भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 444-463

444

[प्स्-ज्र्त् 39]
"औदार्यशालिना राज्ञा स्वसमं वर्धितस् स्वयम् ।
राजाधिकं व्यवाहार्षीत् तदा मदनलाविकः ॥ ज्र्त्_ब्.511 ॥
तुल्यार्थस् समसामर्थ्यश् शङ्क्यो ऽयम्" इति भूपतिः ।
ईर्ष्यालुभिẖ कुसचिवैस् तस्मै परम् अकोप्यत ॥ ज्र्त्_ब्.512 ॥
शुचिम् अप्य् अशुचिं मत्वा तं वीतिं भूमिपालधीः ।
खलनाशावृतत्वेन न चित्तविरताभवत् ॥ ज्र्त्_ब्.513 ॥
उपप्लावयितुं वाञ्छंस् तं मुहुẖ क्रोधवेगतः ।
राजरत्नाकरो ऽरोधि तदीयगुणवेलया ॥ ज्र्त्_ब्.514 ॥
राजा जातत्वरां यात्रां व्यसनेनाभिषेणयन् ।
नौसेतुकौतुकं सिन्धोḫ परिखाया इवाहरत्

445

शूरẖ खड्गनगर्यां स पर्यटन् मृगयारसात् ।
सिंहम् अभ्यद्रवद् राजा सिंहसंहतसाहसः

446

गच्छंश् चित्ताधिकं राजा वाजिना वेगराजिना ।
अन्वगाम्य् अतिभक्तेन मदनेनैव केवलम्

447

[प्स्-ज्र्त् 40]
आरूढḫ पौरुषं राजा सो ऽवरूढस् तुरङ्गमात् ।
यमेनेव व्यधाद् युद्धं हरिणा क्रौर्यधारिणा ॥ ज्र्त्_ब्.518 ॥
एकाकिनं चिरं बद्धयुद्धम् उद्धतकेसरः ।
तम् अधẖ कृतवान् राजसिंहं सिंहो ऽतिसाहसम्

448

उत्प्लुत्य वाजिनस् तूर्णं शूरो मदनलाविकः ।
निपातितनृपं सिंहं कृपाण्या सहसावधीत्

449

प्राणरक्षोपकारेण प्रसन्नḫ पिशुनाज् जनात् ।
युक्त्या मारणम् एतस्य शङ्कमानो नरेश्वरः

450

स विवाहच्छलाद् दत्त्वा द्रविणं करुणामयः ।
मदनं व्यसृजड् ढिल्लीपतेर् निकटम् अञ्जसा

451

उत्पन्नचण्पकं दीप्त्या कुर्वतीं व्योम जातुचित् ।
स्वप्ने शर्करसूहाख्यो दृष्टवान् काञ्चनीं पुरीम्

452

वेश्म वेश्म विशंस् तत्र शून्यं पश्यन्न् अयं ततः ।
राजधान्यां स्त्रियं काञ्चिद् अपश्यत् कान्तिदन्तुराम्

453

अपृच्छच् च "त्वम् एकैव हन्तेयति महापुरे ।
व्योम्नीव शशिलेखा किं चित्रं तिष्ठसि निर्भया

454

कस्येयं नगरी कस्माच् छून्या सर्वत्र वर्तते ।
अत्रेदं पतितं कस्य वर्तते च कलेवरम्"

455

सा तं जगाद "गन्धर्वराजस्यासौ महापुरी ।
सुन्दरी पतिहीनेव विधुहीनेव शर्वरी

456

स चामात्यैस् समं सर्वैḫ पातुं कश्मीरमेदिनीम् ।
अवतीर्णḫ परिस्थाप्य निजम् अत्र कलेवरम्

457

शाहाबदेन इति यḫ प्रथितो ऽस्ति जगत्त्रये ।
तत्कलेवररक्षार्थम् अत्र तिष्ठामि केवला

458

स च निष्पादिताशेषकार्यो मासत्रयान्तरे ।
स्वाम् इमां नगरीम् एव ध्रुवं रक्षितुम् एष्यति"

459

प्रबुद्धो ऽभ्यधिकाश्चर्यशोकचिन्तारसान्तरे ।
मज्जन्न् अवर्णयद् राज्ञे स्वप्नवृत्तिम् अखण्डिताम्

460

"असत्ये किं भयं स्वप्ने सत्ये त्व् ऐश्वर्यम् एव मे" ।
इत्थं तद् विमृशन् राजा न तथा पस्पृशे शुचा

461

"मदन्तिकम् उपागम्यम्" इति भूमिपतिस् ततः ।
दूरस्थितानां पुत्राणां सद्यो लेखान् विसृष्टवान्

462

ततो मुमूर्षुर् भूपालो हिन्दुकानां निजे पदे ।
अप्राप्ततनयो धीमान् अभ्यषिञ्चत् स्वयं ततः

463

[प्स्-ज्र्त् 43]
तं भक्तं नेश्वरो ऽनैषीत् सदेहं यत् सधर्मताम् ।
तत्र हेतुर् ध्रुवं तस्मिन् सौभाग्यान् मदनभ्रमः ॥ ज्र्त्_ब्.534 ॥
शौर्यौदार्यविधौ विधौतविविधश्लोके नृलोकेश्वरे तस्मिन्न् अस्तम् उपागते गुणिगणत्राणोच्चरन्नैपुणे ।
शक्रेणोन्नमितं शिरḫ परिभवत्रासापसाराद् ध्रुवं भूभारोद्वहनात् पुनर् विनमितं शेषेण शोकस्पृशा ॥ ज्र्त्_ब्.535 ॥
प्रत्यक्षं ज्वलतḫ प्रतापशिखिनस् स्वीकृत्य यां भुक्तवान् नान्यान् आद्रियताधिकं स्पृहयतस् तद्रागबन्धाच् च या ।
तां भूमिं प्रविहाय हायम् अगमद् द्यां शक्रभुक्तां चिरं पुंसां स्त्रीषु कदापि न प्रभवति प्रेमग्रहप्रत्ययः ॥ ज्र्त्_ब्.536 ॥
ज्यैष्ठशुक्लचतुर्दश्यां तानाङ्के ऽब्दे महीपतिः ।
आलिङ्ग्य नाकवनितास् स्तनौन्नत्यम् अपीफलत्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc