भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 744-763

744

अतो यावद् वयं प्राप्तास् त्वत्सेवाविधिसिद्धये ।
भवद्भिस् तावद् अत्रैव स्थातव्यं पर्वतोपरि"

745

मद्रेशस्य स सन्देशो मन्दैर् यवनपुङ्गवैः ।
स्वयशोलब्धये ज्ञातो मदसम्मूढदृष्टिभिः

746

राज्ञि मूढे ऽवरूढे ऽथ मानाद् इव महीधरात् ।
ध्वजैर् वायुचलैर् यातं खुẖखुरेशबलाद् भिया

747

धावदश्वबलक्षोदात् तनीयसि महीतले ।
हर्षभीरससम्भेदे मज्जति स्म फणीश्वरः

748

अश्वक्षुण्णे ऽस्रसंसिक्ते भूतले ऽसिकुशाञ्चिते ।
वीराḫ प्राणान् प्रतापाग्नौ तत्राजुहुवुर् आहवे

749

आलिशाहस् ततो राजा सिन्धौ प्रवहणं यथा ।
अभाग्यदुर्मरुद्वेगाद् अभज्यत रणार्णवे

750

23ब्) सुल्टान् zअय्न् अल्-‘आबिदीन् (ल्स् 4496-4546)
विश्वान्धङ्करणान्धकारनिकरग्रस्तस्य सूर्योदयं हेमन्ते हिममारुतैर् हतधृतेḫ पुष्पाकराभ्यागमम् ।
दुष्टक्ष्मापतितर्जितस्य जगतो निर्दोषलेशं प्रभुं लोकेशो जनयन् व्यनक्ति नितरां कारुण्यम् अत्युज्ज्वलम्

751

श्रीजैनोल्लाभदीनो ऽथ कश्मीरान् अपकल्मषः ।
अनुकूलो विधातेव प्राविशद् विजयोर्जितः

752

सतां स्तुत्या दिशां भेर्या मुखानि ध्वनयन्न् अयम् ।
पौराणां प्राङ् मनḫ पश्चाद् राजधानीं नृपो ऽविशत्

753

धीनैर्मल्यं जनस्याहो जातं राज्ञो ऽभिषेकतः ।
प्रतापो वैरिणां शान्तस् तस्मिंश् छत्राणि बिभ्रति

754

तन्नीतिḫ पूर्वराजेषु कुण्ठोत्कण्ठाḫ प्रजा व्यधात् ।
गुणातिशायनी या च शर्करेक्षुरसेष्व् इव

755

पूर्वराजव्यवस्थास् स विनष्टा नवयन्न् अभूत् ।
शिशिरोपहता वल्लीर् वसन्त इव भूपतिः

756

परस्पराधिकं शत्रूञ् जयद्भिर् दुर्जयान् अपि ।
शस्त्रैर् मन्त्रा जितास् तस्य मन्त्रैश् शस्त्राणि च प्रभोः

757

कान्त्याङ्गं वदनं वाचा श्रियोरẖ क्षमया मनः ।
श्रितं पश्यन्त्य् अगाद् दूरं कीर्तिर् ईर्ष्यावशाद् इव

758

राज्ञẖ कलिदशामध्ये धर्म्या साम्राज्यपद्धतिः ।
अन्तर्दशेव शुशुभे शुभा कृतयुगस्य सा

759

भोगे सखा नये मन्त्री विवेक्ता शास्त्रनिर्णये ।
श्रीमुहम्मदखानो ऽभूत् कश्मीरेन्द्रस्य सोदरः

760

किम् अन्यद् राज्यम् एवासीच् छत्त्रचामरवर्जितम् ।
श्रीमुहम्मदखानस्य कश्मीरेन्द्रप्रभावतः

761

वसन्त इव कामस्य वयस्यो भूपतेर् अभूत् ।
खुẖकराधिपतिस् तस्य भृत्येष्व् अभ्यधिकप्रियः

762

दुर्व्यवस्थां निवार्यायं देशे ऽस्मिन् म्लेच्छनाशिते ।
इति राज्यपरिप्राप्तिफलं यावद् अचिन्तयत्

763

तावद् द्रोहोचितं कर्म द्रोग्धारो राजवल्लभैः ।
अपृष्ट्वैव महीपालं नीता वीतभयैस् स्फुटम्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc