राजतरङ्गिनी · श्लोक 684-703
श्रीधेनौ रागिणौ तौ द्वौ मदोदग्रौ वृषाव् इव ।
अन्योऽन्यशृङ्गभङ्गार्थं प्रावर्तेते द्विजे मृते
काराया मोचिते लद्दराजे हंसेन संयति ।
प्राणांस् त्यक्त्वा गौरभट्टस् सुरस्त्रीणां मुदं व्यधात्
त्यक्त्वा गत्यन्तराभावात् करिकर्णविलोलताम् ।
पुंश्चल्येव पतिर् वृद्धो भेजे हंसस् तदा श्रिया
बालो ऽपि शाहिखानो ऽस्य नोत्सेकं सोढवान् पुनः ।
शशीव तिमिरस्फारं न हि तेजो वयोऽनुगम्
ठक्कुरैस् सह सम्मन्त्र्य युवराजो ऽथ मन्त्रवित् ।
लद्दराजं विनिघ्नन्तं हंसभट्टं रणे ऽवधीत्
शाहिखानं प्रजारागो निम्नं पय इवागमत् ।
अमन्दचूतसम्पत्तौ कुन्दं निन्दति षट्पदः
युवराजं जयोदग्रं परिरब्धुं समुत्सुका ।
राज्यश्रीस् समयालाभाच् चिन्ताकुलम् अवर्तत
स्नेहाद् विदग्धभावाच् च प्रजारागभराद् अपि ।
अधिकारभरं राजा युवराजे समर्पिपत्
मेरकंसारसञ्ज्ञस्य तुरुष्कस्याथ दुर्मतेः ।
द्विपस्येव मदान्धस्य द्विष्टो ऽभूत् तद्गुणाङ्कुशः
सुचिरं मलिनै राज्ञो मानसं वारिदैर् इव ।
पैशुन्यवर्षिभिर् नेतुं मालिन्यं न स्म शक्यते
भक्ते दक्षे ऽनुजे स्निग्धो भूभृद् आश्रितवत्सलः ।
अतिप्रेरणया तेषां राज्ये ऽप्य् उद्विग्नताम् अगात्
युवराजं सेवकांश् च रक्षितुं स्वान् महीपतिः ।
तीर्थानुसरणाकाङ्क्षी तम् इत्य् एवम् अवोचत
"अनर्थितर्पणं वित्तं चित्तम् अध्यानदर्पणम् ।
अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत्
दिग्गजेष्व् इव युष्मासु भूभारं न्यस्तवान् अहम् ।
पुरुषोत्तमसेवायै यते शेष इवापरः"
शाहिखानार्णवḫ प्रेममन्दरान्दोलितस् ततः ।
वाणीं सुधाकरकलाम् ईश्वराय नवाम् अदात्
"अस्तु सन्देहसन्दोहाद् दूरे तीर्थकदर्थना ।
द्वारं यशस्सुकृतयोḫ प्रजापालनम् अस्तु वः
चिरस्य पालितां पित्र्यां हित्वा निश्शरणां महीम् ।
नैर्घृण्येनैव शूरस् त्वम् अशक्त्यैवाङ्क्यसे ऽखिलैः
देवस्य यदि तीर्थार्थम् उत्कण्ठा वर्ततेतराम् ।
आराधकानाम् अस्माकं किम् अन्यत् कार्यम् उच्यताम्"
व्यक्तम् इत्य् उक्तवत्य् एव युवराजे नरेश्वरः ।
ईषत्स्मितरुचा चारुं पुनर् वाचम् अवोचत
"प्रजानुपालनात् पुण्यं केवलात् कियद् अर्ज्यते ।
रसायनानाम् अग्र्यं यद् अनेकरसचर्वणम्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0