राजतरङ्गिनी · श्लोक 704-723
देहात् पृथङ् निवसतो मद्भुजस्येव ते वत ।
दृष्ट्वा पराक्रमं शङ्का मदशक्तौ कथं भवेत्
एतावद् अपि वाक्यं मे यदि नैवानुतिष्ठसि ।
त्वयि सङ्कल्पिताश् शेषास् तद् आशास् सन्तु दूरतः"
निर्बन्धेनेति जल्पन् स तीर्थार्थं धरणीपतिः ।
युवराजं हठाद् राज्यभारम् अग्राहयच् चिरात्
23अ) सुल्टान् zअय्न् अल्-‘आबिदीन् (ल्स् 4494-4495)
"श्रीजैनोल्लाभदीनाख्यस् सुरत्राणो भवन् भवान् ।
चिरं राज्यं क्रियाद्" एवं राजास्याशिषम् अभ्यधात्
तीर्थदर्शनलोभेन स्वदेशान् निरगान् नृपः ।
न पुनर् युवराजस्य चित्तात् प्रेमार्गलाञ्चितात्
कोशसाराणि रत्नानि वाजिरत्नानि चार्पयन् ।
भ्रातरं वसतीर् द्वित्रास् सो ऽन्वगात् प्रेमगौरवात्
मार्गे क्लेशं प्रयत्नेन सिद्धिं तीर्थफलाल्पताम् ।
उक्त्वा मार्गे खला राज्ञस् तीर्थश्रद्धाम् अखण्डयन्
स्वजामातुस् तिरस्कारं मन्यमानेन मानिना ।
मद्रेन्द्रेणाथ भूपालो हठात् तीर्थान् निवर्तितः
प्राप्तायां शरदि श्रेष्ठदशायाम् इव भूपतिम् ।
मद्रराजस् तम् आदाय कश्मीरान् प्रत्यगात् ततः
भ्रातुर् आगमनात् तुष्ट्या मद्रासारग्रहाद् रुषा ।
नवराजḫ प्रसादे च कालुष्ये च निमग्नवान्
[प्स्-ज्र्त् 109]
देवस्योपद्रवं कार्षीन् मा मद्रेन्द्रचमूर् इति ।
इयेष ठक्कुरं राजा तं निरोद्धुं विसृष्टवान् ॥ ज्र्त्_ब्.927 ॥
युद्धं विनानिवर्तिन्यां सेनायां मद्रभूपतेः ।
आज्ञां विनाक्षमो योद्धुं व्यावर्तत स ठक्कुरः ॥ ज्र्त्_ब्.928 ॥
क्षुद्रेष्व् अथ स मद्रेषु युवराजो महामतिः ।
भ्रातुस् स्नेहाद् रुषं त्यक्त्वा राज्यत्यागं स्वयं व्यधात्
22ब्) ‛अली šआह् (ल्स् 4495-4496)
तन् न्यस्तं दिवसावसानसमये सूर्यस्य तेजो निजं प्रत्यूषे प्रतिपादयन्न् अतिशयश्लाघ्यस्वतेजा भवन् ।
वह्निर् यज्वकुलैस् ततो ऽपि दिवसे श्रद्धानुबन्धाकुलैस् तेजोवृद्धिमुषा नवेन हविषा यज्ञेषु सन्तर्प्यते
ठक्कुरैर् अन्वितो राजा पवनẖ कुसुमैर् इव ।
कश्मीरेभ्यो गतस् सर्वैर् देशाधीशैर् नतस् ततः
सुखं तावद् अगाहिष्ट वीतनक्रां नदीम् इव ।
ठक्कुरैर् उज्झितां मद्रचमूẖ कश्मीरमेदिनीम्
अथ विस्तीर्णम् आक्रान्तम् आलिशाहेन भूभुजा ।
पित्र्यं सिंहासनं तेन न तु सज्जनमानसम्
उद्यच्छेत कथं जडद्युतिर् अहो दूरोल्लसल्लाञ्छनो गच्छेद् दीप्तकरो न चेद् दिनकरो लोकान्तरं स्वेच्छया ।
वीरेणात्यवहेलया विरचितो ऽपक्षो जडẖ कातरः सम्भाव्य स्वपराक्रमेण विजयं विश्वं तृणं मन्यते
शाखाभङ्गेन सच्छायम् उद्यानं प्लवगा इव ।
मण्डलं क्षोभयाम् आसुस् तुरुष्का राजसेवकाः
कातरान् नाम भूपालाद् अनिष्पन्ननियन्त्रणः ।
यवनो मेरकंसारो व्यधान् मण्डलविप्लवम्
अकार्षीन् मलिनो भृङ्गस् सङ्कुचन्तीर् इवाब्जिनीः ।
पौरनारीर् अनार्यस् स हठसम्भोगदूषिताः
महाकरैर् मदेनान्धैḫ पङ्कसङ्कुलतां भजत् ।
अक्षोभि मण्डलं स्वच्छैस् सरो मरुगजैर् इव
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0