भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 544-563

544

[प्स्-ज्र्त् 71]
शोभानाममहादेव्यास् सो ऽधिविन्नां महीं व्यधात् ।
प्रतापहेम राजा तु नाधिवेदनिकां ददौ ॥ ज्र्त्_ब्.670 ॥
श्रीशोभाया महादेव्याश् श्लाघ्या लक्ष्मीर् अभूत्तराम् ।
क्ष्मां हेमलिङ्गैर् द्यां पुण्यलिङ्गैर् या स्वैर् अमण्डयत्

545

"एतद्बन्धुघ्नम् एषो ऽपि मां हनिष्यति निश्चितम्" ।
इत्य् उद्दको राजपुत्रं विषेणाथ व्यपादयत्

546

"निजयैव कृपाण्याहं स्वं छिन्द्यां कण्ठम् एतया ।
यद्य् अहं त्वां निरुन्ध्यां वा हन्यां वे"त्य् अथ संविदा

547

विश्वास्य साहकं वीरम् उद्दको ऽथ व्यपादयत् ।
आसन्नविनिपातानां द्रोहा दूता हि दुर्धियाम्

548

यथा भ्रातुस् तथा स्वस्य वधं सम्भावयन् नृपः ।
प्रौढीभूतस् ततो वृद्धिं स्वं पक्षं किञ्चिद् आनयत्

549

भौट्टाञ् जित्वागतो दृप्तो ऽसहमानो ऽन्यवैभवम् ।
श्रीशोभाभ्रातरं खुञ्ज्याराजम् उद्दो ऽवधीत् ततः

550

आदिशन् सेवकं स्वं स द्वारोत्पिञ्जाय निम्मकम् ।
राज्ञो ऽपि प्रणयं त्यक्त्वा होलडाम् अगमन् मदात्

551

तच् छ्रुत्वा लद्दराजाद्या भूपतेर् अनुयायिनः ।
योद्धुं बद्धोद्यमाḫ पद्मपुरधन्वनि धन्विनः

552

प्रत्यासन्नविनाशानां प्रायो मतिमताम् अपि ।
पिशाचादिभ्रमो नूनं स्वच्छायास्व् अपि जायते

553

उद्दसैन्यैर् यतो योद्धुं वल्लामठम् उपागतैः ।
पारेवितस्तं महिषीष्व् अश्वभ्रान्त्या पलाय्यत

554

आवितस्तापुरं रात्रौ तम् अनुद्रुत्य भूपतिः ।
व्यावर्तताथ तं बद्ध्वा नगरोत्पिञ्जशङ्कया

555

[प्स्-ज्र्त् 73]
मनोविशालं गगनं पटहैस् तर्जयन्न् इव ।
स प्राविशत् पुरं राजा हर्षश् च हृदयं विशाम् ॥ ज्र्त्_ब्.682 ॥
तं वध्यम् अपि कारायां कारुण्यात् तु नृपो ऽक्षिपत् ।
उद्दकस् तु स विश्वस्तद्रोहपापमलीमसः

556

शङ्कमानो वधं भूपात् करुणाकोमलाद् अपि ।
निजयैव कृपाण्याथ स्वगलच्छेदम् आचरत्

557

[प्स्-ज्र्त् 74]
मदज्वरो ऽद्भुतḫ पालपशूनाम् एवम् अप्य् अभूत् ।
आश्रयन् स्तब्धतां येन तच्छिरांसि तदा चिरम् ॥ ज्र्त्_ब्.683 ॥
कदाचित् सह तैḫ पालकुञ्जैर् मदघूर्णितैः ।
पलङ्गम् आविशद् राजसिंहस् सन्नखरद्युतिः ॥ ज्र्त्_ब्.684 ॥
तत्र पालोत्तमाङ्गानि वपुश्चक्रान् महीपतिः ।
शरावान् इव सूत्रेण कुम्भकारो ऽसिनाच्छिनत् ॥ ज्र्त्_ब्.685 ॥
पत्त्रिराज इव व्यालान् सृगालान् इव केसरी ।
पालान् धरणिपालस् स कालान्तिकम् अथानयत्

558

राज्यं शौर्यं वयस् तेजो निर्नियन्त्रणता तथा ।
तदा तथाभवद् राज्ञḫ पञ्चाग्नितपसḫ फलम्

559

हन्त राज्ञां ततं दर्पतिमिरं खण्डयन् नृपः ।
यात्राम् असूत्रयच् चित्रं गोत्रभिद्भयदां ततः

560

[प्स्-ज्र्त् 75]
रूढं तत्सेवकक्षत्रच्छत्त्रशेषफणाशतैः ।
स व्यधाद् अम्बरारोहि रजो भूमण्डलान्तरम् ॥ ज्र्त्_ब्.691 ॥
विश्वं रञ्जयता तस्य प्रतापेन प्रथीयसा ।
राजस्त्रीनखलक्ष्मश्रीḫ पाण्डिमानम् अवापिता

561

तदैव दीनाभरणाम् अपालकतया युताम् ।
म्लेच्छराजो व्यधाड् ढिल्लीं विधवाम् इव लुण्ठयन्

562

ततḫ प्रत्याव्रजन् म्लेच्छराजẖ कश्मीरभूपतेः ।
शङ्कमानो गजेन्द्रौ द्वाव् उपायनम् अचीकरत्

563

हस्तिद्वयगलद्दानराजिव्याजात् स्वयं व्यधात् ।
देशसीमाविभागं स कश्मीराधिपतेẖ किल

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc