राजतरङ्गिनी · श्लोक 21-40
पश्यन्तु मत्काव्यम् इति चिरं दूरं गता कवेः ।
अन्तḫपरमुखप्रेक्षिभावदैन्यकदर्थना
समस् स्याद् अप्रवीणानां गीतसंस्कृतयो रसः ।
वानरा युञ्जते गुञ्जाश् शीते वह्निकणभ्रमात्
काव्यं श्रुतम् अपि प्रीत्यै नाबोधोपहतात्मनाम् ।
हीनदन्तबलस्येक्षुर् मुखे न्यस्तẖ करोति किम्
पदार्थसुन्दरे काव्ये दर्शिते निर्मलात्मनाम् ।
दुर्वारं गुणरत्नानां मत्सरप्रतिबिम्बनम्
लक्ष्मणा दूषयन्न् इन्दुं बुधं मत्सरयक्ष्मणा ।
विधाता वाच्यताम् एति परोद्रेकासहाग्रणीः
मद्वाक् कल्हणकाव्यान्तḫप्रवेशाद् एतु चर्वणम् ।
नड्वलाम्बु सरित्तोये पतितं पीयते न किम्
1) जयसिंह (ल्स् 4203-4230)
जगदानन्दनो देवद्विजातिकृतवन्दनः ।
क्षितिसङ्क्रन्दनस् श्रीमान् आसीत् सुस्सलनन्दनः
गजराजैकवाहत्वप्रसिद्धिम् अपि बिभ्रती ।
जयसिंहाभिधाने श्रीश् चित्रं यस्मिन् सदावसत्
वाग्देव्या लालिते मात्रा श्रियो भोक्तरि भूपतौ ।
तयोश् श्वश्रूस्नुषात्वेन नैवादर्शि विरोधिता
त्रिगर्ताधिपतेर् वश्यं मल्लं जातु सुशर्मणः ।
वैरिनिर्वासितं प्राप्तं वृत्तिकामं नृपो ऽग्रहीत्
सर्वत्रौषधयस् तृणानि मणयो ग्रावाण एवाखिलैर् मन्यन्ते गुणिनो दिगन्तरगतास् तावज् जनाḫ प्राकृताः ।
यावन् नैव नयन्ति कर्मभिर् अभिध्येयप्रकर्षप्रथैश् चित्रप्रायदशैश् च निर्मलम् अतिस्फारं जनं रञ्जनम्
वसुधावासवे याते जेतुं यवनमेदिनीम् ।
सैन्यस्य वल्लभो मल्लश् शौर्योद्रेकाद् अथाभवत्
हतशेषं तुरुष्केशसैन्यं तुलयितुं निशि ।
शिबिरं मल्लचन्द्रो ऽगाद् रिपूणां साहसोर्जितः
यत्र न प्राविशद् वायुर् भीत्येव सुभटैर् वृते ।
ध्रुवं मन्त्रौषधिबलात् प्रविश्यात्र बलान्तरे
सुप्तद्रोहांहसो भीतेर् अनिघ्नन् यवनेश्वरम् ।
उपानहौ स्वनामाङ्के निनायास्य शिरस्त्रताम्
उपानहौ परिज्ञाय गृहीत्वा चाथ सो ऽप्य् अरिः ।
भूपतेश् शिबिरं यातश् श्रियं कीर्तिम् इवादित
द्वे मूर्ती तपनानलाव् अथ तथा शंभोश् शशाङ्काम्भसी नेता हन्त मिथो गतानुगतिको लोकस् तुलां तां द्वयीम् ।
सूर्याचन्द्रमसोर् यथास्वम् उपलैẖ कान्तैर् विशेषं परं तेषां तत्प्रतियोग्यसम्भविगुणैर् लब्धा जनो ऽरोचकी
त्रिंशे ऽब्दे फाल्गुणे कृष्णद्वादश्यां भूमिवल्लभः ।
स्वसौभाग्येन दिव्यस्त्रीदृशम् अप्रीणयत्तराम्
2) परमाणुक (ल्स् 4230-4240)
अथाभ्यषेचि तत्पुत्रो जडैस् स परमाणुकः ।
अणीयḫपत्त्रविस्तारैẖ कुन्दो माघदिनैर् इव
अवधूय प्रजात्राणम् अवधीर्य च दिग्जयम् ।
कर्तुं प्रारभताखिन्नं राजा कोशस्य सञ्चयम्
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0