राजतरङ्गिनी · श्लोक 784-805
वैरिकीर्तिर् जुहोतु स्वं विक्रमस्य वियोगतः ।
वताग्निसदृशे राज्ञḫ प्रतापे सहितं श्रिया
ढिल्लीशपीडितं जातु जस्रथं शरणागतम् ।
द्रोणीगुहासु सो ऽरक्षत् तमो ऽद्रिर् इव भास्करात्
तस्मिञ् शासितरि क्षोणीं विनेतरि दुरात्मनाम् ।
जयापीडपुरस्थस्य भूमिदेवस्य कस्यचित्
शष्पग्रासाभिलाषाद् वा विधातुर् वा नियोगतः ।
उदाचिताप्य् अगाद् धेनुर् मूर्तेवाशा स्वधाभुजाम्
गतो मडवराज्यं स तीर्थस्नानाय जातुचित् ।
स्वां परिज्ञातसङ्केतां गां परिज्ञातवान् द्विजः
सनिश्चयो गृहं यान्तीं सायं ताम् अनुगम्य गाम् ।
विवादम् अकरोद् वेश्मस्वामिना सह तत्र सः
तौ लोभनिश्चयग्रस्ताव् अशान्तकलहाव् उभौ ।
महीपालसभास्थाने विवादं कर्तुम् उद्यतौ
तयोर् अशक्तयोर् जेतुम् उपपत्तिं परस्परम् ।
शृङ्गाटानि परीक्षार्थं गोर् अग्रे व्यकिरन् नृपः
सा बाल्ये ग्रसनाभ्यासाच् छीघ्रम् आघ्राय सस्पृहा ।
गौर् अभुङ्क्त फलानीव न तु तत्सन्ततिश् चिरम्
सभायां राजनैपुण्यं स्तुवत्यां कृतनिश्चयात् ।
दण्ड्येनाजिग्रहद् दण्डं भाण्डं राजा द्विजन्मना
तस्य दाक्षिण्यदक्षस्य प्रजानां हितहेतुना ।
पुत्रे मन्त्रिणि मित्रे वा दुष्टे नालक्ष्यत क्षमा
अपराधं विना जायां क्षीबो निघ्नन् प्रियो ऽपि सन् ।
मेरेशायो ऽपि यवनो वधं भूपेन लम्भितः
शत्रुपक्षे निकारं स क्षिपन् क्षितिपुरन्दरः ।
अकरोद् आदरं नित्यं योगिनां नययोगिनाम्
पराक्रमश् च नीतिश् च तस्य तेषां च भूभुजाम् ।
करुणा च विवेकश् च यस्मिन् राजनि राजति
कामो वियोगिवर्गस्य करोत्य् अपचितिं सदा ।
निर्विकारस् स्मरो योगिवर्गस्यापचितिं व्यधात्
सौम्या भीमा गुणा यस्मिन्न् अवसन् नवसङ्गमम् ।
क्वान्यत्र सागराद् दृष्टा विषामृतजलानलाः
चिरं स्थेयैर् उपात्तो ऽर्थिप्रत्यर्थिभ्यां धनग्रहः ।
तेन धर्मप्रवृत्तेन सद्वृत्तेन निवारितः
केनापि हेतुना पूर्वं लौलराजद्विजन्मना ।
भूप्रस्थदशकात् प्रस्थो विक्रीतो लेख्यपूर्वकम् ॥॥
बालानां नोनराजादिपुत्राणां तम् उदीर्य सः ।
विक्रयाब्दे ब्रह्मभूयं लौलराजो ऽगमत् ततः
नोनराजाद्यसामर्थ्यात् प्रस्थग्राहैर् अभुज्यत ।
अविक्रीतम् अपि प्रस्थनवकं बलिभिस् ततः
एवं कृते दशप्रस्थभोगे तैर् बलिभिश् चिरम् ।
नगभोगाय कपटं कृतं विक्रयपत्त्रके ।
[प्स्-ज्र्त् 112]
व्यञ्जनाग्रस्थितैकाररूपज्ञानाय लेखकाः ।
रेखां पूर्वे व्यञ्जनानां पश्चाद्भागे किलालिखन् ॥ ज्र्त्_ब्.1029 ॥
कालान्तरे लिपेर् भेदाद् उपर्य् अद्यतनाḫ पुनः ।
व्यञ्जनानां लिखन्त्य् एव रेखाम् एकारबोधिकाम् ॥ ज्र्त्_ब्.1030 ॥
भूप्रस्थम् एकं विक्रीतम् इति विक्रयपत्त्रके ।
ते मकारस्थितैकारबोधिरेखापदे ततः ॥ ज्र्त्_ब्.1031 ॥
भूप्रस्थग्राहिणो धूर्ता दकारं समलेखयन् ।
मकारं ते शकारं च कारयाम् आसुर् अञ्जसा ॥ ज्र्त्_ब्.1032 ॥
भूप्रस्थम् एकं विक्रीतम् इति विक्रयपत्त्रके । ज्र्त्_ब्.1033अब् ।
विक्रीतं प्रस्थदशकम् इति वर्णान् अलेखयन् ॥ 804एf ॥
तस्मिन् राज्ञि विचारज्ञे नोनराजस्य नन्दनः ।
बलाद् धृतां भुवं राजसभायाम् अहम् आक्षिपम्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0