भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 624-643

624

प्राप्ते मुहम्मदे मार्गपतौ विश्वासतो गृहान् ।
स गोविन्दखशश् चित्ते क्षणम् एवम् अचिन्तयत्

625

"मन्त्रिणा सूहभट्टेन राज्योपद्रवरक्षिणा ।
द्वैराज्यकारी दुर्बुद्धिर् विन्यवारि मुहम्मदः

626

[प्स्-ज्र्त् 102]
लीलेवापक्रिया कर्तुर् अपकार्यस्य सा पुनः ।
नाडीव व्रणिता जातु न शुष्यति कथञ्चन ॥ ज्र्त्_ब्.831 ॥
परिणामे ऽतिदुẖखेन सुखेनासुखसीमनि ।
अपथ्येनेव किं नस् स्यात् सेवितेनामुना फलम् ॥ ज्र्त्_ब्.832 ॥
राजद्रोहोद्यतḫ पापी निस्सामर्थ्यो भयाद् अयम् ।
मम देशं प्रविष्टो ऽद्य रक्षणीयो न युज्यते"

627

[प्स्-ज्र्त् 103]
इति सम्मन्त्र्य विश्वस्तजिह्मगो मह्मदं ततः ।
सुप्तं हरिम् इव व्याधो गोविन्दस् तं निबद्धवान् ॥ ज्र्त्_ब्.834 ॥
अनेकेनाथ रत्नेन निस्सपत्नत्वलिप्सया ।
एकं सूहस् स पुंरत्नम् अक्रीणान् मह्मदं ततः ॥ ज्र्त्_ब्.835 ॥
तावच् च सूहभट्टेन विसृष्टाश् श्रेष्ठबुद्धयः ।
अन्वेषका गृहं प्राप्ता गोविन्दस्य खशेशितुः

628

मैत्रीम् उल्लङ्घ्य निर्व्यूढाम् आस्रितस्य च रक्षणम् ।
मुहम्मदं निजम् मित्रम् अर्पयाम् आस दुर्मतिः

629

सुप्तं हरिम् इव व्याधो यदा बद्ध्वाक्षिपत् खशः ।
पशुवत् तं तदा ते ऽथ कश्मीरान् आनयन् द्रुतम्

630

मन्त्रार्दितस्य फणिनḫ प्लवगाश् चपेटैर् व्याधास् सटाविघटनान् निरसोर् हरेश् च ।
बद्धस्य कातरतयाबलिनो ऽवमानैर् निन्दां विना किम् इव नाम परं लभन्ते

631

[प्स्-ज्र्त् 104]
करोटीटङ्कनाघट्टरदटाङ्कारकुट्टनैः ।
पर्यभूयत जिह्मेन सूहभट्टेन मह्मदः ॥ ज्र्त्_ब्.839 ॥
मान्यं कृतावमानं तं शङ्कमानḫ पलायनम् ।
बहुरूपे महादुर्गे सूहẖ काराम् अवीविशत्

632

[प्स्-ज्र्त् 105]
हितैषिणो निजप्राणैर् देवस्य स्वानुजीविनः ।
विषये ऽस्मिन् ह्य् अधीकारस् तेनामन्दम् अधीयत ॥ ज्र्त्_ब्.841 ॥
विद्युद्द्योतभरैर् निशि प्रवसतḫ पान्थान् नवो वारिदः पञ्चास्यो वनवासिनो मृगगणान् व्यावृत्त्य विप्रेक्षितैः ।
गत्या वक्रगतैर् दिनेशतनयो राशीन् अजादीन् विधिर् भद्राभासविलोकनैर् दुरितिनो विश्वास्य पर्यस्यति

633

शाहनाम्न्यास् ततो दास्या मुखेन प्रतिबोधितः ।
मह्मदो निजधात्रेयैर् बन्धस्थानाद् अकृष्यत

634

स हि "स्वेदाकुलस् स्नानं करोमी"ति स्वरक्षकान् ।
भ्रामयित्वा प्रविश्याथ स्नानकोष्ठं ततो ऽचलत्

635

धात्रेयैर् विहितं सन्धिभेदस्थानम् उपेत्य सः ।
हंसẖ क्रौञ्चान्तरम् इव निस्सृतो ऽथ मुहम्मदः

636

रोषाद् इव स्रुतिं हन्तुं निष्पतन् निर्झराम्भसाम् ।
भृगोर् इव ततो दुर्गाद् अदाज् झम्पाम् अकम्पितः

637

अशक्नुवन्न् अमुं रोद्धुं पाषाणा रक्षिणो न च ।
निर्झरास् तु तदङ्घ्रिस्थनिगडध्वनिडम्बरम्

638

धात्रेया मह्मदस्याथ भञ्जन्तो निगडान् दृढान् ।
सूहभट्टम् अमन्यन्त भग्नं साकं स्वबन्धुभिः

639

[प्स्-ज्र्त् 106]
हिमगमनतẖ क्लान्तस्वान्तो हिमं मनुते ऽनलं तटतरुमुखं नावा गच्छन् व्रजत् परिपश्यति ।
वलति नितरां विश्वं विश्वं विवेत्ति च मूर्छितः सरलहृदये शङ्काग्रस्तस् तनोत्य् अतिशङ्किताम् ॥ ज्र्त्_ब्.849 ॥
मुहम्मदवद् एवास्मिञ् शङ्कमानḫ पलायनम् ।
वृद्धं निपीतकोशो ऽपि मार्गेशम् अवधीद् द्विजः

640

हते मार्गपतौ वृद्धे सूहभट्टेन दुर्धिया ।
अमन्दनिन्दम् आक्रन्दन् पितरीवाखिला जनाः

641

ऋक्षैस् संलक्षयन्न् आशाविशेषं निशि निश्य् अथ ।
पक्षीव नीडभ्रष्टस् स सूहो लोकभयाद् अयात्

642

अहस् तस्य विहस्तस्य रात्रिर् आसीन् निशा दिनम् ।
विपर्येति ध्रुवं सर्वं विधौ विधुरतां गते

643

कारानावं समुल्लङ्घ्य चलितं तं स्मरन् मुहुः ।
मुहम्मदतिमिं सूहधीवरश् शुचम् आसदत्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc