राजतरङ्गिनी · श्लोक 464-483
20) qउट्ब्-अद्-दीन् (ल्स् 4449-4465)
[प्स्-ज्र्त् 44]
मत्वेव भूजयाद् भूयḫ पुनरुक्तापवादताम् ।
शाहाभदीने निर्जेतुं द्याम् इव प्रस्थिते सति ॥ ज्र्त्_ब्.538 ॥
कुद्भदेननरेन्द्रो ऽथ मौलाव् आज्ञां महीभुजाम् ।
चित्ते सुखं मुखे हर्षं स्तुतिं वाचि न्यधात् ततः
[प्स्-ज्र्त् 46]
तस्य प्रतापकमला सगर्वपदवीम् अगात् ।
जयव्यसनिपूर्वेशविरहार्तेव भूपतेः ॥ ज्र्त्_ब्.540 ॥
तद्वियोगासहा देशदेवी जयम् अधात् स्वयम् । ज्र्त्_ब्.541अब् ।
नातितीव्रो न वा मन्दस् सर्वस्यैव महीपतिः ।
चित्तम् आदित लोकस्य वैषुवो भानुमान् इव
[प्स्-ज्र्त् 47]
अह्नायापह्नुतं युद्धे तद्धनुḫप्रतिकूजितम् ।
शोचद्वैरिवधूवर्गक्रन्दितैर् मत्सराद् इव ॥ ज्र्त्_ब्.542 ॥
दिङ्मुखे चन्दनालेपẖ कीर्तिर् अम्बरचन्द्रिका ।
धरणीरमणस्यास्य द्विषाम् आम्लापयन् मुखम् ॥ ज्र्त्_ब्.543 ॥
क्षेम लक्ष्मीं प्रजाẖ क्षोणीपाले तन्वति तन्वति ।
भूमाव् एव स्थिता नाकभोगसौख्यम् अभुञ्जत ॥ ज्र्त्_ब्.544 ॥
लोहरप्रत्यवेक्षार्थं यान् न्यधात् पूर्वभूपतिः ।
लोहराधिपतेर् भीत्या ते पलाय्य गतास् ततः
शाम्यन्त्य् ओषधयस् सर्वाश् शशिन्य् अस्तं गते सति ।
दृष्टो हि सूर्यकान्तानां रवौ याति द्युतिक्षयः
लोहरं प्रतिसन्धातुं कुद्भदेनमहीपतिः ।
शौर्यशालिनम् आदिक्षत् पुरो डामरलोलकम्
अवेष्टयत् ततो गत्वा लोहराद्रिं स सर्वतः ।
प्राणा हि स्वामिभक्तानां तृणायन्ते महात्मनाम्
असामर्थ्यान् निजं दुर्गं दुर्गेन्द्रो ऽर्पयितुं ततः ।
ब्राह्मणान् व्यसृजद् दूताण् डामराधिपतिं प्रति
द्विजलिङ्गान् स तान् मत्वा सारं द्रष्टुम् उपागतान् ।
न्यग्रहीद् विग्रहाद् उग्राद् द्विजान् अव्यग्रमानसः
द्विजदैवतम् अप्य् एतं श्रुत्वा तदपकारिणम् ।
लोहरेन्द्रेण कोट्टाशां जीवाशां च विसृष्टवान्
पश्यन्तो मरणं स्वस्य युद्धे वाथ पलायने ।
क्षत्रियाणां निजं धर्मम् अग्रहीषुस् ततो रणम्
शिलासारशिलावर्षैर् दुर्दर्शा दुर्घना इव ।
लोहराद्रेर् अवारोहन्न् आरोहंस् तु यशांसि ते
[प्स्-ज्र्त् 49]
स्वं खण्डीकृत्य शैलेन विभक्तं स्वामिभक्तितः ।
प्रत्येकं शत्रवस् तेषु शिलावर्षिष्व् अमंसत ॥ ज्र्त्_ब्.554 ॥
विप्रकीर्णैस् स पाषाणैर् लोलो डामरनायकः ।
अन्तर्हितस् समं कीर्त्या भावि को नाम लङ्घति
शत्रुकीर्णशिलाराशिच्छन्नो डामरलोलकः ।
यवनप्रेतसंस्कारान् न विपद्य् अप्य् अहीयत
शाहाबदेनभूपालो निर्वास्यापि सुतान् निजान् ।
आकारयत् स्वयं लेखैर् निजवर्णपरिष्कृतैः
गुणैश् च वयसा तेषां ज्येष्ठो माहेन्द्रमण्डलम् ।
हस्सनो राजपुत्रस् स प्राप तावद् अनङ्कुशम्
स नेत्रशुक्तिमुक्ताभिर् मुक्ताभिर् वाष्पवीचिभिः ।
श्रुत्वा तत्र पितुर् मृत्युं निवापाञ्जलिम् आर्पयत्
व्यावृत्य गमनेच्छायास् स्वच्छाशयम् अमुं ततः ।
न्यवारयत् पितृव्यस्य लेखẖ कश्मीरभूपतेः
"शक्रादिसौख्यलोभेन भृत्यान् अस्मान् उपेक्ष्य सः ।
समस्कुरुत शाहाबादीनभूमिपतिर् दिवम्
स्वस्स्त्रीभोगरसेनेव गमनाय त्वरावतः ।
तस्यास्माभिर् भवत्कार्यम् अशेषं निरपद्यत
क्ष्मारक्षालक्षणाम् आज्ञां विचक्षणशिरोमणेः ।
तन्मन्त्रमालितां मौलिमूले मालां विदध्महे
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0