राजतरङ्गिनी · श्लोक 381-402
अश्वपालेषु गच्छत्सु घोषधातुतटच्छलात् ।
उदक्पतितिरस्कारप्रशस्तिं स व्यधात् प्रभुः
ततो व्यावृत्य गच्छन् स दक्षिणाशां स्ववाजिनाम् ।
मार्गखेदोचितं तापं शतद्रूवारिणाहनत्
ढिल्लीम् उल्लुण्ठ्य तत्कालम् उदक्पतिम् उपागतम् ।
मार्गरोधेन नृपतिर् नितान्तम् उदवेजयत्
[प्स्-ज्र्त्]
योगिनीपुरपौरान् यान् धाट्यानैषीद् उदक्पतिः ।
मार्गदानोपकारेण स तान् अदित भूभुजे
तुरङ्गवस्त्रदानेन स तान् सम्मान्य भूपतिः ।
स्वदेशं प्राहिणोत् कीर्तिराशीन् मूर्तान् बहून् इव
सुशर्मपुरराजेन तस्मात् स्वाशर्मशङ्किना ।
दुर्गाहङ्कारम् उत्सृज्य देव्य् एव शरणीकृता
[प्स्-ज्र्त् 32]
तत्प्रतापानलḫ पीत्वा केदाराश्रयिणां रसम् ।
जातानां शिवलिङ्गानां वत भङ्गम् अदर्शयत् ॥ ज्र्त्_ब्.444 ॥
स्वयं नत्या न तून्नत्या भौट्टानाम् अस्य भूपतेः ।
अर्वतां पर्वतारोहदोहदो विनिवारितः
दुस्तरत्वात् तटस्थस्य देवताभिस् तनूकृतः ।
सिन्ध्वोघो नृपतेर् एवं पूर्वेभ्यश् श्रुतम् अद्भुतम्
एवं नित्यजयोद्योगात् स्वदेशḫ परदेशवत् ।
परदेशस् तु तस्यासीत् स्वदेश इव भूपतेः
प्रतापेनेति सम्पाद्य दिङ्मुखे तिलकश्रियम् ।
व्यधात् प्रविश्य कश्मीरान् स पौरान् अयनोत्सवम्
तस्य वर्णयतां शौर्यं प्रसङ्गाद् अतिमानुषम् ।
अस्माकं चाटुकारित्वं ज्ञास्यते भाविभिर् जनैः
यात्रायातẖ कदाचित् स दूरदेशे महीपतिः ।
अप्सरस्सदृशीं काञ्चिच् छ्रुतवान् हरिणेक्षणाम्
निजानुगान् वञ्चयित्वा राजा युक्त्या कयाचन ।
अथैकाकी स तं देशम् अविशद् भोगलालसः
नर्मणा मोहयित्वा तां द्वितीय इव मन्मथः ।
मनोरथान् असिञ्चत् स तदोष्ठामृतपानतः
अपश्यन्तस् तम् आशङ्क्य हतं केनापि वैरिणा ।
अथ कोपभ्रमावेशम् उद्भटास् तद्भटा ययुः
अन्विष्यद्भिस् तम् अश्वेन निबद्धेनाङ्गनाद् बहिः ।
समभाव्यत तै राज्ञो वैरिभिर् निर्जयẖ कृतः
शौर्यस्वाम्यनुगाभ्यां तु विधातुं युद्धम् उद्भटैः ।
तद्भटैस् सदनं रुद्धम् अबद्धकवचान्तरैः
अत्रसद्भिश् च तत्सिंहनादपूर्णात् ततḫ पुरा । 398अब् ।
[प्स्-ज्र्त्]
कृतास्कन्देषु शूरेषु शत्रुभिर् विपिनं गतम् ॥ 398च्द् ॥
अथाश्वास्य प्रियां तां तु शत्रून् मत्वा समागतान् ।
स्वशौर्यं सफलीकर्तुं योद्धुं राजा विनिर्ययौ
शाहाबदेनम् आलोक्य तं तेषाम् अनुजीविनाम् । 400अब् ।
चित्तैḫ प्रीत्या मुखैर् भीत्या नीत्या मूर्धभिर् आनतम् ॥ 400च्द् ॥
एवं स स्वजयस्तम्भयूपान् रणमखान् बहून् ।
हतवैरिपशूंश् चक्रे स्वप्रतापानलार्चिषः
स्वदेशे मन्त्रिणोस् तस्य कोटभट्टोदयश्रियोः ।
समरेषु भरस् त्व् आसिच् चन्द्रडामरलोलयोः
मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0