भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 403-423

403

देवशर्मान्वयोदन्वच्चन्द्रो राज्ञार्पितं मुहुः ।
वैराग्याद् विभवं त्यक्त्वा कोटशर्मा वनं ययौ

404

[प्स्-ज्र्त् 33]
श्रीवृष्ट्या कोटभट्टो ऽर्थिसार्थान् सम्पोष्य यत्नतः ।
व्यलालयद् वनव्योम्नि स स्वं नियममारुतैः ॥ ज्र्त्_ब्.462 ॥
कोटशर्मा तथा धर्मद्रुमं दानाम्भसासिचत् ।
ननाशाशामयो भूयो यथा तत्फलभोगिनः ॥ ज्र्त्_ब्.463 ॥
तस्य दर्शयितुं राज्ञस् स्वबलाधिकतां ध्रुवम् ।
कदाचित् तत्प्रजा दैवी व्यापद् गाढम् अपीडयत्

405

पुरीकैरविणीसूरश् शूरḫ पादपविद्विषाम् ।
षट्त्रिंशे ऽब्दे जलापूरẖ क्रूरो व्यप्लवत प्रजाः

406

[प्स्-ज्र्त् 34]
तदन्तḫप्रतिबिम्बस्थे स्वस्मिन् सद्मान्तरभ्रमात् ।
तद्वीक्षार्थम् इवानीके तोये तुम्बीर् व्यधुर् गृहाः ॥ ज्र्त्_ब्.466 ॥
नगरब्रुडनाद् अस्रु मुञ्चन्तो निर्झरच्छलात् ।
तस्योदीपस्य महतḫ पर्वतास् तटताम् अगुः

407

न स वृक्षो न सा सीमा न स सेतुर् न तद् गुहम् ।
तटस्थम् अपि यन् नैव जलपूरो व्यनाशयत्

408

नाद्रिदुर्गाण्य् अपश्यत् स जातुचिद् वैरिभीतितः ।
अम्बुपूरभयात् तेषु राजा समचरत्तराम्

409

पीते तत्तेजसेवाम्बुपूरे शान्ते मितैर् दिनैः ।
भूयस् तद्विप्लवाशङ्की सो ऽचिकीर्षद् गिरौ पुरीम्

411

नाम्ना लक्ष्म्या महिष्याश् च प्रसिद्धां नगरीं व्यधात् ।
स्वौदार्यानुगुणां राजा निर्माणम् अविलोकयन् ॥ 410च्द् ॥
शारिकाशैलराजस्य मूले पुण्यजनाश्रिताम् ।
याम् अद्राक्षीत्तरां लोकस् सुमेरोर् अलकाम् इव ॥ 410घ् ॥
वितस्तासिन्धुसम्भेदे स्वनाम्ना स पुरीं व्यधात् ।
प्रतिबिम्बच्छलात् तोये त्रपया स्वर् निमज्जति

412

सौधोत्सेधमयीं राशीभूतां कीर्तिम् इवाचलाम् ।
अलोलश्रीḫ पुरीं लोलडामरस् स्वाभिधां व्यधात्

413

[प्स्-ज्र्त् 35]
सुधाधौतैर् मठैर् लक्ष्मीं फलयद्भिẖ कृतैḫ पुरी ।
कुलिशच्छिन्नकैलासशृङ्गभङ्गिम् अजीजनत् ॥ ज्र्त्_ब्.475 ॥
आजन्मलोलता मह्या स्वरसाम्याय वर्धिता ।
निहन्ति च्छायया तस्या द्युमणिस्पर्शजं सुखम्

414

या लक्ष्म्या भागिनेयीत्वाद् बालापालि निजान्तिके ।
लासाख्या सा समाक्रामन् नृपतेश् चित्तदर्पने

415

यश् चानुरोधतन्तुस् तं चिरं लक्ष्म्या निबद्धवान् ।
स च्छिन्नो रागवेगेन लासासौन्दर्यजन्मना

416

बलिजिन्मूर्तिना तेन वसन्त्या वक्षसि श्रियः ।
प्रातिवेश्मिकतां नीता लासा सौभाग्यभागिनी

417

छाया तद्रचितोदयापि दिवसश्रीभोगम् आतन्वतः सूर्यात् सम्मुखतां जहाति वहति श्रेयोहरीं कालताम् ।
स्त्रीणाम् अस्ति चतुर्गुणा मतिर् इति स्थाने न हन्त श्रुतिर् यद् वा दुर्विधिपङ्कम् आकलयितुं शक्तो न कश्चिद् द्रुतम्

418

प्राकृतस्यावताराख्याभल्लस्यापि सुता सती ।
लक्ष्मीर् लासानुरक्ते ऽधाद् अथ रोषं महीपतौ

419

रोषात् सिन्धुपतेर् देशं सम्बन्धित्वाद् गतां नृपः ।
प्रत्यानयत् त्रपोद्रेकान् न पुनस् स्नेहगौरवात्

420

[प्स्-ज्र्त् 36]
अलाब्वो न्यब्रुडन्न् अन्तर् अप्लवन्त जले शिलाः ।
लक्ष्मीपक्षẖ क्षयं वृद्धिं लासापक्षस् तु लब्धवान् ॥ ज्र्त्_ब्.483 ॥
यावद् यावद् अगाद् दूरं लक्ष्मी रात्रिर् इव क्रुधा ।
तावत् तावत् स तां लासां दिवं भास्वान् इवाभजत् ॥ ज्र्त्_ब्.484 ॥
अपनीय तापखेदं मरुकरिणी पद्मिनीतोयैः ।
तत्पद्मशेवलाम्भोनिर्माथे कर्मठीभवति

421

लक्ष्म्या मातृस्वसुस् सर्वमातृकृत्यकृतो ऽभवत् ।
राजप्रियाथ राकेव लासा पक्षक्षयोद्यता

422

सत्कर्मपाकसमयो ऽस्य न चेद् विकासशोभां न किं परिहरेत् कुमुदाकरस्य ।
विश्वप्रबोधहरणप्रवणक्षणेन कुस्त्री निशा च सहसैव निशाकरेण

423

चिन्तासूचकनिश्श्वासक्लिन्नौष्ठी तं कदाचन ।
अवोचद् भोगिनीवेति लासाख्या भोगिनी नृपम्

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc