भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 664-683

664

क्ष्मा रूक्षा क्षामम् अशनं व्यायामो वेदनामयः ।
जीवन्नरकतां तेषां विदेशो ऽगाद् द्विजन्मनाम्

665

धाटीफणीन्द्रभीतीव्रतापस्वल्पाशनातुरैः ।
मार्गे ऽनेकैर् द्विजैर् मृत्युलाभात् सुखम् अमन्यत

666

क्व च स्नानं क्व च ध्यानं तपẖ क्व च जपẖ क्व च ।
भिक्षार्थम् अटतां ग्रामान् अगात् कालो द्विजन्मनाम्

667

द्विजानाम् उपकारो ऽभूद् अपकारमुखाद् अहो ।
यत् तन्निर्वासितास् सर्वे पापं तीर्थेष्व् अनाशयन्

668

विदेशम् अगताश् शुष्यत्कलत्रत्राणचिन्तया ।
म्लेच्छवेषा द्विजाẖ केचित् कश्मीरेष्व् एव चाभ्रमन्

669

विच्छेत्तुम् इच्छता विद्यां तेनापहतवृत्तिभिः ।
लडितं प्रतिवेश्माग्रं पिण्डीलोभाद् द्विजैश् श्ववत्

670

तुरुष्कदर्शने भक्त्या न तु द्वेषेण स द्विजान् ।
व्यप्लावयद् अतश् चास्मिन् हत्या न प्रजगल्भिरे

671

इत्य् आख्यच् च स एवैषां स तस्य परिहारदः ।
द्वेषद्योतनशक्तानां कार्याणाम् एव दर्शनात्

672

रत्नाकरं यम् आश्रित्य ब्राह्मणा जगतीभृतः ।
पक्षरक्षां व्यधुस् सो ऽभूत् क्षुद्रभट्टो ऽस्य वल्लभः

673

मलानोर्दीननामानं यवनानां परं गुरुम् ।
वैदग्ध्याच् छङ्कमानस् "स द्रोही"ति तम् अबन्धयत्

674

यतḫ प्रभृति स प्रापद् राज्यम् अच्छत्त्रचामरम् ।
ततḫ प्रभृति रोगार्तिर् इव दर्शनदूषणा

675

स्वप्ने ऽपि नात्यजत् सूहभट्टं घट्टितवैरिणम् ।
भोगस् सद्वासना चातिशुद्धानां तपसां फलम्

676

तस्यैव फलपूर्णानाम् ऋतूनाम् इव मन्त्रिणाम् ।
मानस्य हानिसम्पत्ती भास्वतो ऽधीनतां गते

677

एकस्मिञ् शाहिखाने स दृष्ट्वा मन्त्रपराक्रमौ ।
अत्यन्तचिन्ताचकितो निद्रां नापत् कदाचन

678

पश्यन्न् एवाविलं सूहसर्पं सविषया दृशा ।
शाहिखानप्रदीपो ऽभूत् तमस् संहर्तुम् अक्षमः

679

द्विजातिपीडया शास्त्रनिन्दया द्रोहचिन्तया ।
चिकित्सया च तस्याब्दैर् यातं त्रिचतुरैस् तथा

680

[प्स्-ज्र्त् 107]
दायवान् इव दोषो ऽस्य हेतुमात्रपरीक्षया ।
संवृतौजा व्यलम्बिष्ट शाहिखानस्य बाधने ॥ ज्र्त्_ब्.891 ॥
वलीमुखमनोज्ञस् स प्रजाभाग्यबलोदयात् ।
अनैषीद् भग्नतां शाहिखानचिन्तामणिं न च ॥ ज्र्त्_ब्.892 ॥
प्रजापुण्योदयेनैव प्रेरितो दुष्कृतोत्थितः ।
क्षयामयो दुश्चिकित्स्यो द्विजराजम् अशोषयत्

681

अनालोक्यैवेन्दोर् उदयम् अगमिष्यद् यदि शमं समन्तान् नादित्योपलदहनराशिव्यतिकरः ।
किम् अद्रक्ष्यन् नायं तदुदयवशस्रावितुहिनद्युतिग्रावाम्भोभिẖ कृतधरणितापोपशमनम्

682

वर्षांस् त्रिचतुरान् अन्याञ् जीवेच् चेत् स न किं ततः ।
शाहिखानोदये पश्येद् इहैव स्वांहसां फलम्

683

जीवत्य् एव ततस् सूहभट्टे भीत्या पलायितम् ।
विश्राम्य लद्दराजं द्राग् हंसगौरौ बबन्धतुः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc