भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 524-543

524

विनष्टहस्तपादो ऽन्धो यथातिचकिताशयः ।
उदयश्रीक्षये राजपुत्रो ऽभूद् धस्सनस् तथा

525

[प्स्-ज्र्त् 64]
पक्षिशाव इव क्रूरकरकाभग्नपक्षतिः ।
पर्यन्तवृत्तिभिẖ क्रूरैर् हस्सनो ऽथ न्यरुध्यत ॥ ज्र्त्_ब्.633 ॥
प्रसादप्रीणितैḫ प्रायẖ खशराजैर् दुरात्मभिः ।
राजपुत्रो हस्सनस् स हन्तुं प्रत्यर्पितḫ प्रभोः

526

उत्पिञ्जे गलिते शत्रुवर्गे ऽप्य् आशाच्युते सति ।
मतिस् सतेजा लोकानाम् आलोकश्रियम् आययौ

527

वितस्तायां स्वनामाङ्का पुरी तेनाथ निर्मिता ।
उच्छ्रितैẖ कनकच्छत्त्रैर् द्याम् उद्धसति या श्रिया

528

प्रत्यब्दं जनम् आलक्ष्य दुर्भिक्षक्षयितायुषम् ।
मासि भाद्रपदे ऽकार्षीत् स सत्त्रं भूरिदक्षिणम्

529

साधुसूक्तिसुधास्नानात् कर्णाभ्यर्णतले कचैः ।
ध्रुवं धवलिम् आपेदे वार्धके चास्य भूपतेः

530

भूषणं निजवंशस्य पूषणं धरणेर् असौ ।
शत्रुश्रीदूषणं पुत्ररत्नं न च स लब्धवान्

531

[प्स्-ज्र्त् 65]
आयुर् वायुचलद्वीचिचञ्चलं कलयन्न् अथ ।
सर्वाग्रहारनिर्माणम् अकरोत् पुत्रलिप्सया ॥ ज्र्त्_ब्.640 ॥
योगिनो ब्रह्मनाथस्य कश्मीरान् आगतस्य सः ।
प्रसादेन महीपालस् सन्ततिं प्राप्तवांश् चिरात्

532

[प्स्-ज्र्त् 67]
"मया वैरिवरान् नीत्वा कारागारकुटुम्बिताम् ।
निवारितं विलोलत्वं नैसर्गिकम् अपि श्रियः ॥ ज्र्त्_ब्.642 ॥
यथापराधं दण्डेन हरता धर्मविप्लवम् ।
प्रजा अपक्षपातेन स्वप्रजा इव पालिताः ॥ ज्र्त्_ब्.643 ॥
नीताश् चिराय निर्मथ्य विपश्चिज्जनवारिधिम् ।
कियन्तो ऽपि मया स्वीयां मैत्रीं शास्त्रमणिप्रभाः ॥ ज्र्त्_ब्.644 ॥
इति मे कृतकृत्यस्य शोकशङ्कुर् अयं परम् ।
प्राज्यसाम्राज्यभारस्य वोढा नास्ति कुलाङ्कुरः" ॥ ज्र्त्_ब्.645 ॥
इति श्रुत्वा वचस् तस्य वंशच्छेदतमोमुषम् ।
दर्शयन् दशनज्योत्स्नां योगी तं प्रत्यभाषत ॥ ज्र्त्_ब्.646 ॥
"मा विषादं कृथा राजन् पुत्रानुत्पत्तिहेतुकम् ।
न हि किञ्चित् कदाचित् स्याद् दुरापं पुण्यशालिनाम् ॥ ज्र्त्_ब्.647 ॥
पुत्रोत्पत्तिनिमित्तं मे योगिनो ऽप्य् आनुषङ्गिकम् ।
किञ्चित् सञ्चितम् अस्त्य् एव तत् तवास्तूपकारकृत् ॥ ज्र्त्_ब्.648 ॥
गुणैस् समम् इमं मे च कश्मीरागमनोद्यमम् ।
फलयत्व् एव महिषी भुञ्जाना गुलिकाम् इमाम् ॥ ज्र्त्_ब्.649 ॥
कुलतन्तौ समुत्पन्ने त्रिलोकाभयलग्नके ।
नरोत्तमो जगत्त्राणचिन्तातानवम् अश्नुताम्" ॥ ज्र्त्_ब्.650 ॥
इत्य् ऊचुषो ऽथ योगीन्द्राद् आदाय गुलिकां नृपः ।
अभोजयत् स महिषीं चरुं दशरथो यथा ।
देवीम् अभोजयन् मूर्तां प्रसादपदवीम् इव ॥ ज्र्त्_ब्.651 ॥
अन्वयाभरणं देवी पितुर् आनन्दपारणम् ।
तमोहरणम् अर्यन्धङ्करणं सुषुवे सुतम्

533

शृङ्गारमङ्गलावासम् अवलोक्य वपुश् शिशोः ।
शृङ्गार इति नामास्य व्यधाद् भूलोकवासवः

534

हर्षाद् आदिशति क्ष्मापे बन्धमुक्तिं तदुत्सवे ।
अन्वभावि तदा चित्रं बन्धो नौसेतुभिḫ परम्

535

[प्स्-ज्र्त् 68]
यो मातुलसुतो देव्या भाण्डागारिक उद्दकः ।
तत्प्रियां सेवतां राजा निन्ये धात्रीषु मुख्यताम् ॥ ज्र्त्_ब्.655 ॥
अथ द्वितीयपुत्रं सा देवी हैबतसञ्ज्ञितम् ।
असूत कान्तिसन्तानतर्ज्यमानसुधाकरम्

536

[प्स्-ज्र्त् 69]
न कस्य वस्तुनो ऽलक्षि सुभिक्षश्रीḫ पदे पदे ।
तस्मिन् रक्षितरि क्षोणीम् अन्यत्रारिभयाज् जनैः ॥ ज्र्त्_ब्.657 ॥
धनुर् विनामितं तेन पश्यन्तो नैव कुत्रचित् ।
प्रणतिं वैरिणस् तस्य कस्माद् अप्य् अध्यगीषत ॥ ज्र्त्_ब्.658 ॥
दैवी नीतिर् अभूत् तस्मिन् पृथ्वीं पालयति प्रभौ ।
उत्पिञ्जखञ्जताख्यानं प्रत्युतास्य तिरस्क्रिया ॥ ज्र्त्_ब्.659 ॥
चन्द्रस्येव कलङ्को ऽभूद् अयं दोषो महीभुजः ।
कुलागतां महीं यत् स वास्तव्यानाम् अपाहरत्

537

[प्स्-ज्र्त् 70]
अकलङ्कस् स राजेन्दुर् विकसत्कुमुदाकरः ।
नाग्रामनाम्नि धाम्न्य् आपत् परधामविलीनताम् ॥ ज्र्त्_ब्.661 ॥
चिरभुक्तां भुवं मत्वा सो ऽस्पृश्यां भाविकिल्विषैः ।
जगाम त्रिदिवं राजा ध्रुवं भोक्तुं सुरस्त्रियः ॥ ज्र्त्_ब्.662 ॥
भाद्रे कृष्णद्वितीयायां पञ्चषष्ठे स वत्सरे ।
अस्तं जगाम राजेन्दुẖ कुद्भदेनमहीपतिः

538

21) सिकन्दर् šआह् बुत्šइकान् (ल्स् 4465-4489)
"राज्ञी शोकातुरा राजपुत्रौ बालाव्" इति प्रजाः ।
अभूवंश् चकितास् सर्वा विनाथवद् अथाधिकम्

539

देव्या वाष्पजले शोकवर्षजाते पृथौ सति ।
परस्परम् अमात्यानां मात्स्ये न्याये ऽभवद् रुचिः

540

"अलं शोकनिवेशेन धैर्यम् अत्रोचितं यतः ।
रुन्धते मलिनात्मानẖ क्ष्माम् अशूराम् अराजकाम्"

541

इति प्रबोध्य सुभटां देवीम् उद्दकसाहकौ ।
ज्येष्ठं सेकन्दरं पुत्रं महाराज्ये ऽभ्यषिञ्चताम्

542

राज्ञ्या मतेनोद्दको ऽथ साहपुत्रं मुहम्मदम् ।
स्वजामातरम् अप्य् एष सजानिम् अदहच् छलात्

543

सूक्ष्मान् अत्ति तिमिर् महान् स्वकुलजान् अन्धाद् अजानन् वधं स्वाम् अम्बाम् अपि मक्षिका वत मधुग्राहाद् भविष्यद्वधा ।
लक्ष्मीलोभभरेण मोहितधियẖ कल्पान् अनल्पान् स्थितिं जानन्तो ऽपि जडा न किं कुचरितं कुर्वन्ति हा हन्त हा

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc