भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 564-583

564

हस्तिद्वये समारूढे हिमाद्रिशिखरश्रियि ।
विन्ध्यवृद्धिभ्रमाद् विन्ध्यनियन्ता कोपम् आगमत्

565

मार्गे कोपम् अगातां तौ वितस्तातरणक्षणे ।
प्रतिबिम्बं निजं दृष्ट्वा प्रतिहस्तिभ्रमं गतौ

566

[प्स्-ज्र्त् 77]
दिदृक्षयैव करिणो राजधान्यां महीपतेः ।
नोच्चं शिरो ऽभवत् तस्य तत्तृप्त्या तिमिराद् अपि ॥ ज्र्त्_ब्.699 ॥
राजस्त्रीस्तनसौन्दर्यचौर्यकारिकटोत्कटौ ।
तौ गजौ भूमिपालेन वारीकारां प्रवेशितौ

567

वदन्येन नरेन्द्रेण सुवर्णपरिपूरिताः ।
नैवार्थिनḫ परं देशो निजो ऽपि प्रव्यधीयत

568

यथाकामार्पणप्रीतयाचकस्तुतिलज्जया ।
विनमन् सङ्कुचन् हस्तस् तस्य दानक्षणे ऽभवत्

569

दानं वर्णयितुं तस्य शक्यते नैव केनचित् ।
पाणिरूपम् अधḫ पद्मं यत्रोपरि जलं सदा

570

सदा दानाम्बुसेकाद् यन् न प्रारोहद् यवẖ करे ।
खड्गत्सरुविमर्दानां मन्ये तत्र निमित्तताम्

571

[प्स्-ज्र्त् 78]
अवाच्या सौभगश्लाघा श्रीसेकन्दरभूपतेः ।
त्यक्तापि यं स्वयं लक्ष्मीर् भूयो भूयस् समाश्रिता ॥ ज्र्त्_ब्.705 ॥
दानोद्यमपराद् राज्ञस् स्फुरन्मुखरुचḫ पुरः ।
कमला दानभीत्येव पद्माद् अपि पलायत ॥ ज्र्त्_ब्.706 ॥
आजीवम् एव तिष्ठन्ती निन्द्या श्रीस् तस्य तूत्तमा ।
सान्यजन्मस्व् अपि प्रत्ता यद् वाग्देवीव भाविनी ॥ ज्र्त्_ब्.707 ॥
प्रजापापविपाकेन ततो यवनदर्शने ।
बालस्येव मृदि क्षोणिपते रुचिर् अवर्धत

572

अनेके यवना दानप्रसिद्धं तम् अथाश्रयन् ।
विहायापरभूपालान् पुष्पाणीवालयो द्विपम्

573

दीप्तेन्दुर् इव ऋक्षाणां तेषां बालो ऽपि विद्यया ।
यवनानाम् अभूज् ज्येष्ठो मेरसैदमुहम्मदः

574

अनमद् भृत्यवच् छिक्षां शिष्यवन् नित्यम् अग्रहीत् ।
दासवच् च पुरो नीत्या राजा तत्र न्यविक्षत

575

मरुद्भिर् इव वृक्षाणां शालीनां शलभैर् इव ।
कश्मीरदेशाचाराणां ध्वंसो ऽथ यवनैẖ कृतः

576

स्वामिनो दानमानाभ्यां वैशद्यगुणवत्तया ।
कश्मीरान् अविशन् म्लेच्छास् सुक्षेत्रं शलभा इव

577

[प्स्-ज्र्त् 80]
विद्वान् अभ्यासबोधाभ्यां विद्याम् इव विशाम्पतिः ।
स लक्ष्मीं त्यागभोगाभ्याम् अशोभयद् अवीवृधत् ॥ ज्र्त्_ब्.714 ॥
उदभाण्डपुराधीशं दृप्तो जातु जयन् नृपः ।
श्रीमेरां तत्सुतां प्राप मूर्ताम् इव जयश्रियम्

578

अवातरच् छाहिकुले नूनं सा कापि देवता ।
योजयिष्यति तत्पुत्रẖ कश्मीरान् म्लेच्छनाशितान्

579

श्रीजैनोल्लाभदीनाख्यो मूर्तो धर्मẖ कलाव् अपि ।
राजापि योगिराजो ऽयं राजचूडामणेḫ प्रियः

580

[प्स्-ज्र्त् 82]
यवना गुरवो भृत्यास् सेवका वल्लभास् ततः ।
बान्धवाश् चाभवंस् तस्य काकाḫ पिकशिशोर् इव ॥ ज्र्त्_ब्.718 ॥
केनापि रससिद्धेन दत्तस्तोकरसो नृपम् ।
रससिद्धिं वदन् धूर्तो महादेवाभिधो ऽभ्यधात्

581

[प्स्-ज्र्त् 83]
सहस्रवेधिता तेन रसेनैव न साधिता ।
विस्मयेन रसेनापि काञ्चनश्रियम् ऋच्छता ॥ ज्र्त्_ब्.720 ॥
सदा राज्ञि महीभारोद्वहनाद् अनुरोधवान् ।
अदान् मेरुर् महादेवरूपेण द्रविणं बहु

582

रससिद्धप्रसादो ऽथ महादेवस्य हीनताम् ।
अगमन् न तु कश्मीरनिवासविषये मनाक्

583

रससिद्धिभ्रमार्थं स कृत्वा दृग्बन्धम् औषधैः ।
हेमेव मूषिकामध्ये चिरम् आसीत् किरन् किल

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc