भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 424-443

424

"न चेद् विकासयेद् भास्वान् पद्मिनीं स्वरुचा स्फुटम् ।
तस्याश् छेदाय शैवालवल्ल्या इव यतेत कः

425

पतन्तीं प्रेमभारार्द्रां मयि दृष्टिं तवासहा ।
मां निहन्तुम् उपायेन कुरुते महिषी तव

426

अभिचारे दुराचारम् उपचारप्रियङ्करम् ।
सा चाराक्षी मयि द्वेषाद् उदयश्रियम् ऐरयत्"

427

"देवादेशपरे तस्मिन्न् अभिचारविनिर्मितिः ।
असम्भाव्ये"ति तां राजा प्रत्युवाच विचक्षणः

428

निर्बन्धेनोपजल्पन्तीं तद् एव वचनं ततः ।
तां प्रत्याययितुं देवीम् उदयश्रियम् अब्रवीत्

429

"व्ययित्वातिशयेनाहो कोशो रिक्तत्वम् आगतः ।
प्रार्थयन्ते जना राज्ञस् सर्वं कल्पतरून् इव

430

द्रविणोत्पत्तये तस्माद् उपायḫ प्रतिभात्य् अयम् ।
प्रतिमा श्रीजयेश्वर्या यास्ति रीतिमयी पृथुः

431

तां खण्डयित्वा विहतैष् टङ्कैर् मन्नामचिह्नितैः ।
व्ययनिर्वहणं कीर्तिस्थिरत्वं चोपजायते"

432

"साध्व् एतत् किं तु तन्मूर्तिर् लघ्वी किं प्रभविष्यति ।
बृहद्बुद्धेन मुद्रास्तु" क्षुद्रस् तं सचिवो ऽभ्यधात्

433

[प्स्-ज्र्त् 37]
पुंनागव्रजम् उन्मुमूलयिषति प्रायẖ कराकर्षणैर् उद्दामं विजिहीर्षति प्रतिपदं कक्ष्याछिदां काङ्क्षति ।
कां नैच्छन् नृपगन्धसिन्धुरपतिस् तीव्रां न वप्रक्रियां तीक्ष्णाग्रप्रतिभाङ्कुशो ऽस्य निकटे मन्त्री नियन्ता पुनः ॥ ज्र्त्_ब्.499 ॥
मुद्रोपकरणं सज्जीकृत्यान्येद्युर् उपागतम् ।
राज्ञीं प्रत्याय्य भूपालो रहो मन्त्रिणम् अब्रवीत्

434

"याḫ पूर्वैर् निरमीयन्त यशस्सुकृतलब्धये ।
अङ्गीकर्तासि ता देवप्रतिमा भङ्क्तुम् अञ्जसा

435

अमरप्रतिमा विधाय केचित् परिपूज्याथ परे प्रसिद्धिम् आप्ताः ।
परिपाल्य यथोचितं तथान्ये विदलय्याहम् अहो महद् दुरन्तम्

436

निर्माणाज् जलधेस् कृतेश् च सरितां कौमारशोकावधिḫ प्रख्यातस् सगरो भगीरथनृपो गङ्गावताराच् च सः ।
दुष्यन्तस् स च विश्वविश्वविजयाज् जिष्णोर् भयान्य् आवहन् रामो हन्त दशाननेन विहितात् सीतापहारात् पुनः

437

राजा शाहाभदीनाख्यस् सुरमूर्तीर् अलोठयत् ।
मा दुर्वार्त्तेयम् अत्युग्रा चकम्पद् भाविनो जनान्"

438

उदयश्रीर् नतशिरा राज्ञीत्य् उक्तवति स्वयम् ।
महीरन्ध्रम् इवैक्षिष्ट द्राग् अधोगतिवाञ्छया

439

[प्स्-ज्र्त् 38]
सर्वंसहा तदा क्ष्माभूद् अन्वर्था प्राग्वद् एव यत् ।
लासानुरक्तम् अपि तं सा राजानम् असेवत ॥ ज्र्त्_ब्.505 ॥
भास्करो द्युपरीरम्भरसासादितकौतुकः ।
स्वपुत्रशनिमुख्यानां ग्रहाणां हानिम् इच्छति

440

रागी तद्दोषवादिन्या तया देव्या प्रबोधितः ।
व्यवासयत् स्वदेशात् स राजपुत्रान् परान् इव

441

कार्येष्व् अतिमनुष्येषु साहायकविधायिभिः ।
योगिनीपुरनाथस्य तैर् व्यक्तो विक्रमẖ कृतः

442

औदार्याद् दत्तवृत्तीन् स हिन्दुकान् एव बोधितः ।
म्लेच्छान् सेकन्दरमुखान् राजद्रोहकृतो ऽवधीत्

443

पिशुनैर् जनिताशङ्कश् शूरो मदनलाविकः ।
राजा विप्लवसज्जो ऽपि सेनयास्य निवारितः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc