भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 41-60

41

दातुं भोक्तुम् अनीशस्य श्रोत्रियस्येव सम्पदम् ।
प्रयागजनकौ धूर्तौ राज्ञो मुमुषतुश् श्रियम्

42

तौ हि स्वभृत्यैर् निस्सत्यौ कारितै राक्षसाकृतिम् ।
तम् अत्रासयतां रात्रौ रात्रौ चित्रेण कर्मणा

43

मिथ्यात्मनीनतां तस्य नाटयन्तौ कुमन्त्रिणौ ।
"रक्षासून्" इति तौ वित्तं त्याजयाम् आसतुर् नृपम्

44

स्थाने भिषायकस्यैताव् आदिश्य स्वानुजीविनम् ।
तृणच्छन्नं महारत्नैश् चैत्र्यां पूजयतस् स्म तौ

45

स पुनẖ कृतसङ्केतḫ पश्यत्स्व् अथ जनेष्व् अहो ।
राज्ञẖ कृत्वाशिषं रात्रौ सालङ्कारो ययौ वनम्

46

"भिषायको बलिं यत् ते गृहीत्वा व्यधिताशिषः ।
निर्विघ्नं भावि त्वद्राज्यम्" इति तौ भूपम् ऊचतुः

47

[प्स्-ज्र्त् 1]
भिषायकदिने भृत्यं स्वं कृत्वा तौ भिषायकम् ।
रत्नैर् अभ्यर्च्य विपिनं नीत्वाथ प्रत्यमुञ्चताम् ॥ ज्र्त्_ब्.47 ॥
"कुबेरस् त्वयि तुष्टो ऽद्य नानारत्नविभूषितः ।
कृत्वा तवाशिषं लोकसमक्षं स तिरोहितः" ॥ ज्र्त्_ब्.48 ॥
इत्य् उक्त्वा भूपतेस् मुग्धस्य कृपणस्य च ।
प्रयागजनकौ धूर्तौ प्रसादं प्रत्यदापिताम् ॥ ज्र्त्_ब्.49 ॥
एवं कदीश्वरस्यास्य बालस्येव विभीषिकाः ।
सन्दर्श्य कोशं निश्शेषं लुण्ठयां चक्रतुर् विटौ

48

राजा सार्धान् नवाब्दान् स क्ष्मां भुक्त्वा दिवसान् दश ।
चत्वारिंशाब्दनाभस्यसिताष्टम्यां लयं ययौ

49

3) वन्तिदेव (ल्स् 4240-4247)
वन्तिदेवाभिधस् सप्तचत्वारिंशे ऽथ वत्सरे ।
भाद्रशुक्लदशम्यां स तस्य पुत्रो व्यपद्यत

50

4) वोप्पदेव (ल्स् 4247-4256)
वोप्पदेवाभिधḫ पौरैर् योग्यालाभान् नृपẖ कृतः ।
प्रापितो घासरचितḫ पूजाम् इव भिषायकः

51

दृष्ट्वा स्थूलशिला हृष्टो मूढस् सो ऽथ स्वमन्त्रिणः ।
आदिशत् "स्तन्यपानेन वर्ध्यन्ताम् इतरा" इति

52

श्रुत्वा तत्स्थानमाहात्म्यं बालिशो मन्त्रिभिस् सह ।
आगात् सुरेश्वरीक्षेत्रं नौपथेन स जातुचित्

53

अप्सु स्वप्रतिबिम्बे ऽस्य कुर्वतो मुखवैकृतम् ।
रुषा चपेटां ददतो न्यपतन् मणिमुद्रिका

54

"राज्ञẖ क्व मणिमुद्रे"ति पृच्छतस् सो ऽभ्यधाद् इति ।
"पतिता सा जले रेखा तत्राभिज्ञानम्" आचरन्

55

एवं निदर्शनीभूय मूर्खाणां नामराजतां ।
नवाब्दांश् चतुरो मासान् सार्धान् द्वे च दिने व्यधात्

56

5) जस्सक (ल्स् 4256-4274)
तस्यानुजो ऽथ भूभारम् अनिच्छन्न् अपि जस्सकः ।
स्ववृद्धिकामैर् अत्यज्ञो लवन्यैर् अभ्यषिच्यत

57

बध्यन्ते न शुका इवोदितवचस्संवादिनो वायसा
भूमिश् शर्करिलोर्वरेव भजते नो घर्षणक्षोदनम् ।
अश्मा सैन्धववन् न जातु गमितो निष्पिष्य चूर्णीकृतिं
केषाञ्चिद् गुणवद् गुणाय महते दोषो ऽपि सञ्जायते

58

सोदरौ क्षुक्षभीमाख्यौ द्विजौ तस्य महीभुजः ।
धूर्तत्वेन प्रियाव् आज्ञाम् अचिराद् उदलङ्घताम्

59

"समर्थाव् अतिसामर्थ्यौ स कथं नौ सहिष्यते" ।
भूपं मत्वापि सामर्षं नान्यं वव्रतुर् इत्य् अमू

60

स्वयं यच् च न संभेजे तयोर् एको नृपश्रियम् ।
लवन्योत्सिक्तता हेतुर् न त्व् अनौचित्यशङ्किता

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc