भाषा

ENहिગુ
ग्रंथ पाठ

राजतरङ्गिनी · श्लोक 361-380

361

राज्ञि शाहाबदेने ऽथ स्मरणं क्षितिर् अत्यजत् ।
ललितादित्यसम्पत्तिविपत्तिसुखदुẖखयोः

362

[प्स्-ज्र्त् 29]
श्रीमान् शाहाबदेनो ऽथ प्राज्यं साम्राज्यम् अग्रहीत् ।
येन राजन्वती भूर् द्याम् अहसत् तद्यशोमिषात् ॥ ज्र्त्_ब्.416 ॥
ग्रीष्मार्कं द्यौर् इवान्यर्तून् राज्ञो ऽतीत्य बहून् मही ।
ध्रुवम् आपज् जयापीडम् एतं न तु स किल्विषी

363

पूर्वे परे च भूपाला नायकेनेव भूषिताः ।
क्ष्मानायकेन तेनाथ मुक्तागुणलसच्छ्रिया

364

[प्स्-ज्र्त् 30]
सिन्धौ वाडवतप्ताम्बुन्य् अपि बिम्बितम् अम्बरम् ।
यत्प्रतापाग्नितापार्तं मज्जतीव दिवानिशम् ॥ ज्र्त्_ब्.419 ॥
तदीयो जयलक्ष्मीभिḫ प्रविष्टाभिḫ पदे पदे ।
न प्रतापानलो ऽतृप्यत् सरिद्भिर् इव सागरः

365

जयं विना गणयतẖ क्षणमात्रं वृथा गतम् ।
वृद्धस्य तरुणीवाभूद् यात्रा तस्यातिवल्लभा

366

न मृगाक्षी न वा शीधुपानलीला न चन्द्रिका ।
यात्रैव केवलं तस्य भूमिभर्तुर् मनो ऽहरत्

367

न तापो न हिमं तस्य न सन्ध्या न निशा तथा ।
न क्षुन् न वा पिपासा च राज्ञो यात्राम् अविघ्नयत्

368

न सरिद् दुस्तरतरा दुरारोहो न पर्वतः ।
दुर्लङ्घ्यो न मरुश् चाभूद् यात्रायां मानिनḫ प्रभोः

369

अजितां पूर्वभूपालैḫ पारसीककुलाकुलाम् ।
उत्तराशां विजेतुं स प्रस्थानं प्रथमं व्यधात्

370

जगतां विजयी कामो मधुशीधुवधूर् इव ।
चन्द्रलोलकशूरान् स सहायत्वे ऽवृणोत् प्रभुः

371

सैन्यचेतांसि सत्त्वेन तमसा स्वविरोधिनः ।
अपूरयत् स रजसा दिगन्तान् उद्धतान्तकः

372

प्रविष्टं तस्य गोविन्दखानपालनशालिनि ।
उदभाण्डपुरे पूर्वं बाणैस् तदनु सैनिकैः

373

शैलशृङ्गं नृपानीके प्राप्ते तस्य विरोधिभिः ।
भयातुरैर् अवारोहश् शृङ्गात् तुङ्गाद् व्यधीयत

374

सदृशं प्राभृतं दातुम् असमर्थो ऽस्य सिन्धुपः ।
उपधीकृतवान् कन्यारत्नं आदाय भूपतेः

375

राज्ञस् तु गौरवं बाहौ गान्धाराणां भुवोढया ।
चित्रं तु लाघवं तेषां भयभारानुषङ्गतः

376

भङ्गस् तुङ्गस्य शृङ्गस्य खड्गानां नैव भूभुजा ।
शिङ्गानाम् अपि देशे ऽस्मिन् विहितश् शौर्यशालिना

377

आकर्ण्य राजसिंहस्य सिंहनादमयीं चमूम् ।
मदं तत्याज चस्खाल बिभाय गजिनीपुरी

378

[प्स्-ज्र्त् 31]
स्नातं रक्तैर् द्विषां भुक्तं प्राणवातैर् महीतले ।
व्रतस्थाभिर् इवास्वापि तस्याहो धीरहेतिभिः ॥ ज्र्त्_ब्.434 ॥
श्रोत्रियक्षत्रियैर् अष्टनगरे ऽरोदि शाम्यतोः ।
तरुणाग्निप्रतापाग्न्योर् धूमेनेव भयातुरैः

379

यशसा सह सम्पत्तिं तस्मिंल् लुण्ठयति प्रभौ ।
प्रापत् पुरुषवीराख्यदेशाख्या रूढिशब्दताम्

380

दत्तवाष्पनिवापाम्भोनगराग्रहरस्त्रियः ।
जीवतस् स्वस्य पत्युश् च पिण्डौ स्तननिभाद् ददुः

मूल पाठ: Rājataraṅginī · Edition: Slaje, Walter: Kingship in Kaśmīr (ad 1148-1459). From the pen of Jonarāja, court Paṇḍit to Sulṭān Zayn al-'Ābidīn. Halle : 2014 · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc