भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 484-503

484

प्रवासागमनाभ्यां त्वं स्वपितुḫ पालिताज्ञया ।
श्रीराम इव भूलोकं यशोभिस् स्वम् अपूपुरः

485

भूतो भावी च सम्मानो यद्य् अपि स्वगुणैस् तव ।
यौवराज्यग्रहाद् भारं लघूकुर्यास् तथापि मे

486

स्वधैर्यं सभ्यसंयोगो नानाबन्धुसमागमः ।
तव रक्षाधिकारश् च दौर्मनस्यं विलुम्पते

487

यशसेव प्रमीतानां परदेशनिवासिनाम् ।
महतां न हि जातु स्याद् विभवेन सुखोद्गमः

488

स्वरूपप्रतिबिम्बेन भवता स्वर्गवासिनः ।
तदुत्कण्ठाभरो ऽस्माकं दर्शनेन निवार्यताम्

489

"पुत्रश् शाहाबदेनस्य सो ऽयम्" इत्य् अन्यमण्डले ।
अङ्गुलीमुखनिर्देशḫ प्राकृतस्येव मास्तु ते

490

राज्ञां मदनुकम्प्यानां मुखप्रेक्षी भवन् भवान् ।
कश्मीरैश्वर्यम् अतुलं मा नैषीर् अल्पकं स्वयम्

491

विभज्य भवति क्षोणीभारं मेरुगिराव् इव ।
सुखं सम्पत्तिम् अतुलाम् अनन्तद्युतिर् आप्नुयाम्

492

[प्स्-ज्र्त् 52]
कीर्तिं सुरवधूगीतां पात्रे श्रीप्रतिपादनात् ।
स कर्णपूरयन् राजा मादृत स्वर्गमालतीः ॥ ज्र्त्_ब्.572 ॥
प्रिययोर् आवयोस् स्नेहश्रुतिसौख्येन शीतलैः ।
निश्श्वासैर् भूपतेस् स्वीयैस् स्याद् अस्पृह्यं च चामरम् ॥ ज्र्त्_ब्.573 ॥
येन मानेन माम् अन्वग्रहीत् स वसुधाधिपः ।
त्वं सञ्चरस्व तेनैव मयि पालयति प्रजाः

493

[प्स्-ज्र्त् 53]
त्राता द्यौश् शक्रराजभ्याम् आवाभ्यां च समं मही ।
शेषैकनाथां पाताललक्ष्मीं हसतु निस्सुखाम् ॥ ज्र्त्_ब्.575 ॥
उदयश्रीमुखामात्यमतानुष्ठानशालिनीम् ।
ममार्थनानिषेधेन लक्ष्मीं मैव वृथा कृथाः"

494

अजानंल् लोलकर्णत्वं राजेन्द्रकरिणाम् अथ ।
पन्थानं लेखवाची स काश्मीराणाम् अगाहत

495

पवनैस् सम्मुखायातैर् झाङ्काररवधारिभिः ।
न्यवार्यतेव कश्मीरप्रवेशाद् राजनन्दनः

496

स विशन्न् अथ काश्मीरसरणीम् उदजिज्वलत् ।
अमलीमसयद् राज्ञश् श्रुतिं तु खलचोदना

497

नक्रास् समुद्रम् इव केचिद् उदेतुकामा वाता लतान्तम् इव केचन दर्पवृत्त्या ।
दुर्मत्रिणो भुवनकाननचक्रवालहव्याशना नरपतिं प्रविलोलयन्ति

498

अथ प्रविष्टे कश्मीरान् हस्सने राजनन्दने ।
कुद्भदेनमहीपालḫ पिशुनैर् इत्य् अकथ्यत

499

"सर्वासाम् एव बुद्धीनाम् उपरीश्वरबुद्धयः ।
तथापि सचिवैर् वाच्यो हिताहितविनिर्णयः

500

पुरन्दरादिलोकेशतेजोऽंशाश्रयशालिनाम् ।
स्ववंश्येभ्यो महीन्द्राणां अन्तरायो विलोक्यते

501

स्पर्शनाशितया ख्याताद् भ्रातृरूपाद् विजिह्मगात् ।
कृष्णसर्पाद् इवाश्लिष्टात् कष्टं दूरे न कस्यचित्

502

विभवैस् तर्प्यमाणो ऽयं न च स्वीभविता तव ।
स्नेहेन सिच्यमानो ऽग्निश् शीतलत्वं किम् ऋच्छति

503

[प्स्-ज्र्त् 55]
वरं हालाहलो घोरो न दुरात्मा च दुर्जनः ।
तस्य पानाद् गलत्य् एकḫ परस्य त्व् अखिलं कुलम् ॥ ज्र्त्_ब्.586 ॥
दैवाद् दूरतरं सर्पं प्रसर्पद्विषधारिणम् ।
विना दैवकृतं को नु निधौ स्थापयति स्वयम् ॥ ज्र्त्_ब्.587 ॥
न चिन्त्यं "स्वयम् एकाकी राज्ञो मे किं करिष्यति" ।
हरेḫ पुरस् सयूथो ऽपि कतमो वारणेश्वरः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc