा क्ष्मां बुभुजे भूपश् छत्त्रचामरहासिनीम् ।
लक्ष्मीम् अराजलक्ष्मां तु श्रीगुणाकरराहुलः

73

राजा रज्जुपुरे राजद्राजतच्छत्त्रधारिणम् ।
हर्षेश्वरस्य प्रासादं निर्ममे निर्ममेहितः

74

वाल्लभ्याद् द्वारपतितां पद्मेनाप्तवता ततः ।
दुरात्मनावधि च्छन्नविषदानेन भूपतिः

75

रक्षित्वा क्षितिम् अब्दान् स सत्र्यहर्तूंश् चतुर्दश ।
नन्दाष्टाङ्काब्दचैत्रान्त्यचतुर्दश्यां लयं ययौ

76

7) राजदेव (ल्स् 4289-4312)
तत्पुत्रो राजदेवो ऽथ काष्ठवाटं भयाद् गतः ।
आनिन्ये वामपार्श्वस्थैर् द्वारेशस्य विरोधिभिः

77

तं सल्हणाख्यदुर्गान्तḫ प्रविष्टं दुष्टचेष्टितः ।
अवेष्टयद् बलैḫ पद्मो मण्डलैर् इव पन्नगम्

78

उपायनीकृतापूर्वपादुकालोककौतुकात् ।
प्रमत्तं को ऽपि चण्डालो द्वारेशम् अवधीद् रणे

79

अभिषिक्तस् ततो भट्टैस् स भेरीशङ्खनिस्स्वनम् ।
प्रणतानन्तसामन्तस् सेवकान् अन्वजिग्रहत्

80

असामान्यो लवन्येन्द्रान् स वास्तव्यकुटुम्बिताम् ।
निन्ये क्षोणीपरिवृढो रूढभारोढिम् आदिशन्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc