राजतरङ्गिनी · श्लोक 604-623
[प्स्-ज्र्त् 92]
तद्दर्शनभयेनेव तिरोभूतस् स्वयम्भुवः ।
तदा हुताशो नाशोचि निकटस्थैर् द्रुमैḫ परम् ॥ ज्र्त्_ब्.770 ॥
भीत्येवापḫ प्रकाश्य स्वास् त्रिसन्ध्यं तत्र मज्जतः ।
सन्ध्यादेवी परं वन्ध्या तस्यागाद् अनुकम्प्यताम् ॥ ज्र्त्_ब्.771 ॥
कथाशेषीकृते सर्वगीर्वाणप्रतिमागणे ।
व्याधिमुक्त इवानन्दं सूहभट्टो ऽभजत् ततः
[प्स्-ज्र्त् 93]
सिन्धूदभाण्डपुरयोस् स्वामिनौ श्रीसेकन्दरः ।
श्रीशोभाकन्ययोḫ पाणिग्रहेणान्वग्रहीद् अथ ॥ ज्र्त्_ब्.773 ॥
प्रत्यमुञ्चत् स्वदेशोत्कं मेरसैदमहम्मदम् ।
राजा सहचरीकृत्य शोभापुत्रं स पिर्वजम् ॥ ज्र्त्_ब्.774 ॥
दर्शितैर् मौसुलैश् शास्त्रैर् जातिद्वेषमयैर् इव ।
अश्रावि तेन तद् राजा किम् असाध्यं दुरात्मना ॥ ज्र्त्_ब्.775 ॥
अपथ्याशीव बालस् स सामन्तसहितस् ततः ।
जनानां जातिविध्वंसे सूहभट्टẖ कृतोद्यमः
"जातिध्वंसे मरिष्यामो" द्विजेष्व् इति वदत्स्व् अथ ।
जातिरक्षानिमित्तं स तान् दुर्दण्डम् अजिग्रहत्
प्रसादप्राप्तिलोभेन भूपतेर् उपजीविषु ।
ब्राह्मणत्वाधिकां जातिं त्यजत्स्व् अप्य् अविलम्बितम्
श्रीसिंहभट्टकस्तूटौ वणिजौ श्लाघ्यतां गतौ ।
श्रीनिर्मलाचार्यवर्यस् त्रिजगच्छ्लाघ्यतां गतः
त्यक्त्वा जातिग्रहं यत् ताव् अन्यदर्शनसेविनौ ।
शुष्कं तुरुष्कदण्डं च विन्यवारयतां ततः
निर्मलाचार्यवर्यस् स सर्वस्वं तृणवत् क्षणात् ।
त्यजन् राजप्रसादेन न जातिं स्वाम् अदूषयत्
[प्स्-ज्र्त् 94]
पश्यतां सर्वलोकानां ब्रह्मदण्डो ऽपतद् दिवः ॥ ज्र्त्_ब्.778 ॥
कृतव्रणस् स तेनाङ्गे विसर्पिक्लिन्नविग्रहः ।
कीर्यमाणक्रिमिकुलẖ क्रकचैश् चारितैर् अभूत् ॥ ज्र्त्_ब्.779 ॥
अनुभाव्य व्यथां भाविनिरयक्लेशवर्णिकाम् ।
गणरात्रेण तं प्राणाẖ काङ्क्षितापगमा जहुः ।
ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः ॥ ज्र्त्_ब्.780 ॥
दण्डाक्रान्तस् स राजाथ मेरखानं निजे पदे ।
अभिषिच्यालिशाहाख्यां कृत्वास्यागाद् यमालयम् ॥ ज्र्त्_ब्.781 ॥
स्वामी भृत्यापराधेन दण्डनीय इति स्थितेः ।
सूहभट्टापराधेन कालो भूपे ऽकरोत् क्रुधम्
ज्यायांसम् अभिषिच्याथ पुत्रं सिकन्दरो नृपः ।
नन्दाष्टाब्दे ततो ज्यैष्ठकृष्णाष्टम्यां व्यपद्यत
22अ) ‛अली šआह् (ल्स् 4489-4494)
[प्स्-ज्र्त् 95]
रूपं निष्फलम् अर्चितं किम् अपि तन् मन्दान् अमन्दाग्रहान् भक्तान् यस् समनुग्रहीतुम् अतुलस्वाच्छन्द्यवन्द्यक्रियः ।
गौरीरूपकरीं वपुस्सहचरीं स्वां शक्तिम् अव्यक्तयद् भुक्तिं मुक्तिपुरस्सरीं दिशतु वो देवस् स्वयम्भूर् अयम् ॥ ज्र्त्_ब्.784 ॥
विश्राम्यतुतरां शाहिखानवृत्तान्तसानुनि ।
मद्वाक् श्रान्तान्यराजाख्याशैलकोटिशिखाटनैः ॥ ज्र्त्_ब्.785 ॥
तद्गुणौघरसश्लाघ्यां पिबन्त्व् अपि गिरं मम ।
सुगन्धिघनसारेण कूपाम्भो ऽपि मनोरमम् ॥ ज्र्त्_ब्.786 ॥
आलिशाहस् स वसुधासुधांशुर् जगतस् तमः ।
प्रदोषारब्धम् अच्छैत्सीद् भास्वतो ऽस्ते पितुस् ततः
अदर्पकचितं बालं प्रौढा लक्ष्मीर् मुहुर् मुहुः ।
कुलजालिङ्गद् अङ्गैस् तं राजानं नतिशालिभिः
[प्स्-ज्र्त् 96]
तस्य बाल्यं मनोहारि विशेषाद् राज्यराजितम् ।
कान्तिं कलयते कान्तḫ पूर्णेन्दुश् शरदि स्फुरन् ॥ ज्र्त्_ब्.789 ॥
पूर्वोर्वरेशवद् बालम् अपि तं भूभुजो ऽनमन् ।
अहिदष्टो हि दामापि क्रमितुं न प्रगल्भते
निजबुद्धिबलाद् दैवहितत्वेनोपसंहितात् ।
सूहभट्टेन मुख्यत्वं सचिवानाम् अवाप्यत
विश्वासन्यस्तशस्त्रं स लद्दमार्गपतिं बलात् ।
बद्धवान् सह तत्पुत्रैर् वर्जयित्वा मुहम्मदम्
मुहम्मदो मार्गपतेर् बन्धं श्रुत्वैव शौर्यवान् ।
भाङ्गिलाचलमार्गेण मार्गाभिज्ञḫ पलायितः
[प्स्-ज्र्त् 99]
मारुतस्येव वीरस्येव गतिẖ क्वापि न हन्यते ।
श्रुत्वा तद्गमनं दूतान् मन्त्रनिर्भेदशङ्कितः ।
लद्दमार्गपतिं रोद्धुं सहसा समचिन्तयत् ॥ ज्र्त्_ब्.816 ॥
रुजस् संवीक्षणव्याजान् मार्गेशस्य शयाप्तये ।
विश्वासनाय च प्रास्यद् भट्टोत्सं तस्य सद्मनि ॥ ज्र्त्_ब्.817 ॥
चिकित्सकौषधाहारी मार्गेशतिमिनादृतः ।
नाबोधि पिण्डीनिर्गूढबडिशं पुनर् उत्सवः ॥ ज्र्त्_ब्.818 ॥
तावन् मार्गपतेस् सौधं सिंहनादोद्भटैर् भटैः ।
जवाद् रोधितवान् मन्त्री दाशो नीडं तृणैर् इव ॥ ज्र्त्_ब्.819 ॥
तीक्ष्णैर् अपि दयाविष्टैर् इष्टैर् इव स विह्वलैः ।
कथञ्चिद् दोषरहितो मार्गेशस् समरुध्यत ॥ ज्र्त्_ब्.820 ॥
निरुध्यमानं निश्शङ्कम् अगदङ्कारशङ्करम् ।
अप्रयुक्तातितीक्ष्णापि शस्त्री धीश् च व्यडम्बयत्
अपश्यन् दर्पतẖ किञ्चित् सिंहो विशतु वागुराम् ।
चित्रं तु तद् विशेत् पाशं दूरदृश्वापि यत् खगः
[प्स्-ज्र्त् 100]
ततो मार्गपतेḫ पुत्रान् मेषान् इव स सौनिकः ।
रुद्धवान् उद्धतक्रोधḫ पाप्मा मूर्त इवापरः ॥ ज्र्त्_ब्.823 ॥
ताभ्यां सपरिवाराभ्यां कारागारम् अपूपुरत् ।
न परं भुवनं सर्वं दुर्यशोभिश् च निश्चलैः ॥ ज्र्त्_ब्.824 ॥
एकाहेनैव तच् छ्रुत्वा मह्मदḫ प्राप्तिचिन्तया ।
कन्ययेव दरिद्रस् स नक्तन्दिवम् अदूयत
दुर्दण्डदेशे गोविन्दनाम्नो मित्रस्य वेश्मनि ।
विश्वस्तḫ प्राविशत् तावद् विश्रमार्थं मुहम्मदः
[प्स्-ज्र्त् 101]
श्रीसेकन्दरदत्तैतद्देशाधीकारशालिना ।
मह्मदस्य पुरा शाखी तेनानाटि हि दुर्धिया ॥ ज्र्त्_ब्.827 ॥
वह्नेर् धूमविवर्धितश् शमयति ज्वालाभरं वारिदो वृक्षक्षोदभवो वनानि नयति क्षिप्रं कृशानुẖ क्षयम् ।
दाहं जन्मभुवो दिशेद् विषतरुर् वैरस्यदोषावहं द्रुह्यत्य् अत्युपकारिणे ऽपि नितरां लोभाभिभूतो जनः
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0