राजतरङ्गिनी · श्लोक 764-783
यशो दिशि श्रियं साधौ सुखं लोकेषु रोपयन् ।
व्यधात् प्रक्रमभङ्गं तं यच् छत्रून् उदमूलयत्
एकान्ता तिग्मता भानोर् म्रदिमा शशिनḫ पुनः ।
स द्वौ जेतुम् इवापुष्यत् तत्संसर्गमयीं श्रियम्
असङ्ख्यान् अत्र सङ्क्षिप्ते तद्गुणान् वर्णयामि किम् ।
सृगालानां गुहामध्ये कथं हस्तिपतिर् वसेत्
तस्माच् छैलेन्द्रवच् चित्रे मकुरे सूर्यबिम्बवत् ।
न्यस्यामि तद्गुणाख्यानम् अत्र चित्ते त्रिलोकवत्
शीतोष्णयोर् इवोर्जादौ विषुवे ऽहर्निशोर् इव ।
तस्य मानो ऽभवत् तुल्यस् स्वे परे वापि दर्शने
राजा वणिग् इवात्यर्थं तुलायाḫ पुटयोर् इव ।
साम्यभङ्गं दर्शनयोर् नाक्षमिष्ट कथञ्चन
शान्ते सिद्धाश्रमे सिंहैर् मृगा इव न पीडिताः ।
तुरुष्कैḫ पुष्कलभयैर् ब्राह्मणाḫ पूर्ववत् तदा
दोषाकरेण सूहेन येषां सङ्कोचिता स्थितिः ।
व्यकासयत् ततो भास्वान् गुणिनस् तान् महीपतिः
रन्ध्रैर् अधोगतिं प्राप्ता कुल्येवोद्धृत्य भूभृता ।
विद्या प्रवाहिता तेन गुणिना गुणरागिणा
दोषच्छेदकरो राजा क्रमाद् भिषग् इवानलम् ।
कश्मीरेषु सदाचारम् अपीपलद् उपक्रमैः
अहङ्कारागदङ्कारो राजा प्रकृतिवृद्धये ।
दर्शनानां स धातूनाम् इवोल्बणम् अशीशमत्
कालधर्मेण बलिना मात्स्यन्यायप्रवर्तनम् ।
अष्टलोकेशतेजोऽंशधारणस्यास्य लक्षणम्
स सूहभट्टसंस्पर्शदुष्टायाश् शुद्धये भुवः ।
प्रतापाग्निं ध्रुवं दीप्तमहाकाशम् अजिज्वलत्
राज्ञस् सञ्चिन्वतो मन्त्रप्रपञ्चं पञ्चधा स्थितम् ।
जिगीषयेव तस्यारिवर्गḫ पञ्चत्वम् आश्रयत्
अनित्यबाह्यविद्वेषिनिर्जयस्तुतिसंस्तवः ।
नित्यान्तस्स्थारिसंहर्तुस् तस्य प्रत्युत गर्हणा
शक्तो ऽपि काश्यपीशक्रश् शक्यान् एवाभ्यषेणयत् ।
व्योम्नि यात्रां करोत्य् अर्कस् सतारे न तु सोडुपे
नाजिगीषत् स तेजस्वी शत्रून् विभवतृष्णया ।
हरिर् मांसादिलोभेन हिनस्ति न हि हस्तिनः
शैलेषु तद्द्विषो भानुप्रतापाधिदवश्रमैः ।
प्रायश्चित्तीयितुं पञ्चतपस्त्वं ध्रुवम् आश्रयन्
प्रावर्तिष्ट महीष्ठो ऽपि नोत्पथेन स जातुचित् ।
राकेन्दुर् न निशारम्भं विना जात्व् अप्य् उदेति यत्
"गर्वं प्रवृद्धा वास्तव्या हीना मैव क्षयं गमन्" ।
इति नीतिविदा राज्ञा तेभ्यो बलिर् अगृह्यत
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0