भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 584-603

584

विज्ञानज्ञापितो राज्ञा तच्छद्म स्वयम् एकदा ।
अकीर्तिश्रवणाद् भीतो महादेवो ऽजहाद् असून्

585

[प्स्-ज्र्त् 84]
धिक् तं वारिदम् अम्बु यो जलनिधेर् आप्याशुचिश्रीर् भवन् मित्रं साशम् उपद्रवत्य् अथ परिक्षीणस् स्खलत्य् अद्रिषु ।
पद्मस् स्तुत्यतमश् च यो विकसने सारै रसैर् औरसैः सम्प्रीय भ्रमरान् रसव्युदसने प्राणान् निजान् मुञ्चति ॥ ज्र्त्_ब्.725 ॥
शेषं विषभयेनेव काठिन्येनेव पर्वतान् ।
मदेनेव द्विपांस् त्यक्त्वा सुखं भूस् तद्भुजे ऽवसत् ॥ ज्र्त्_ब्.726 ॥
चित्रं च नालभट्टेन गुणिना मित्रबन्धुना ।
कुलपद्मेनापि राजवाल्लभ्याद् उच्चनालता ॥ ज्र्त्_ब्.727 ॥
लद्दराजो ऽगदङ्कारशङ्करो भट्टसूहकः ।
मन्त्रिणश् चान्तरङ्गाश् च सर्वदैवाभवन् प्रभोः

586

[प्स्-ज्र्त् 85]
अभिषेणयतस् तस्य कन्यारत्नौषधार्पणात् ।
मद्रेन्द्रो बिल्लदेवो ऽथ जातु यात्राम् अपीफलत् ॥ ज्र्त्_ब्.729 ॥
औचित्यात् साधुवादेषु प्रसक्तेन प्रभोḫ पुरः ।
सख्यं शङ्करवैद्येन निरवद्यं च बद्धवान् ॥ ज्र्त्_ब्.730 ॥
धृतामर्षस् सूहभट्टश् शङ्करप्रीतिवत्सरे ।
अपकारान् मद्रराजे चिन्तयन्न् आस्त सन्ततम् ॥ ज्र्त्_ब्.731 ॥
उदीचीनायको धाट्या यं पौरैस् सह नीतवान् ।
शिखकुक्कुरराजस्य पुत्रं मलेकजस्रतम् ॥ ज्र्त्_ब्.732 ॥
मृते ऽथोदक्पतौ जाते ऽत्युत्पिञ्जे मुक्ततां भजन् ।
स मद्रनायकद्वेषात् सूहभट्टार्थनाबलात् ॥ ज्र्त्_ब्.733 ॥
मद्रासन्नक्षितेस् स्वाम्यं कश्मीरेन्द्रेण लम्भितः ।
सचेतनं जयस्तम्भम् इव तं तत्र रोपयन् ।
व्यावर्ततारिलोकार्तिकर्ता स क्ष्माविकर्तनः ॥ ज्र्त्_ब्.734 ॥
मेरखानश् शाहिखानẖ खानो मह्मद इत्य् अपि ।
यैस् सञ्ज्ञा अभ्यभूषन्त गङ्गौघैर् विष्टपा इव

587

प्रत्यक्षा इव धर्मार्थकामाẖ काममनोरमाः ।
मेरदेव्यास् त्रयḫ पुत्रा राज्ञस् तस्योदपत्सत

588

कृत्रिमत्वान् निरस्तानां शोभादेव्यात्मजन्मनाम् ।
पुत्रं पिरुजनामानं न निरास्थत् पुरान् नृपः

589

अलकासदृशीं राजा मानसप्रतिबिम्बिताम् ।
पुरीं पुण्यजनाकीर्णां प्रद्युम्नाद्रितटे व्यधात्

590

[प्स्-ज्र्त् 87]
पूर्णानन्दा जयारिक्ता भद्रा विस्मयदायिनी ।
श्रीस् तस्यातिथिसम्पत्त्यै भूभुजो ऽभूद् दिवानिशम् ॥ ज्र्त्_ब्.739 ॥
राजावनाश्रयत्वेन प्रसिद्धस् स सदायतिः ।
लक्ष्मीम् अचुम्बिताम् अन्यैर् वताचुम्बद् द्विषां बलात् ॥ ज्र्त्_ब्.740 ॥
यवना नित्यतद्दत्तवित्तसम्पत्तिशालिनः ।
आहारव्यवहारादौ जितवन्तो महीपतिम् ॥ ज्र्त्_ब्.741 ॥
अयत्नप्राप्तवित्तानां यवनानां महीपतेः ।
वराटके च कोटौ च दृष्टिर् आसीत् समा तदा

591

कश्मीरमण्डले म्लेच्छदुराचारातिदूषिते ।
महिमा ब्राह्मणैर् मन्त्रैर् देवैश् च स्वस् समुज्झितः

592

प्रभावतेजो यैर् देवैस् सततं प्रकटीकृतम् ।
खद्योतैर् इव तैर् एव देशदोषाद् विनिह्नुतम्

593

प्रत्याहृते ततस् तेजोविशेषे त्रिदशैर् अभूत् ।
प्रतिमानां शिलाभावो मन्त्राणां वर्णमात्रता

594

[प्स्-ज्र्त् 89]
कलिस्पर्शभयात् त्यक्तुकामैस् स्वप्रतिमा ध्रुवम् ।
तद्ध्वंसे त्रिदशैर् म्लेच्छा धियम् आविश्य चोदिताः ॥ ज्र्त्_ब्.747 ॥
राजान्तरङ्गो यवनमतभक्तḫ प्रतारितः ।
यवनैस् सूहभट्टो ऽथ प्रतिमानां निराकृतौ ॥ ज्र्त्_ब्.748 ॥
पुण्यक्षयेन कर्तॄणां कलिदोषेण चोज्झिताः ।
गीर्वाणैḫ प्रतिमास् सर्वा निर्मोका भुजगैर् इव

595

रक्ते रागं शुचौ शौक्ल्यं मलिने मलिनां स्थितिम् ।
सङ्क्रान्ते सति गाहन्ते स्फटिकानीव भूभुजः

596

स्वयं ब्राह्मक्रियाद्वेषी म्लेच्छैश् च प्रतिबोधितः ।
सूहभट्टḫ प्रभुं जातु देवभङ्गार्थम् ऐरयत्

597

[प्स्-ज्र्त् 90]
"पाषाणान् देवसान्निध्यभ्रमेणैष जनो नमन् ।
त्वत्प्रणामविशुद्धं स्वशिरो दूषयति ध्रुवम् ॥ ज्र्त्_ब्.751 ॥
मायया कवलक्षोभसंसर्गान्धंभविष्णुषु ।
श्रद्दधीत च देवत्वम् ईश्वराद् इतरेषु कः ॥ ज्र्त्_ब्.752 ॥
मुखानि कमलानीव रज्जवो भुजगा इव ।
शुक्तयो रजतानीव स्थाणवḫ पुरुषा इव ॥ ज्र्त्_ब्.753 ॥
मायेन्द्रजालसन्दर्भप्रभवादिनयोदिताः ।
ये च केचिज् जडैर् देवा भ्रान्तिशक्त्या प्रकल्पिताः ॥ ज्र्त्_ब्.754 ॥
सन्निधापयितुं तान् कḫ प्रतिमासु क्षमो भवेत् ।
ग्रहीतुं मारुतं मुष्टौ सौष्ठवं कस्य दृश्यते ॥ ज्र्त्_ब्.755 ॥
ते च सन्निहिताẖ किं वा कुर्युẖ कर्म नियन्त्रिताः ।
शिल्पिभिẖ कल्प्यमानासु स्वतुल्यावयवास्व् अपि ॥ ज्र्त्_ब्.756 ॥
कलिकाले स्फुरत्य् अद्य तिष्ठेरंस् ते जना हि किम् ।
तेजस्तिमिरयोर् नास्ति साधारणपदस्थितिः" ॥ ज्र्त्_ब्.757 ॥
तेनेत्यादिकुतर्कोक्त्या दुरमात्येन पापिना ।
निरस्तो देवताभावḫ प्रतिमाभ्यो महीपतेः ॥ ज्र्त्_ब्.758 ॥
सुरासुराणां समरे सज्जानां सततं तदा ।
असुरैर् विजितं नूनम् अन्यथा कथम् अप्य् अयुः ॥ ज्र्त्_ब्.759 ॥
विध्वस्ताḫ प्रतिमास् सर्वा गीर्वाणानां शिला इव ।
न विघ्नो भञ्जकानां च प्राग्वद् दृष्टẖ कदाचन ॥ ज्र्त्_ब्.760 ॥
विहाय राजकार्याणि प्रजाभाग्यविपर्ययात् ।
देवानां प्रतिमाभङ्गे राजारज्यद् अहर्निशम्

598

पापिनां पापमूलो ऽभूद् भूभृताम् अनयद्रुमः ।
हर्षदेवतुरुष्को ऽभूद् यस्य प्राग् अङ्कुरायितः

599

पत्त्रायितो लवन्यानाम् उत्पिञ्जो दारुणो ऽभवत् ।
डलचो म्लेच्छराजो ऽभूद् यस्य पुष्पायितस् तथा

600

देवानां मूर्तिभङ्गेच्छा यस्यासीत् तस्य भूभुजः ।
म्लेच्छप्रेरणया नित्यं विप्लवस् स फलायितः

601

मार्ताण्डविजयेशानचक्रभृत्त्रिपुरेश्वराः ।
भग्ना येनास्य को विघ्नश् शेषभङ्गेन कथ्यते

602

सुरेश्वरीवराहादिप्रतिमाभङ्गकर्मणि ।
अकम्पत भियेवोर्वी नास्य सर्वङ्कषा तु धीः

603

न पुरं पत्तनं नापि न ग्रामो न च तद् वनम् ।
यत्र सूहतुरुष्केण सुरागारम् अशेष्यत

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc