भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 644-663

644

मन्त्रिणा सूहभट्टेन पालितैर् लालितैर् जनैः ।
ज्ञातो ऽदर्शनमात्रेण स्वर्यातश् श्रीसेकन्दरः

645

श्रीसेकन्दरशाहिर् यं शोभादेव्यास् स्वम् आत्मजम् ।
उत्पिञ्जानाम् अभावार्थं स्वदेशान् निरवासयत्

646

उदीचीपतिना राजपुत्रत्वाद् अभिनन्दितम् ।
कश्मीरान् आययौ जेतुं तम् आदायाथ मह्मदः

647

तुरुष्ककटकैस् सार्धं श्रुत्वा पिरुजम् आगतम् ।
व्यसृजत् तन्निरोधाय सूहश् श्रीलद्दगौरकौ

648

मन्त्रैश् श्रीलद्दराजस्य विक्रमैर् गौरकस्य च ।
सा तुरुष्कचमूश् शान्ता व्याधिर् दानजपैर् इव

649

वीतभीतिस् ततो मन्त्री कम्पनाधिपतिं व्यधात् ।
लद्दराजं गौरभट्टं क्रमराज्येश्वरं च सः

650

सन्ध्याक्षण इवोदग्रे सूहे रञ्जितभूभृति ।
नाभूताम् उदितौ राजयुवराजौ रवीन्दुवत्

651

श्येनो हन्ति पतत्रिणो मृगपतिर् निष्पातयिष्णुर् मृगान् भिद्यन्ते मणयो ऽपि वज्रमणिना खाता खनित्रैर् मही ।
पुष्पाणीव च भास्वता ग्रहगणास् सूर्येण निर्धूनिताः प्रायेणात्र विलोक्यते परिभवत्रासस् सजातीयतः

652

द्विजातिपीडने ऽनेन प्रेरितो ऽपि मुहुर् मुहुः ।
श्रीसेकन्दरभूपालẖ करुणाकोमलाशयः

653

यवनाब्धिमहावेलां याम् अकार्षीत् कथञ्चन ।
उल्लङ्घिता द्विजातीनां तेन दण्डस्थितिस् ततः

654

दर्शनान्तरविद्वेषी प्रदोषस् तमसां निधिः ।
यागयात्रादि नागानां दुर्वृत्तस् स न्यवारयत्

655

शङ्कमानẖ कृतातङ्कसङ्कोचानां द्विजन्मनाम् ।
विदेशगमनाज् जातिरक्षाम् अक्षाममत्सरः

656

"मोक्षाक्षरं विना मार्गो दातव्यो नैव कस्यचित्" ।
इत्य् आदिशद् अशेषान् स मार्गरक्षाधिकारिणः

657

ततो मीनान् इव व्याधो दत्तबन्धे सरिज्जले ।
द्विजातीन् अतिदुर्जातो देशे ऽस्मिन् न्यग्रहीत्तराम्

658

तद्भयानलसन्तापं पापं च बहवो द्विजाः ।
अग्निज्वालाप्रवेशेन सहसैव न्यवारयन्

659

केचिद् विषेण पाशेन परे तोयेन चापरे ।
भृगुणा वह्निना चान्ये विप्रा भीत्या विपेदिरे

660

राजद्रोहसहस्रेण रक्षितुं राजवल्लभाः ।
न त्व् एकम् अशकन् विप्रम् एतस्मिन् द्वेषदूषिते

661

दुर्वहत्वेन निन्दन् स राज्यभारम् अलं खलः ।
अश्लाघत द्विजाक्रन्दश्रवणानन्दलाभतः

662

गृहाद् धूम्येव विप्राणां पङ्क्तिर् जात्यभिमानिनी ।
रुद्धद्वारात् ततो देशाद् अपमार्गैर् अपासरत्

663

त्यक्त्वापि पितरं पुत्रस् तं पिता चागमद् द्विजः ।
सूहान्तके कृताक्षेपे विदेशं परलोकवत्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc