राजतरङ्गिनी · श्लोक 504-523
"मद्बुद्ध्या विक्रमस् तस्य हन्यताम्" इति नोज्ज्वलम् ।
बुद्धिमान् उदयश्रीस् तं स्वामिभक्त्या हि रक्षति
आद्ये दर्पोदयḫ पक्षे दोषोद्रेकḫ परे यतः ।
नानुग्राह्यो न चोत्सृज्यस् तव राजेन्द्र हस्सनः
न वैवम्प्रायतावृत्तिं तेजस्वी स क्षमिष्यते ।
यस्मिन् दहति नाम्भोधिं स क्षणो वाडवस्य कः
अतस् तस्य निरोधेन निरुत्पिञ्जसुखाḫ प्रजाः ।
कुण्ठयन्तुतरां पूर्वभूपालोत्कण्ठितां चिरम्"
प्रविष्टैर् इति दुर्वाप्या निर्गताद्भिर् इव ह्रदः ।
वैरस्यम् अभजद् राजा खलवाक्यैस् स हस्सने
पश्यञ् शृण्वन्न् अनुभवंस् तस्याप्य् उत्सेकविक्रियाम् ।
"भ्रातुḫ पुत्र" इति स्नेहान् न तं राजा न्यरोधयत्
उदयश्रीर् अथालक्ष्य विरक्तं हस्सने नृपम् ।
लोलडामरभार्यां तद्धात्रीं समदिशत् ततः
"स्वामिरागम् इवारूढो नाकं डामरलोलकः ।
अहारयद् यशो न स्वं कुस्वामिमुखवीक्षणैः
अस्माद् दुर्मनसो राज्ञो विभवाशास्तु दूरतः ।
वर्धितस्य त्वया प्राणसंशयो हस्सनस्य तु
[प्स्-ज्र्त् 57]
अतḫ प्रलोभ्य राजेत्थं त्वयानेयो निजान् गृहान् ।
योग्यं स्थानान्तरं नास्मद्विपन्निर्यातनाविधौ ॥ ज्र्त्_ब्.598 ॥
तस्मात् त्वया निजार्थानां ग्रहणार्थं महीपतिः ।
प्रार्थनीयो यथाभ्येति त्वद्गृहान् एष लुब्धधीः
[प्स्-ज्र्त् 58]
"विश्वस्तायाẖ किम् अर्थैर् मे धर्मकामार्थहेतुभिः ।
राज्ञो ऽर्पयामि तान् सर्वान् यदि मे स्याद् अनुग्रहः ॥ ज्र्त्_ब्.600 ॥
अतस् स्वकीर्तये पूर्तसम्मानस्फूर्तये ऽस्तु मे ।
यत् तु त्वच्चरणस्पर्शदर्शितानुग्रहं गृहम् ॥ ज्र्त्_ब्.601 ॥
प्रत्याहृत्य स्वयं स्वीयम् ओषधेर् इव सद्वसु ।
आशाḫ प्रकाशयत्व् अर्थपतिर् भास्वान् इवाभितः ॥ ज्र्त्_ब्.602 ॥
वदन्येन त्वयापेक्ष्यं न तु स्त्रीधनम् इत्य् अतः ।
रसाया रसम् आदत्ते लोकाप्यायाय भास्करः ॥ ज्र्त्_ब्.603 ॥
अनेन वसुना राज्ञḫ फलतु प्रार्थनार्थिनाम् ।
सरितां वारि गृह्णानो मेघांस् तर्पयते ऽम्बुधिः ॥ ज्र्त्_ब्.604 ॥
निधीन् अहिभिर् आवेष्ट्य गोपयन्ती मया मही ।
उपहास्येत नाथेन मद्द्रव्ये दृष्टिकारिणा" ॥ ज्र्त्_ब्.605 ॥
तत्रागतं महीपालं हनिष्यामो वयं बलात् ।
बध्नीमो वा ततो राजपुत्रो वृद्धिम् उपैष्यति" 4
[प्स्-ज्र्त् 58]
"तथे"ति प्रतिसन्दिश्य सा पुंवद् धैर्यशालिनी ।
तद्बुद्धिपरितोषार्थम् एवं सन्देशम् आक्षिपत् ॥ ज्र्त्_ब्.606 ॥
"एकाकी दीर्घधीकृद् यẖ किम् उद्यच्छेत साहसे ।
कदाचिन् नोच्चरत्य् एव करेणैकेन तालिका ॥ ज्र्त्_ब्.607 ॥
सामर्षस् सावलेपत्वात् कम्पनाधिपतिस् त्वया ।
साहाय्यकार्थम् अभ्यर्थ्यस् सिद्धे कार्ये धृतौजसा ॥ ज्र्त्_ब्.608 ॥
भवतैव विधार्येयं निराधारत्वनिष्फला ।
वाताहताश्रया द्राक्षावल्लीवान्येन भूरुहा" ॥ ज्र्त्_ब्.609 ॥
उदयश्रीर् इति श्रुत्वा वाचिकं मतिमान् अपि ।
तथैवायाचत् साहाय्यं कम्पनेश्वरलक्ष्मकम् ॥ ज्र्त्_ब्.610 ॥
हस्सनस्य जनन्यास् स लक्ष्म्या ध्यायन्न् अपक्रियाः ।
तस्मिन् प्रत्यपकारेच्छुस् तद् राज्ञे विन्यवेदयत् ॥ ज्र्त्_ब्.611 ॥
मन्त्रिभिर् विवृतस् सो ऽथ गुणवत्सलमत्सरैः ।
अबोध्य् उदयभद्रस्य दुर्नयं तं नराधिपः ॥ ज्र्त्_ब्.612 ॥
मन्त्रिणं स्तन्यम् आप्याय स्वकीयम् अभयाय तम् ।
राज्ञी राज्ञो ऽस्य सुडाख्या पुत्रीयां चक्रुषी स्वयम् ॥ ज्र्त्_ब्.613 ॥
स पूर्वस्वामिसम्मानव्यृणमार्गोपलब्धये ।
हस्सनाभ्युदयाङ्गानि प्राणान् अपि त्व् अजीगणत् ॥ ज्र्त्_ब्.614 ॥
अथ दैवाद् गते तस्मिन् मन्त्रे भेदं महीपतेः ।
उदयश्रीस् ततो भीतḫ पलाययत हस्सनम्
आत्मनो वधबन्धे वा मोचयन्न् अपराञ् जनान् ।
रसेन्द्र इव लोके ऽस्मिञ् श्लाघनीयत्वम् अश्नुते
कर्मण्य् अभीक्ष्णतीक्ष्णे ऽपि तथा लक्षितम् उद्यतम् ।
क्षमाशीलẖ क्षमापालो नातक्ष्णोद् उदयश्रियम्
गुणैस् संवृत्य रन्ध्राणि शुचितां शीलयन् बहिः ।
बिसवत् कालम् अनयत् पङ्कवत्सु जलेषु च
[प्स्-ज्र्त् 59]
बुद्धेलस्वामिनẖ कन्यारत्नं स्वीकृत्य हस्सनः ।
अविशल् लोहरं तावन् निरगाच् च दिशां भयम् ॥ ज्र्त्_ब्.620 ॥
कश्मीराम्बरबद्धस्य घनस्येवोदयश्रियः ।
धीवृष्ट्या पुष्टिम् अभ्यायात् केदार इव हस्सनः ॥ ज्र्त्_ब्.621 ॥
युक्त्या मन्त्रान् घ्नताथान्तर् आधिनेवोदयश्रिया ।
व्याधिनेव बहिर् भूपो हस्सनेनाभ्यभूयत ॥ ज्र्त्_ब्.622 ॥
"तावद् वमति यस् तोयं दूरात् स्पृष्टो हिमांशुना ।
किंस्विन् नैव तदाश्लिष्टश् शशिग्रावा स्रवेद्" इति
उदयश्रीर् गन्तुकामो राजपुत्रान्तिकं ततः ।
उदयश्रीश् श्रुतद्रोहो राज्ञा कारां निवेशितः
[प्स्-ज्र्त् 60]
मडवासरणिं वक्रां सिद्धिहेतुं विदन् रहः ।
श्वशुरं वर्णितस्वीयरहस्यं मडवापतिम् ॥ ज्र्त्_ब्.625 ॥
गङ्गराजम् अथायाचत् तन्मार्गेण विनिर्गमम् ।
अन्ते नश्यति धीḫ पुंसस् सहस्रांशोर् इव द्युतिः ॥ ज्र्त्_ब्.626 ॥
न यद्य् उद्भेदयेत् कन्दकोटिं शृङ्गाटम् उन्नताम् ।
कस् तस्यान्तर्निमग्नस्य ज्ञातुं शक्तो भवेत् स्थितिम् ॥ ज्र्त्_ब्.627 ॥
स्वनाशशङ्कया गङ्गराजे तद्द्रोहवर्णिनि ।
इद्धतेजा नृपẖ क्रुद्धो रुणद्धि स्मोदयश्रियम् ॥ ज्र्त्_ब्.628 ॥
परीक्षितुम् इवोद्युक्तैर् गुरोस् तस्य च शेमुषीम् ।
सुरैर् इवार्थितो राजा क्रोधाद् व्यापादयत् स तम्
मथ्नन् पद्मं गजो भञ्जन् मरुच् चन्दनपादपम् ।
निघ्नन् पुरुषरत्नं च राजा निन्द्यो जगत्त्रये
यशḫ पुरुषपुष्पाणां भुवनोद्यानवर्तिनाम् ।
सौरभातिशयं श्लाघ्यं विचिनोति मनोहरम्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0