राजतरङ्गिनी · श्लोक 724-743
मन्त्रिमन्त्रैर् अवार्याणां दिवसे ऽप्य् अनिवर्तिनाम् ।
रक्षसाम् एव कश्मीरास् तदा हस्तवशं गताः
अराजकं वरं राज्यं न स्वामी तादृशḫ पुनः ।
अभूषणौ वरं कर्णौ न पुनर् लोहकुण्डलम्
[प्स्-ज्र्त् 110]
हिमाद् अग्निस् तमस् सूर्याच् छिला व्योम्नस् तदापतत् ।
यत् पालको ऽपि भूपालस् सर्वलोकक्षयो ऽभवत् ॥ ज्र्त्_ब्.941 ॥
सद्म तुङ्गं वरो वाजी स्वच्छं वासो मणिर् महान् ।
स्वीकृतं यवनैस् तत् तद् यद् यच् छोभावहं प्रभोः
अकार्षीत् पञ्चषान् मासान् राज्यं स जडनायकः ।
प्रजापापविपाकेन न पुनस् स्वेन कर्मणा
मालिन्यं सुमनḫप्रथाḫ प्रथयते दैन्यं निधत्ते दृशः सूर्यालोकतिरस्कृतं च कुरुते संहारम् आशा नयन् ।
उन्निद्रẖ कम् उपद्रवं न तरसा कुर्वीत धूमोद्गमो नोद्द्योतेततरां शिखी यदि महाज्वालाकलापाकुलः
श्रीसेकन्दरदत्तस्य राज्यस्य ऋणम् आत्मनः ।
निवारयितुकामेन स्वलक्ष्मीफलकाङ्क्षिणा
मद्रेन्द्रद्वेषपूर्णेन खुẖखुरस्वामिना ततः ।
नवराजो ऽर्थितो दूतैर् निजदेशागमं प्रति
नक्रो न चेज् जलनिधेर् बहिर् अभ्युपेयात् काकस् त्यजेन् न वरपादपम् उन्नतं चेत् ।
आखुर् न चेद् गहनगर्तगुहां विमुञ्चेद् धन्तव्यतां कथम् अवाप्नुयुर् एव तत् ते
"आश्रयो युवराजस्य मद्द्विषो दीयते ऽमुना" ।
जस्रथं प्रति भूपालẖ क्रोधाद् इत्य् अभ्यषेणयत्
म्लेच्छच्छादितमाहात्म्यैर् उद्विग्नैस् सचिवैर् निजैः ।
अनिषिद्धोद्यममतिर् दूतैर् उभयवेतनैः
युक्त्योपोद्वलितश्रद्धस् तथा द्वैराज्यजीविभिः ।
नवराजोदयं लेखमुखेन प्रापयिष्णुभिः
प्रसादलोभाद् यवनैर् अतिमात्रकृतस्तुतिः ।
नवराजजयोद्रेकश्रवणभ्रष्टसाहसैः
स्वसैन्यैर् दैन्यचकितैर् निन्द्यमानोद्यमो नृपः ।
मल्लेकं जस्रथं जेतुं प्रस्थानम् अकरोत् ततः
अभ्यमित्रीणतां तस्य कश्मीरेन्द्रस्य गच्छतः ।
आसीन् मित्रस्य साम्मुख्यं न मित्राणां महीभुजाम्
[प्स्-ज्र्त् 111]
स्वस्यात्यौन्नत्यम् आलक्ष्य शङ्कमानो ऽथ पातकम् ।
खुज्याकादस् समं मन्त्रम् अमन्त्रयत मन्त्रिभिः ॥ ज्र्त्_ब्.954 ॥
"मन्त्रविक्रममुख्यानि लक्षणानि क्व भूभुजाम् ।
अयं बालिशभावस्य भाजनं क्व जनाधिपः ॥ ज्र्त्_ब्.955 ॥
अस्माभिर् निहिताश् चास्मिन्न् उपदेशा हिता अपि ।
प्रतीपं यान्ति शशिनḫ पङ्कजे किरणा इव ॥ ज्र्त्_ब्.956 ॥
प्राग् एव युवराजो ऽभूद् अजय्यो ऽसह्यसाहसः ।
विशेषेणाद्य मद्रेशद्वेषाज् जस्रथमानितः ॥ ज्र्त्_ब्.957 ॥
राज्याश्रयेषु नास्मासु विश्वासी नूतनो नृपः ।
हारलुब्धस्य दाम्नस् तु हारो न मणिभृत्फणी ॥ ज्र्त्_ब्.958 ॥
तस्माद् अस्माभिर् एते न युवराजो विजीयते ।
योग्याḫ प्राहुणकेनैव गृहे घ्नन्ति भुजङ्गमम् ॥ ज्र्त्_ब्.959 ॥
जीयमाने नरेन्द्रे न युवराजे निरङ्कुशाः ।
आयान्तु मण्डलं सर्वे साधयामश् चिकीर्षितम्" ॥ ज्र्त्_ब्.960 ॥
इति सम्मन्त्र्य मन्त्री स युवराजाभियोजने ।
सोद्यमस्य नरेन्द्रस्य हेतुकर्तृदशाम् अगात् ॥ ज्र्त्_ब्.961 ॥
यत्र यत्रागमन् म्लेच्छकटकस् स मदोत्कटः ।
तत्र तत्र रजोव्याजात् तमो मूर्तम् अदृश्यत
पालनीयेषु देशेषु राजपुर्यादिषूद्धतः ।
परदेशेष्व् इवाकार्षीत् स लुण्ठनपराभवम्
प्राप्ते ऽथ मुद्गरव्यालनाम स्थानं महीपतौ ।
सन्देशम् इत्य् अमन्दौजाḫ प्राहिणोन् मद्रभूपतिः
"पत्तिलोकस् ससम्पत्तिर् वाजिनो वेगराजिनः ।
भटा रणोद्भटास् सन्ति कटके तव यद्य् अपि
तथापि च्छलबन्धेषु प्रसिद्धेषु महीतले ।
यूयं खुẖखुरयुद्धेषु नैव नाम प्रगल्भथ
वयम् एव तु जानीमẖ खुẖखुराणां रणच्छलम् ।
अहिर् एव भुजङ्गस्य पदं जानाति नेतरः
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0